अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥
॥ लिप्यन्तरणम् ॥
aṁguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati | īśāno bhūtabhavyasya na tato vijugupsate | etadvai tat ||
॥ अन्वयः ॥
अंगुष्ठमात्रः पुरुषः मध्ये आत्मनि तिष्ठति। सः भूतभब्यस्य ईशानः। ततः न विजुगुप्सते। एतत् वै तत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
aṁguṣṭhamātraḥ puruṣaḥ madhye ātmani tiṣṭhati| ( saḥ ) bhūtabhabyasya īśānaḥ| tataḥ na vijugupsate| etat vai tat ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ अङ्गुष्ठमात्रपरिमितः परमात्मा ]
पुनः प्रकृतं तमेव विशिनष्टि - अङ्गुष्ठ इति ।
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥ एतद्वै तत् ॥१२॥
यः परमः पुरुषः स एवोपासकानामनुग्रहाय, मध्य आत्मनि - शरीरमध्ये, हृदयपुण्डरीक इत्येतत् । अङ्गुष्ठमात्रः अङ्गुष्ठपरिमितस्तिष्ठति । अपरिच्छिन्नस्याप्यस्यानेन परिच्छेदो हृदयकमलमपेक्ष्य। उपासकानुग्रहाय स्वेन रूपेण सन्निहितो हि तत्र । अपाक्रियते जीवशङ्का ईशानो भूतभव्यस्येति । सर्वस्य कार्यवर्गस्येत्यर्थः । अयं च न ततो- देहमध्याज्जुगुप्सते, वात्सल्यादिति यावत् । य एनं वेद स ततो न जुगुप्सत इति शेषपूरणेन वा अर्थो बोध्यः । एतद्वैतत् ॥१२॥
॥ आङ्गल-अर्थः ॥
The Purusha who is seated in the midst of ourself is no larger than the finger of a man. He is the lord of what was and what shall be; Him having seen one shrinketh not from aught nor abhorreth any. This is the thing thou seekest.
॥ हिन्दी-अर्थः ॥
''हमारी आत्मसत्ता के अन्तर् में प्रतिष्ठित 'पुरुष' अङ्गुष्ठमात्र है। वही भूत और भविष्य का ईश्वर है; उसका साक्षात्कार हो जाने से व्यक्ति किसी से सकुचाता नहीं, न ही उसे किसी के प्रति जुगुप्सा होती है। यही है 'वह' जिसकी तुम्हें अभीप्सा है।
॥ शब्दावली ॥
अंगुष्ठमात्रः - aṁguṣṭhamātraḥ - no larger than the finger of a man
पुरुषः - puruṣaḥ - Purusha, the Self
मध्ये आत्मनि - madhye ātmani - in the midst of ourself
तिष्ठति - tiṣṭhati - who is seated
भूतभब्यस्य - bhūtabhabyasya - of what was and what shall be
ईशानः - īśānaḥ - the lord
ततः - tataḥ - therefore
न विजुगुप्सते - na vijugupsate - one shrinketh not from aught nor abhorreth any
एतत् वै तत् - etat vai tat - this is the thing thou seekest
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know