Ad Code

सर्वे वेदा यत्पदमामनन्ति



सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्‌ ॥

॥ लिप्यन्तरणम् ॥

sarve vedā yatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti | yadicchanto brahmacaryaṁ caranti tatte padaṁ saṁgraheṇa bravīmyomityetat ||

॥ अन्वयः ॥

सर्वे वेदाः यत् पदम् आमनन्ति सर्वाणि तपांसि च यत् वदन्ति यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् पदं ते सङ्ग्रहेण ब्रवीमि ॐ इति एतत् ॥

॥ अन्वयलिप्यन्तरणम् ॥

sarve vedāḥ yat padam āmananti sarvāṇi tapāṁsi ca yat vadanti yat icchantaḥ brahmacaryaṁ caranti tat padaṁ te saṅgraheṇa bravīmi om iti etat ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[प्राप्यब्रह्मवैभवप्रकाशप्रणवकथनम् ]

एवं पृष्टो मृत्युः प्रतिवदन्नादौ आदरातिशयाय श्रोतॄणां प्राप्यस्य महिमानमनुवर्णयति सर्वे वेदा इति ।

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥१५॥

अत्र वेदशब्दः पूर्वभागमात्रपरः, तपांसीत्युपरितनभागस्य निर्देशात् । समग्रोऽपि पूर्वभागो यत्पदं प्राप्यस्वरूपमामनन्तीत्यर्थः । इन्द्रादितत्तद्देवताद्वारा तच्छरीरिण: परब्रह्मण एव तत्रापि वर्णनात् । तपो ज्ञानम्, तत्प्रधानत्वादुपरितनभागः तपः शब्देन लक्ष्यते । समग्रोऽप्युपरितनभागो यदेव वदति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति - अष्टविधस्त्रीसङ्गत्यागरूपं ब्रह्मचर्यमाचरन्ति । इदं गुरूपसदनादेरप्युपलक्षकम् । एतेन निखिलवेदवेद्यत्वेन गुरूपसदनब्रह्मचर्यादिभिरधि- गन्तव्यत्वेन प्राप्यं स्तुतं भवति । इदमेव निखिलवेदवेद्यं सङ्गृह्य निर्दिश्यते तु प्रणवेनेत्याह - तत्पदं प्राप्यं, ते सङ्ग्रहेण सङ्ग्राहकेण शब्देन ब्रवीमि । तस्य सङ्गृह्य (प्रतिपादकं वाचकं शब्दं कथयामीत्येतत् । ओमित्येतत् - ओमित्येतदक्षरम्, तस्य प्राप्यस्य सङ्गृह्य प्रतिपादक: शब्दः। ‘ओं तत्सदिति निर्देशस्त्रिविधो ब्रह्मणः स्मृतः' (भगवद्गीता -  १७.२३) इति च वचनम् । अनेन प्रणववेद्यत्वरूपं वैभवमुक्तं भवति ।। १५ ।।

॥ आङ्गल-अर्थः ॥

The seat and goal that all the Vedas glorify and which all austerities declare, for the desire of which men practise holy living, of That will I tell thee in brief compass. OM is that goal, O Nachiketas.

॥ हिन्दी-अर्थः ॥

यम कहते हैं ː ''जिस (परम) पद का सभी वेद महिमागान करते हैं तथा सभी तपस्याएं जिसके विषय में बताती हैं, जिसकी इच्छा करते हुए मनुष्य ब्रह्मचर्य का आचरण करते हैं, 'उसे' मैं तुम्हें संक्षेप से बताता हूँ। हे नचिकेता! वह परम पद है 'ॐ'।

॥ शब्दावली ॥

सर्वे वेदाः - sarve vedāḥ - all the Vedas

यत् पदम् - yat padam - the seat and goal

आमनन्ति - āmananti - glorify

सर्वाणि तपांसि च - sarvāṇi tapāṁsi ca - all austerities

यत् वदन्ति - yat vadanti - which declare

यत् इच्छन्तः - yat icchantaḥ - the desire of which

ब्रह्मचर्यम् - brahmacaryam - holy living

चरन्ति - caranti - men practise

तत् पदम् - tat padam - of that seat

ते - te - to thee

सङ्ग्रहेण - saṅgraheṇa - in brief compass

ब्रवीमि - bravīmi - I will tell

ॐ इति एतत् - om iti etat - OM is that goal


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code