अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत् ॥
॥ लिप्यन्तरणम् ॥
aṁguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ | īśāno bhūtabhavyasya sa evādya sa u śvaḥ | etadvai tat 3||
॥ अन्वयः ॥
अंगुष्ठमात्रः पुरुषः भुतभव्यस्य ईशानः अधूमकः ज्योतिः इव। सः एव अद्य सः उ श्वः वर्तिष्यते । एतत् वै तत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
aṁguṣṭhamātraḥ puruṣaḥ bhutabhavyasya īśānaḥ adhūmakaḥ jyotiḥ iva| saḥ eva adya saḥ u śvaḥ ( vartiṣyate )| etat vai tat ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ कालत्रयवर्तिपदार्थजातं सर्वं ब्रह्मात्मकम् ]
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ॥ एतद्वै तत् ॥१३॥
यश्चायमङ्गुष्ठप्रमितः, अधूमक इवानलः - प्रकाशैकबहुल:, ज्योतिषां ज्योतिरिति यावत्, भूतभव्यस्येशानः । स एवाद्य श्वोऽपि कालापरिच्छिन्नः । अद्यतनं श्वस्तनं सर्वं स एव - तदात्मकमेवेति वा भावः ॥१३॥
॥ आङ्गल-अर्थः ॥
The Purusha that is within is no larger than the finger of a man; He is like a blazing fire that is without smoke, He is lord of His past and His future. He alone is today and He alone shall be tomorrow. This is the thing thou seekest.
॥ हिन्दी-अर्थः ॥
''अन्तःस्थ 'पुरुष' अङ्गुष्ठमात्र ही है; 'वह' धूमरहित प्रज्ज्वलित अग्नि के सदृश है। 'वही' 'अपने' भूत और 'अपने' भविष्य का ईश्वर है। आज भी केवल 'वह' है, कल भी केवल 'वह ' होगा। यही है 'वह' जिसकी तुम्हें अभीप्सा है।
॥ शब्दावली ॥
अंगुष्ठमात्रः - aṁguṣṭhamātraḥ - no larger than the finger of a man
पुरुषः - puruṣaḥ - Purusha, the Self
भुतभव्यस्य - bhutabhavyasya - of what was and what shall be
ईशानः - īśānaḥ - the lord
अधूमकः - adhūmakaḥ - without smoke
ज्योतिः - jyotiḥ - a blazing fire
इव - iva - like
सः एव - saḥ eva - He alone
अद्य - adya - is today
सः उ - saḥ u - He alone
श्वः - śvaḥ - shall be tomorrow
एतत् वै तत् - etat vai tat - this is the thing thou seekest
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know