अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥
॥ लिप्यन्तरणम् ॥
annaṁ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti ||
॥ अन्वयः ॥
अन्नं वै प्रजापतिः ततः तत् रेत जायते तस्मात् इमाः प्रजाः प्रजायन्ते ॥
॥ अन्वयलिप्यन्तरणम् ॥
annaṁ vai prajāpatiḥ tataḥ tat reta( jāyate ) tasmāt imāḥ prajāḥ prajāyante ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मन: अन्नरूपत्वम् ]
तदेवं कालविभागे प्रजापतिरन्नात्मकोऽपि भवतीत्याह- अन्नं वा इति ।
अन्नं वै प्रजापतिस्ततो हवै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥१४॥
ततो ह वै तदेत:- अद्यमानादन्नाद्रेतः, ततः प्रजाः । संवत्सरो वै प्रजापतिः, मासो वै प्रजापतिः, अन्नं वै प्रजापतिः, इति तत्र तत्र सामानाधिकरण्यनिर्देशेन प्रजापतेरेव प्रजासु हेतुत्वं, संवत्सरादीनां तु तथाभूते तस्मिन्विशेषणत्वमात्रमिति व्यज्यते । इत्थं च तत्तद्विशिष्टस्य परमात्मनः सर्वत्र हेतुत्वं ज्ञापितं भवति ॥१४॥
॥ आङ्गल-अर्थः ॥
“Food is the Eternal Father; for of this came the seed and of the seed is the world of creatures born .
॥ हिन्दी-अर्थः ॥
"अत्र ही प्रजापति है; उसी से वह बीज (रेतस्) उत्पन्न हुआ तथा उस बीज सें यह समस्त प्राणिजगत् (प्रजा) उत्पन्न हुआ।
॥ शब्दावली ॥
अन्नम् वै - annam vai - food is
प्रजापतिः - prajāpatiḥ - the Eternal Father
ततः - tataḥ - from this
तत् रेतः - tat retaḥ - came the seed
तस्मात् - tasmāt - from the seed
इमाः प्रजाः - imāḥ prajāḥ - the world of creatures
प्रजायन्ते - prajāyante - is born
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know