यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति। तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन। एतद्वै तत् ॥
॥ लिप्यन्तरणम् ॥
yataścodeti sūryo'staṁ yatra ca gacchati | taṁ devāḥ sarve'rpitāstadu nātyeti kaścana | etadvai tat ||
॥ अन्वयः ॥
सूर्यः यतः उदेति यत्र अस्तं गच्छति च सर्वे देवाः तम् अर्पिताः तत् न कश्चन उ अत्येति ॥
॥ अन्वयलिप्यन्तरणम् ॥
sūryaḥ yataḥ udeti yatra astaṁ gacchati ca sarve devāḥ tam arpitāḥ tat na kaścana u atyeti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ब्रह्मणः सर्वात्मकत्वम् ]
सर्वे देवाः यत्प्रतिष्ठाः, स तु स इत्याह -
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
तं देवास्सर्वे अर्पितास्तदु नात्येति कश्चन ॥ एतद्वै तत् ॥९॥
यतश्चोदेति सूर्यो यत्र चास्तं गच्छति यस्मात्परमात्मनः आविर्भवति यस्मिन्नेव परमात्मनि लयमिति । सर्वे च देवाः - अग्न्यादयः तमेव परमात्मानमर्पिताः - अरा इव रथनाभौ तस्मिन्नर्पिता इत्यर्थः । जगति कश्चिदपि पदार्थः तदु नात्येति तं परमात्मानमतिलङ्घय स्वातन्त्र्येण न वर्तते । सर्व एव तत्प्रतिष्ठा इति यावत् ॥९॥
॥ आङ्गल-अर्थः ॥
He from whom the sun riseth and to whom the sun returneth, and in Him are all the Gods established,-none passeth beyond Him. This is the thing thou seekest.
॥ हिन्दी-अर्थः ॥
'''वह' जिससे सूर्य का उदय होता है तथा जिसमें सूर्य अस्त हो जाता है, तथा 'उस' में ही समस्त देवगण अवस्थित हैं, कोई भी 'उसका' अतिक्रमण नहीं करता। यही है 'वह' जिसकी तुम्हें अभीप्सा है।
॥ शब्दावली ॥
यतः - yataḥ - He from whom
सूर्यः - sūryaḥ - the sun
उदेति - udeti - riseth
यत्र - yatra - to whom
अस्तम् गच्छति - astam gacchati - the sun returneth
च - ca - and
सर्वे देवाः - sarve devāḥ - all the Gods
तम् - tam - in Him
अर्पिताः - arpitāḥ - are established
तत् - tat - That / Him
न कश्चन - na kaścana - none
उ - u - indeed
अत्येति - atyeti - passeth beyond
एतत् वै तत् - etat vai tat - this is the thing thou seekest
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know