तदेतदृचाऽभ्युक्तम् - -क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः। तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥
॥ लिप्यन्तरणम् ॥
tadetadṛcā'bhyuktam - -kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ svayaṁ juhvata ekarṣiṁ śraddhayantaḥ | teṣāmevaitāṁ brahmavidyāṁ vadeta śirovrataṁ vidhivad yaistu cīrṇam ||
॥ अन्वयः ॥
तत् एतत् ऋचा अभ्युक्तम्। ये क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठाः श्रद्धयन्तः एकर्षिं जुह्वते यैः तु विधिवत् शिरोव्रतं चीर्णं तेषाम् एव एताम् ब्रह्मविद्यां वदेत ॥
॥ अन्वयलिप्यन्तरणम् ॥
tat etat ṛcā abhyuktam| ( ye ) kriyāvantaḥ śrotriyāḥ brahmaniṣṭhāḥ śraddhayantaḥ ekarṣiṁ juhvate yaiḥ tu vidhivat śirovrataṁ cīrṇaṁ teṣām eva etām brahmavidyāṁ vadeta ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ शिरोव्रतं कुर्वताम् आथर्वणिकानाम् अक्षरब्रह्मविद्योपदेशः ]
अथास्या विद्याया: पात्रविशेषविधानं क्रियते ।
तदेतदृचाऽभ्युक्तम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥१०॥
ऋचा - मन्त्रेण तदेतत्- वक्ष्यमाणम्, किञ्चिदभ्युक्तम् । किं तत् ? उच्यते - क्रियावन्त इति । यथोक्तंकर्म कुर्वाणाः । ब्रह्मणि वेदे निष्ठा येषां तथाभूताः, वेदाध्ययनपराः । श्रद्धयन्तः श्रद्धायुक्ताः, ये श्रोत्रियाः - श्रोत्रियलक्षणलक्षिता: । एकर्षि - एकर्षिनामकमग्निं जुह्वते जुह्वति । किञ्च - यदाथर्वणानां प्रसिद्धं शिरोव्रतमिति, तद्व्रतं च यैश्चीर्णम् - अनुष्ठितम्, तेभ्य एवैतां ब्रह्मविद्यां वदेत - वदेत् । इह विद्याशब्देन विद्याप्रतिपादकोऽयमुपनिषदात्मकः शब्दसन्दर्भः प्रतिपाद्यते ॥१०॥
॥ आङ्गल-अर्थः ॥
This is That declared by the Rig Veda. Doers of works, versed in the Veda, men absorbed in the Brahman, who putting their faith in the sole seer offer themselves to him sacrifice,-to them one should speak this Brahman-knowledge, men by whom the Vow of the Head has been done according to the rite.
॥ हिन्दी-अर्थः ॥
यह 'वह' है जिसका ऋग्वेद में कथन किया गया है। कर्म करने वाले, श्रोत्रिय, ब्रह्मनिष्ठः जो 'एक-ऋषि' में श्रद्धा रखते है स्वयं को उसके प्रति समर्पित करके यजन करते हैं, केवल उन्हीं को यह ब्रह्म-विद्या बतानी चाहिये जिन्होंने 'शिरोन्नत' का विधिवत् पालन किया है।
॥ शब्दावली ॥
तत् एतत् - tat etat - this is That
ऋचा अभ्युक्तम् - ṛcā abhyuktam - declared by the Rig Veda
क्रियावन्तः - kriyāvantaḥ - doers of works
श्रोत्रियाः - śrotriyāḥ - versed in the Veda
ब्रह्मनिष्ठाः - brahmaniṣṭhāḥ - men absorbed in the Brahman
एकर्षिम् श्रद्धयन्तः - ekarṣim śraddhayantaḥ - who putting their faith in the sole seer
जुह्वते - juhvate - offer themselves to him sacrifice
यैः तु - yaiḥ tu - men by whom
विधिवत् - vidhivat - according to the rite
शिरोव्रतम् - śirovratam - the Vow of the Head
चीर्ण्म् - cīrṇm - has been done
तेषाम् एव - teṣām eva - to them
एताम् ब्रह्मविद्याम् - etām brahmavidyām - Brahman-knowledge
वदेत - vadeta - one should speak this
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know