एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्। एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥
॥ लिप्यन्तरणम् ॥
etaddhyevākṣaraṁ brahma etaddhyevākṣaraṁ param | etaddhyevākṣaraṁ jñātvā yo yadicchati tasya tat ||
॥ अन्वयः ॥
एतेत् एव हि अक्षरं ब्रह्म एतत् एव हि अक्षरं परम्। एतत् एव हि अक्सरं ज्ञात्वा यः यत् इच्छति तस्य तत् सिध्यति ॥
॥ अन्वयलिप्यन्तरणम् ॥
etet eva hi akṣaraṁ brahma etat eva hi akṣaraṁ param| etat eva hi aksaraṁ jñātvā yaḥ yat icchati tasya tat ( sidhyati ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परब्रह्मवाचकप्रणवप्रशंसा ]
अथ वाचकं प्रणवं प्रस्तौति -
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥१६॥
एतद्ध्येवाक्षरं ब्रह्म जपोपासनादिना ब्रह्मवत्सकला भीप्सितसम्पादकतया ब्रह्मेति स्तूयते । एतद्ध्येवाक्षरं परम् - जप्येषु श्रेष्ठम् । एतदेवाक्षरम् - शब्दस्वरूपम्, ज्ञा समुपास्य, यो यदिच्छति तस्य तत्सिद्ध्यति । सेयं प्रणवप्रशंसा परब्रह्मप्रशंसायामेव पर्यवस्यति । वाचकप्रशंसा हि वाच्यप्रशंसायां पर्यवस्यति ॥१६॥
॥ आङ्गल-अर्थः ॥
For, this Syllable is the Most High: this Syllable if one know, whatsoever one shall desire, it is his.
॥ हिन्दी-अर्थः ॥
"यही 'अक्षर' है 'ब्रह्म', यही 'अक्षर' है 'परम-तत्त्व'। यदि इस 'अक्षर' को कोई जान ले, तो वह जिसकी भी इच्छा करता है, वही उसे प्राप्त हो जाता है।
॥ शब्दावली ॥
एतेत् - etet - this
एव हि - eva hi - indeed
अक्षरम् - akṣaram - Syllable
ब्रह्म - brahma - is Brahman
एतत् - etat - this
अक्षरम् - akṣaram - syllable
परम् - param - the Most High
एतत् - etat - this
एव हि - eva hi - indeed
अक्सरम् - aksaram - syllable
ज्ञात्वा - jñātvā - having known
यः - yaḥ - he who
यत् - yat - whatsoever
इच्छति - icchati - shall desire
तस्य - tasya - his
तत् - tat - it is

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know