स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुले भवति। तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥
॥ लिप्यन्तरणम् ॥
sa yo ha vai tat paramaṁ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati | tarati śokaṁ tarati pāpmānaṁ guhāgranthibhyo vimukto'mṛto bhavati ||
॥ अन्वयः ॥
यः ह वै तत् परमं ब्रह्म वेद सः ब्रह्म एव भवति अस्य कुले अब्रह्मवित् न भवति। सः शोकं तरति पाप्मानं तरति गुहाग्रन्थिभ्यः विमुक्तः अमृतः भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ ha vai tat paramaṁ brahma veda saḥ brahma eva bhavati asya kule abrahmavit na bhavati| saḥ śokaṁ tarati pāpmānaṁ tarati guhāgranthibhyaḥ vimuktaḥ amṛtaḥ bhavati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नास्याब्रह्मवित् कुले भवति ]
अथ ब्रह्मवित् स्तूयते - स इति ।
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥९॥
य एतदुक्तलक्षणं सर्वतः प्रकृष्टं ब्रह्म वेद, स विद्वान् ब्रह्मैव भवति । एवकारोऽत्र सौसादृश्ये वर्तते । अनुशिष्टोऽयमस्यार्थः । स्तुतिप्रकरणत्वादेवकारेणास्यार्थस्य ज्ञापनं समुचितं नाम । 'नास्याब्रह्मवित्कुले भवती 'ति सह श्रवणात्स्तुतिः प्रकृतेति सुव्यक्तम् । तरति शोकमिहैव तरति तन्मूलं पाप्मानं च । गुहाग्रन्थिभ्यः - हृदयगुहागतेभ्यो ग्रन्थिवद्दुर्मोचेभ्यो वासनादिभ्यो विमुक्तो भूत्वा स्वयममृतो भवति । आविर्भूतापहतपाप्मत्वादिस्वरूपतयाऽऽनन्दघनोऽत्यन्तभोग्यस्वरूपो भवति ॥९॥
॥ आङ्गल-अर्थः ॥
He, verily, who knows that Supreme Brahman becomes himself Brahman; in his lineage none is born who knows not the Brahman. He crosses beyond sorrow, he crosses beyond sin, he is delivered from the knotted cord of the secret heart and becomes immortal.
॥ हिन्दी-अर्थः ॥
वस्तुतः वह जो कि उस 'परम ब्रह्म' को जानता है वह स्वयं 'ब्रह्म' बन जाता है; उसके कुल में 'ब्रह्म' को न मानने वाला पैदा नहीं होता। वह शोक से पार हो जाता है, वह पापों से तर जाता है, वह हृद्गुहा की ग्रंथियों से मुक्त होकर अमर हो जाता है।
॥ शब्दावली ॥
यः ह वै - yaḥ ha vai - he who, verily
तत् परमम् ब्रह्म - tat paramam brahma - that Supreme Brahman
वेद - veda - knows
सः - saḥ - he
ब्रह्म एव भवति - brahma eva bhavati - becomes himself Brahman
अस्य कुले - asya kule - in his lineage
अब्रह्मवित् न भवति - abrahmavit na bhavati - none is born who knows not the Brahman
सः - saḥ - he
शोकम् तरति - śokam tarati - crosses beyond sorrow
पाप्मानम् तरति - pāpmānam tarati - crosses beyond sin
गुहाग्रन्थिभ्यः - guhāgranthibhyaḥ - from the knotted cord of the secret heart
विमुक्तः - vimuktaḥ - he is delivered
अमृतः भवति - amṛtaḥ bhavati - becomes immortal
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know