न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
॥ लिप्यन्तरणम् ॥
na jāyate mriyate vā vipaścinnāyaṁ kutaścinna babhūva kaścit | ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre ||
॥ अन्वयः ॥
विपश्चित् न जायते म्रियते वा। अयं कुतश्चित् न बभूब। अस्मात् न कश्चित् बभूब । अयम् अजः नित्यः शाश्वतः पुराणः। शरीरे हन्यमाने न हन्यते ॥
॥ अन्वयलिप्यन्तरणम् ॥
vipaścit na jāyate mriyate vā| ayaṁ kutaścit na babhūba| ( asmāt ) na kaścit ( babhūba )| ayam ajaḥ nityaḥ śāśvataḥ purāṇaḥ| śarīre hanyamāne na hanyate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ अविनाशि प्रत्यगात्मस्वरूपकथनम् ]
एवमुपवर्ण्य प्राप्यस्य महिमानं, प्राप्सुः प्रत्यगात्मनः स्वरूपमाह न जायते इति ।
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥१८॥
स्वरूपतो विपश्चिदयमात्मा, न जायते म्रियते वा नोत्पद्यते, नापि नश्यति । नायं कुतश्चित् - उत्पादकादुत्पद्यते; न किमपि अस्योत्पादकमित्यर्थः । उत्पत्तिनिषेधेन नित्यत्वे सिद्धे, उत्पादकनिषेधः दाढर्ध्याय । न बभूव कश्चित् - देवादिष्वन्यतमोऽपि नाऽसौ बभूव । यश्चायं व्यवहारः - 'जायते, म्रियते, देवदत्ताद्यज्ञदत्तो जातः, बालोऽयं युवा बभूव, वृद्धो बभूव' इत्येवमादिः, नात्मस्वरूपं स्पृशति । ते हि भावा: विकारिद्रव्यस्य । अयमात्मा हि न तथा । अजः जनिशून्य: । नित्यः- नाशशून्य: । शाश्वतः शश्वदेकरूपः । पुराणः अनादिः । यद्यपि हन्यते नाम, परं किं हन्यत इति विचार्यम् । न हन्यते त्वात्मा, नित्यत्वात् । शरीरमेव तु तथा । हन्यमानेऽपि शरीरे, सत्यपि तत्सम्बन्धे, नायं हन्यते; सर्वतः सूक्ष्मत्वात् । न हि स्थूले वृक्षादौ छिद्यमाने सूक्ष्ममाकाशं छिद्यते ॥१८॥
॥ आङ्गल-अर्थः ॥
That Wise One is not born, neither does he die; he came not from anywhere, neither is he anyone; he is unborn, he is everlasting, he is ancient and sempiternal, he is not slain in the slaying of the body.
॥ हिन्दी-अर्थः ॥
''इस 'प्रज्ञामय' का न जन्म होता है न मरण; न यह कहीं से आया है, न यह कोई व्यक्ति-विशेष है; यह अज है, नित्य है, शाश्वत है, पुराण है, शरीर का हनन होने पर इसका हनन नहीं होता।
॥ शब्दावली ॥
विपश्चित् - vipaścit - that Wise
न जायते - na jāyate - is not born
म्रियते वा - mriyate vā - neither does he die
अयम् - ayam - he
कुतश्चित् - kutaścit - from anywhere
न बभूब - na babhūba - came not
अयम् - ayam - he is
अजः - ajaḥ - unborn
नित्यः - nityaḥ - everlasting
शाश्वतः - śāśvataḥ - sempiternal
पुराणः - purāṇaḥ - ancient
न हन्यते - na hanyate - he is not slain

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know