Ad Code

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्‌।



एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्‌। एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥

॥ लिप्यन्तरणम् ॥

etadālambanaṁ śreṣṭhametadālambanaṁ param | etadālambanaṁ jñātvā brahmaloke mahīyate ||

॥ अन्वयः ॥

एतत् श्रेष्ठम् आलम्बनं। एतत् परम् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥

॥ अन्वयलिप्यन्तरणम् ॥

etat śreṣṭham ālambanaṁ| etat param ālambanaṁ jñātvā brahmaloke mahīyate ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[प्रणवोपकरणकोपासनस्य श्रेष्ठ्यम् ]

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥१७॥

एतदेवाक्षरमालम्बनेषु ध्यानालम्बनेषु श्रेष्ठम् । अत एवैतदालम्बनं परम् - एतदालम्बनं यस्मिन्नुपासने तदेवोपासनमुत्कृष्टम् । एतत् - एतदेवाक्षरम्, आलम्बनम् - परमपुरुषध्याने आलम्बनमिति ज्ञात्वा, “ओमित्येतेनैवाक्षरेण परमपुरुषमभिध्यायीत " (प्रश्नोपनिषत् - ५.५) इत्युक्तप्रकारेण ध्यानालम्बनं ज्ञात्वेत्यर्थ: । ब्रह्मलोके महीयते अनुष्ठितेन तदालम्बनपरमपुरुषोपासनेन परब्रह्मणो, लोके - धाम्नि, महीयते ।

यद्वा - एतदालम्बनम् - एतदालम्बनकमुपासनं ज्ञात्वा - प्राप्येत्यर्थः । पाकं पक्त्वेत्यादाविव धात्वर्थाविवक्षया तथा बोध्यम् ।

यद्वा एतदालम्बनम् - एतदालम्बनं वाचकं यस्य तत् । परं ब्रह्म ज्ञात्वा ब्रह्मलोके महीयते ॥१७॥

॥ आङ्गल-अर्थः ॥

This support is the best, this support is the highest, knowing this support one grows great in the world of the Brahman.

॥ हिन्दी-अर्थः ॥

''यह श्रेष्ठ आलम्बन है, यह परम आलम्बन है। इस आलम्बन को जानकर व्यक्ति ब्रह्मलोक में महिमान्वित होता है।

॥ शब्दावली ॥

एतत् - etat - this

श्रेष्ठम् - śreṣṭham - the best

आलम्बनम् - ālambanam - support

एतत् - etat - this

परम् - param - the highest

आलम्बनम् - ālambanam - support

ज्ञात्वा - jñātvā - knowing this support

ब्रह्मलोके - brahmaloke - in the world of the Brahman

महीयते - mahīyate - one grows great


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code