काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा। स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥
॥ लिप्यन्तरणम् ॥
kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā | sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ ||
॥ अन्वयः ॥
काली कराली मनोजवा सुलोहिता सुधुम्रवर्णा स्फुलिङ्गिनी विश्वरूचि देवी च इति लेलायमानाः सप्त जिह्वाः ॥
॥ अन्वयलिप्यन्तरणम् ॥
kālī karālī manojavā sulohitā sudhumravarṇā sphuliṅginī viśvarūci devī ca iti lelāyamānāḥ sapta jihvāḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ सप्तार्चिषां निरूपणम् ]
अप्रस्खलितमनुष्ठितानामपि फलं परिमितमेवेति प्रदर्शयन्फलोपलम्भप्रकारमाह - कालीत्यादिना ब्रह्मलोक इत्यन्तेन ।
काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरूपी च देवी लेलायमाना इति सप्त जिह्वाः ॥४॥
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाऽऽहुतयो ह्याददान् ।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेको ऽधिवासः ॥५॥
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥६॥
हव्यवाहस्य सन्ति सप्त जिह्वाविशेषाः कालीत्यादय:, तेषु दीप्यमानेषु यथाकालमाहुतीराददायन् - अर्पयन्सन्यो यजमानः कर्माचरति, तमेता आहुतयः सूर्यस्य रश्मयो भूत्वा, सूर्यरश्मिद्वारेति यावत्, देवानां पतिश्चतुर्मुखो देवकोटावद्वितीयो यत्राधिवसति, तं देशं सत्यलोकं नयन्ति । नातः परं ते समर्थाः । कथं नयन्ति ? उच्यते - सूर्यस्य रश्मिभिः संसृष्टाः सुवर्चस आहुतय एह्येहीति प्रियां वाचं व्याहरन्त्यः, एष पावनः सुकृतफलभूतश्चतुर्मुखलोको वः - युष्माकमेव भोगायेति, अर्चयन्त्यः - पूजयन्त्य:, पूजावचनै: प्रीणयन्त्य:, वहन्ति - प्रापयन्ति ॥४-६॥
॥ आङ्गल-अर्थः ॥
kälé karälé manojavä sulohitä sudhümravarëä sphuliìginé viçvarücé devé ca iti leläyamänäù sapta jihväù ||
॥ हिन्दी-अर्थः ॥
'काली-श्यामवर्णा, 'कराली'-भयंकरी, 'मनोजवा'-मन की गति के समान द्रुत वेगवाली, 'सुलोहिता'-रक्तवर्णा, 'सुधूम्रवर्णा'-धुएँ के सदृश वर्णवाली, 'स्फुलिङ्गिनी'-स्फुर्लिगों को बिखेरने वाली, 'विश्वरुचि'-सर्व-सुन्दरी, ये हैं अग्नि की लपलपाती सप्त जिह्वाएँ । १वेदों के मन्त्र। २चतुर्युगों में द्वितीय युग।
॥ शब्दावली ॥
काली - kālī - Kali, the black
कराली - karālī - Karali, the terrible
मनोजवा - manojavā - Manojava, thoughtswift
सुलोहिता - sulohitā - Sulohita, bloodred
सुधुम्रवर्णा - sudhumravarṇā - Sudhumravarna, smokehued
स्फुलिङ्गिनी - sphuliṅginī - Sphulingini, scattering sparks
विश्वरूचि देवी च - viśvarūci devī ca - Vishwaruché, the allbeautiful
सप्त लेलायमानाः जिह्वाः इति - sapta lelāyamānāḥ jihvāḥ iti - these are the seven swaying tongues of the fire

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know