Ad Code

उशन्‌ ह वै वाजश्रवसः


ॐ उशन्‌ ह वै वाजश्रवसः सर्ववेदसं ददौ। तस्य ह नचिकेता नाम पुत्र आस ॥

॥ लिप्यन्तरणम् ॥

om uśan ha vai vājaśravasaḥ sarvavedasaṁ dadau | tasya ha naciketā nāma putra āsa ||

॥ अन्वयः ॥

ह वै वाजश्रवसः उषन् सर्ववेदसं ददौ। तस्य ह नचिकेताः नाम पुत्र आस ॥

॥ अन्वयलिप्यन्तरणम् ॥

ha vai vājaśravasaḥ uṣan sarvavedasaṁ dadau | tasya ha naciketāḥ nāma putra āsa ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

कठोपनिषत्

स्वामिनारायणमूलभाष्यसमेता

शान्तिपाठः

ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ।

मङ्गलाचरणम्

ओं नमः सर्वकल्याणनिलयायाऽमलात्मने ।

सर्वकारणरूपाय सहजानन्दमूर्तये ॥१॥

अणोरणीयान् महतो महीयान् योऽसौ गुहायां निहितोऽस्य जन्तोः ।

तं सर्वगं सर्वतो दूरगं च महामदं देवमहं प्रपद्ये ॥२॥

प्रथमोऽध्यायः

प्रथमा वल्ली

विद्यास्तुतये आख्यायिका प्रस्तूयते - उशन्नित्यादिना ।

उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।

तस्य ह नचिकेता नाम पुत्र आस ॥१॥

वाजश्रवसः - वाजश्रवसोऽपत्यं पुमान् । उशन् - कामयमानः फलमिति शेषः । उपक्रान्ते विष्णुजिद्यागे सर्ववेदसं - सर्वस्वदक्षिणाम् ददौ प्रायच्छत् । तस्य पुत्रो नचिकेता नाम आस ॥१॥

॥ आङ्गल-अर्थः ॥

Vajasravasa, desiring, gave all he had. Now Vajasravasa had a son named Nachiketas.

॥ हिन्दी-अर्थः ॥

वाजश्रवस ने (यज्ञफल की) कामना करते हुए अपना सर्वस्व दान कर दिया । और वाजश्रवस का नचिकेता नाम का एक पुत्र था ।

॥ शब्दावली ॥

वाजश्रवसः - vājaśravasaḥ - Vajasravasa (one with an abundance of inspiration)

उषन् - uṣan - desiring

ह - ha - a particle for emphasizing a preceding word and often translatable by indeed, assuredly, verily, of course, then &c. It is often used with other particles like tveva, u, sma, vai &c.

वै - vai - a particle of emphasis and affirmation, (it is usually translatable by indeed, truly, certainly, verily, just &c.

सर्ववेदसम् - sarvavedasam - all that one possesses

ददौ - dadau - gave

तस्य - tasya - his

ह - ha - indeed

नचिकेताः - naciketāḥ - Nachiketas

नाम - nāma - by name

पुत्र - putra - son

आस - āsa - was

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code