स यदा तेजसाभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यत्यथ यदैतस्मिञ्शरीरे एतत्सुखं भवति ॥
॥ लिप्यन्तरणम् ॥
sa yadā tejasābhibhūto bhavatyatraiṣa devaḥ svapnān na paśyatyatha yadaitasmiñśarīre etatsukhaṁ bhavati ||
॥ अन्वयः ॥
सः यदा तेजसा अभिभूतः भवति अत्र एषः देवः स्वप्नान् न पश्यति। तदा एतस्मिन् शरीरे एतत् सुखं भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
saḥ yadā tejasā abhibhūtaḥ bhavati atra eṣaḥ devaḥ svapnān na paśyati| tadā etasmin śarīre etat sukhaṁ bhavati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
कस्यैतत्सुखं भवतीत्यस्योत्तरमाह -
स यदा तेजसाभिभूतो भवति अत्रैष देवः स्वप्नान्न पश्यति । अथ तदेतस्मिञ्छरीरे एतत्सुखं भवति ॥६॥
अत्र तेजःशब्दः सर्वस्य प्रकाशके परमात्मनि वर्तते । स एष देवः जीवः, मनो वा । यदा तेजसा - परमात्मना अभिभूतो भवति - परिष्वक्तो भवति । अत्र - अस्मिन्नवसरे स्वप्नान्न पश्यति । जीवस्य परमात्मनि सम्पत्तिदशायां मनसोऽप्यस्त्येव तत्संश्लेष इति न विरोधः । अथ तदेतस्मिञ्शरीरे एतत्सुखं भवति तदेतत्सुखम् सुप्तोत्थितेन प्रत्यभिमृश्यमानं सौषुप्तिकं सुखम्, एतस्मिन्नेव शरीरे भवति न बहि: । अयं भावः - यद्यपि सुषुप्तावनुभूयमानं सुखं न बाह्यशब्दाद्युपाधिसम्बन्धि, तदानीं तेषामनुभवासम्भवात् । तथापि शरीर एव, शरीरान्तरेव निरुपाधिकमात्मस्वरूपानुबन्धि यत्सुखमस्ति तदेवानुभूयत इति ॥६॥
॥ आङ्गल-अर्थः ॥
“But when he is overwhelmed with light, then Mind, the God, dreameth no longer; then in this body he hath felicity.
॥ हिन्दी-अर्थः ॥
''किन्तु जब यह तेज (प्रकाश) से अभिभूत हो जाता है, तब यह 'मन 'यह' 'देव' स्वप्न नहीं देखता; तब इस शरीर में यह सुखभोग करता है।
॥ शब्दावली ॥
सः - saḥ - he
यदा - yadā - when
तेजसा - tejasā - with light
अभिभूतः भवति - abhibhūtaḥ bhavati - is overwhelmed
अत्र एषः देवः - atra eṣaḥ devaḥ - then Mind, the God
स्वप्नान् न पश्यति - svapnān na paśyati - dreameth no longer
तदा - tadā - then
एतस्मिन् शरीरे - etasmin śarīre - in this body
एतत् सुखम् भवति - etat sukham bhavati - he hath felicity
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know