प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम्। मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥
॥ लिप्यन्तरणम् ॥
prāṇasyedaṁ vaśe sarvaṁ tridive yat pratiṣṭhitam | māteva putrān rakṣasva śrīśca prajñāṁ ca vidhehi na iti ||
॥ अन्वयः ॥
त्रिदिवे यत् प्रतिष्ठितम् इदं सर्वं प्राणस्य वशे वर्तते । माता पुत्रान् इव अस्मान् रक्षस्व नः श्रीः प्रज्ञां विधेहि। इति ॥
॥ अन्वयलिप्यन्तरणम् ॥
tridive yat pratiṣṭhitam idaṁ sarvaṁ prāṇasya vaśe ( vartate )| mātā putrān iva ( asmān ) rakṣasva naḥ śrīḥ prajñāṁ vidhehi| iti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि नः ॥१३॥
इदं सर्वम् - अस्मिँल्लोके विद्यमानं यत्किञ्च, त्रिदिवे - स्वर्गे प्रतिष्ठितं यत्किञ्च तत्सर्वं प्राणस्य ते वशे वर्तते । तत् त्वमस्मान् माता पुत्रानिव रक्षस्व । श्रीः प्रज्ञां च नो विधेहि । स्वकार्ये शक्तिं नः प्रयच्छेति यावत् । एतेन संवादेन मुख्यप्राणस्य वरिष्ठता शरीरधारणसमर्थता च ज्ञापिता भवति ॥१३॥
॥ इति प्रश्नोपनिषद्भाष्ये द्वितीयः प्रश्नः ॥
॥ आङ्गल-अर्थः ॥
“'For all this Universe, yea, all that is established in the heavens to the Breath is subject; guard us as a mother watches over her little children; give us fortune and beauty, give us Wisdom.' ”
॥ हिन्दी-अर्थः ॥
'' 'यह सम्पूर्ण विश्व, यहाँ तक कि जो कुछ स्वर्गों में प्रतिष्ठित है, वह सब 'प्राण' के वश में है; जिस प्रकार माता अपने नन्हें पुत्रों की रक्षा करती है, उसी प्रकार हमारी रक्षा करिये; हमें सौभाग्य एवं सौन्दर्य (श्री) प्रदान करिये, हमें प्रज्ञा दीजिये।'''
॥ शब्दावली ॥
त्रिदिवे - tridive - in the heavens
यत् प्रतिष्ठितम् - yat pratiṣṭhitam - all that is established
इदम् सर्वम् - idam sarvam - all this Universe
प्राणस्य वशे - prāṇasya vaśe - to the Breath is subject
माता पुत्रान् इव - mātā putrān iva - as a mother watches over her little children
रक्षस्व - rakṣasva - guard us
श्रीः - śrīḥ - fortune and beauty
प्रज्ञाम् - prajñām - Wisdom
नः विधेहि इति - naḥ vidhehi iti - give us

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know