Ad Code

शौनको ह वै महाशालोऽङ्गिरसं




शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ। कस्मिन् नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥

लिप्यन्तरणम्

śaunako ha vai mahāśālo'ṅgirasaṁ vidhivadupasannaḥ papraccha | kasmin nu bhagavo vijñāte sarvamidaṁ vijñātaṁ bhavatīti ||

अन्वयः

महाशालः शौनकः ह वै विधिवत् उपसन्नः अङ्गिरसं पप्रच्छ नु भगवः कस्मिन् विज्ञाते सर्वं इदं विज्ञातं भवति इति ॥

अन्वयलिप्यन्तरणम्

mahāśālaḥ śaunakaḥ ha vai vidhivat upasannaḥ aṅgirasaṁ papraccha nu bhagavaḥ kasmin vijñāte sarvaṁ idaṁ vijñātaṁ bhavati iti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ ब्रह्मविद्याविषयकप्रश्नः ]

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥३॥

शौनकः- शुनकसुतः, स चायं महाशाल:- महती शाला यस्य स महाशालः, महागृहस्थ इति यावत् । अङ्गिरसं विधिवदुपसन्नः - अनुल्लङ्घितसमित्पाणित्वादिनियमः सन् पप्रच्छ । । यद्यप्यथर्वायेत्यादौ विधिवदुपसन्नायेति न श्रूयते, नैतावताऽनैयत्यमस्याशङ्कयम् । 'समित्पाणि'रिति नियमस्य सर्वान्प्रत्यविशेषेण श्रुतेः । परन्तु गुरुपारम्पर्यनिरूपणमात्रे तत्र तात्पर्यात्तस्याश्रवणम्, इह तु विद्या प्रस्तूयत इति विशिष्य तस्य श्रवणं न्याय्यम् । मध्यदीपिकान्यायेनाङ्गिरसः प्राक्तनेष्वथर्वप्रभृतिषु ततोऽर्वाक्तनेष्वस्मासु चैतदन्वयो व्यज्यत इहैतच्छ्रवणेनेत्यपरे । किं पप्रच्छ तदुच्यते कस्मिन्निति । हे भगवः - भगवन् ! कस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवेत् । सर्वस्यास्य किमुपादानमिति पृष्टं भवति । उपादाने हि विज्ञाते उपादेयं विज्ञातं भवति । इदं च लोकतो विदितमेव । यद्यपि 'कस्मिन्नु विज्ञाते सर्वं विज्ञातं स्यादिति प्रश्नः केवलं लोकदृष्ट्या न घटेत, मिथो विलक्षणतयाऽनुभूयमानानामेषां भिन्नभिन्नोपादानतानियम एव हि लोकदृष्ट्याऽवगम्यते । अथापि सामान्यतो महद्भयः श्रुतं नामानेन सर्वस्यास्य किमप्यस्त्युपादानमिति । तदयं विशेषप्रश्न: 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवती 'ति । घटशरावमणिकानामाकारतो मिथो विसदृशानामपि मृत्त्वादिनाऽनुस्यूतेन धर्मेण विशिष्टं किञ्चिदुपादानं भवति, तेनैव न्यायेनास्यापि सर्वस्य किमपि स्यादित्यभ्यूह्य वाऽयं प्रश्नः ॥३॥

॥ आङ्गल-अर्थः ॥

Shaunaka, the great house-lord, came to Angiras in the due way of the disciple and asked of him, “Lord, by knowing what does all this that is become known?”

॥ हिन्दी-अर्थः ॥

महाशालाधिपति शौनक अंगिरस के पास विधिवत् शिष्य रूप में आये और उनसे पूछाː "हे भगवन्! क्या है जिसे जान लेने के पश्चात् यह सब कुछ ज्ञात हो जाता है?

शब्दावली

महाशालः शौनकः ह वै - mahāśālaḥ śaunakaḥ ha vai - Shaunaka, the great house-lord

विधिवत् - vidhivat - in the due way of the disciple

उपसन्नः - upasannaḥ - came

अङ्गिरसम् - aṅgirasam - to Angiras

नु पप्रच्छ - nu papraccha - asked of him

भगवः - bhagavaḥ - Lord

कस्मिन् विज्ञाते - kasmin vijñāte - by knowing what

सर्वम् इदम् - sarvam idam - does all this that is

विज्ञातम् भवति इति - vijñātam bhavati iti - become known


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code