Ad Code

एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता



एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः। स परेऽक्षर आत्मनि संप्रतिष्ठते ॥

लिप्यन्तरणम्

eṣa hi draṣṭa spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ | sa pare'kṣara ātmani saṁpratiṣṭhate ||

अन्वयः

एषः हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः सः परे अक्षरे आत्मनि सम्प्रतिष्ठते ॥

अन्वयलिप्यन्तरणम्

eṣaḥ hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā vijñānātmā puruṣaḥ saḥ pare akṣare ātmani sampratiṣṭhate ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

प्रत्यगात्मनोऽनन्योऽयमिति भ्रमं व्युदस्यन्नाह -

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता 

विज्ञानात्मा पुरुषः स परेऽक्षर आत्मनि सम्प्रतिष्ठते ॥९॥

यश्चायं प्रसिद्धो द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता स्वयं च विज्ञानस्वरूपः स प्रत्यगात्माऽपि परेऽक्षरे - क्षरणशून्ये परमात्मनि प्रतिष्ठितः ॥९॥

आङ्गल-अर्थः ॥

“For this that seeth and toucheth, heareth, smelleth, tasteth, feeleth, understandeth, acteth, is the reasoning self, the Male within. This too departeth into the Higher Self which is Imperishable.

हिन्दी-अर्थः ॥

''यह जो द्रष्टा है, स्प्रष्टा है, श्रोता है, घ्राता (सूँघने वाला) है, रस ग्रहण करने वाला है, मनसा अनुभव करने वाला है, बोध करने वाला है, कर्ता है, विज्ञानात्मा अर्थात् विवेकात्मा है, वह है अन्तर 'पुरुष'। यह भी उस 'परतर-आत्मा' में, उस 'अक्षर' परमात्मा में समाहित हो जाता है।

शब्दावली

एषः हि - eṣaḥ hi - for this

द्रष्टा - draṣṭā - that which seeth

स्प्रष्टा - spraṣṭā - that which toucheth

श्रोता - śrotā - that which heareth

घ्राता - ghrātā - that which smelleth

रसयिता - rasayitā - that which tasteth

मन्ता - mantā - that which feeleth

बोद्धा - boddhā - that which understandeth

कर्ता - kartā - that which acteth

विज्ञानात्मा - vijñānātmā - the reasoning self

पुरुषः - puruṣaḥ - the Male within

सः - saḥ - this

परे अक्षरे आत्मनि - pare akṣare ātmani - into the Higher Self which is Imperishable

सम्प्रतिष्ठते - sampratiṣṭhate - too departeth

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code