Ad Code

यदेवेह तदमुत्र यदमुत्र तदन्विह।



यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥

॥ लिप्यन्तरणम् ॥

yadeveha tadamutra yadamutra tadanviha | mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ||

॥ अन्वयः ॥

यत् एव इह तत् अमुत्र यत् अमुत्रे तत् अनु इह। सः मृत्योः मृत्युम् आप्नोति यः इह नाना इव पश्यति ॥

॥ अन्वयलिप्यन्तरणम् ॥

yat eva iha tat amutra yat amutre tat anu iha| saḥ mṛtyoḥ mṛtyum āpnoti yaḥ iha nānā iva paśyati ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ परमात्मनः सर्वात्मत्वशङ्कापरिहारौ ]

अव्यवहितमन्त्रत्रयतात्पर्यपर्यवसितमर्थमाह - यदेव इति ।

यदेवेह तदमुत्र यदमुत्र तदन्विह ।

मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥१०॥

अयमाशयः या प्राणेनेति मन्त्रे जीवात्मनां परमात्मात्मकत्वमुक्तम् । अरण्योरिति मन्त्रे अग्नेस्तदात्मकत्वोक्त्या भूतजातस्यापि तदात्मकत्वं व्यञ्जितम् । यतश्चेति मन्त्रे परमात्मनः सूर्याद्युदयलयप्रतिसम्बन्धित्वेन सर्वदेवप्रतिष्ठात्वोपपादनमुखेन तदु नात्येति कश्चनेति सर्वस्य पदार्थस्य द्रव्यमुल्लङ्घय जातिगुणादीनामिव परमात्मानमुल्लङ्घ्य सत्ता प्रतिषिद्धा । एतेन सर्वात्मकः सर्वप्रकारः परमात्मा एक एवेति तात्पर्यतोऽवगतमर्थं हृदि निधायाह - यदेवेति । इह - जगति नाना नास्ति, सर्वान्तः परमात्मा एक एव तत्तत्प्रकारस्तत्र तत्र वर्तते । यदेवेह तदेवामुत्र दृश्यमानप्रकारमदृश्यमानप्रकारमप्येकमेव परमात्मतत्त्वमिति भावः । यदमुत्र तदन्विति दार्च्यायोक्तिः । मृत्योः स मृत्युं गच्छति - सर्वथा संसारं प्रविशति । य इह नानेव पश्यति - वस्तुतो नानात्वं नास्तीत्यर्थं स्फुटयितुमिवशब्दः ॥१०॥

॥ आङ्गल-अर्थः ॥

What is in this world is also in the other, and what is in the other, that again is in this; who thinketh he sees difference here, from death to death he goeth.

॥ हिन्दी-अर्थः ॥

''जो इहलोक में है, वही वहाँ परलोक मे है; जो वहां परलोक में है वही यहां इस लोक में भी है; जो यह मानता है कि वह यहाँ नानात्व को देखता है, वह मृत्यु से मृत्यु को प्राप्त करता है।

॥ शब्दावली ॥

यत् एव - yat eva - what is

इह - iha - in this world

तत् - tat - that is

अमुत्र - amutra - in the other

यत् - yat - what is

अमुत्र - amutra - in the other

तत् - tat - that is

अनु इह - anu iha - again is in this

यः - yaḥ - who

इह - iha - here

नाना इव - nānā iva - difference

पश्यति - paśyati - sees

सः - saḥ - he

मृत्योः - mṛtyoḥ - from death

मृत्युम् - mṛtyum - to death

आप्नोति - āpnoti - he goeth

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code