जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

तस्मै स होवाच - - द्वे विद्ये वेदितव्ये

 


तस्मै स होवाच - - द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च ॥

॥ लिप्यन्तरणम् ॥

tasmai sa hovāca - - dve vidye veditavye iti ha sma yad brahmavido vadanti parā caivāparā ca ||

अन्वयः

सः तस्मै उवाच ह द्वे विद्ये वेदितव्ये इति ह ब्रह्मविदः वदन्ति स्म यत् परा च अपरा च एव ॥

॥ अन्वयलिप्यन्तरणम् ॥

saḥ tasmai uvāca ha dve vidye veditavye iti ha brahmavidaḥ vadanti sma yat parā ca aparā ca eva ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ विद्योपदेश: ]

तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥४॥

एवं पृष्टः स अङ्गिरास्तस्मै शौनकायोवाच । यदुक्तं तदुच्यते - द्वे इत्यादिना । द्वे विद्ये वेदितव्ये - ज्ञातव्ये, सम्पाद्ये इति यावत् । अयं च निर्देश: 'पाकं पचती' त्यादाविवाख्यातार्थमात्रविवक्षया ।

ननु - 'कस्मिन्विदिते सर्वमिदं विदितं भवती 'ति पृष्टे यदुच्यते ' द्वे विद्ये वेदितव्ये' इति, तदिदमपृष्टोत्तरम् । अत्र केचित् - नैष दोष:, क्रमापेक्षत्वात्प्रतिवचनस्य, अपरा हि विद्याऽविद्या सा निराकर्तव्या, तद्विषये हि विदिते न किञ्चिद्विदितं स्यादिति, निराकृत्य हि पूर्वपक्ष पश्चात्सिद्धान्तो वक्तव्यो भवतीति न्यायादिति । तान्पृच्छाम: - युक्तं नाम क्रमापेक्षत्वं प्रतिवचनस्य । युक्तं च पूर्वपक्षं निराकृत्य पश्चात्सिद्धान्तो वक्तव्य इति । अपरा हि विद्याऽविद्या सा निराकर्तव्येत्येतत्कथमुपपद्यते । विद्या ह्यविद्येत्येतद्वीरप्रसूर्वन्ध्येतिवद्व्याहतम् ।

नन्वपरेत्युच्यतेऽविद्येतीति चेत्, तावता कथमविद्यात्वम्, न ह्यपरत्वविशेषणमात्रेण विद्यातो विरुद्धामविद्यां विद्याशब्दो बोधयितुं प्रभवेत् ।

ननु धर्माधर्मसाधनतत्फलावबो धरूपत्वाद्विद्यात्वमपि बन्धकत्वादविद्यात्वमपीत्युक्तमपरा हि विद्याऽविद्येति चेत्; अपरविद्यायास्तावन्मात्रविषयकत्वं बन्धकत्वं च कथमवगतम् ।

ननु - 'अथ परा यया तदक्षरमधिगम्यते' इति निर्देशादिति चेत्; किं तेन निर्देशेनाक्षरप्राप्तिविरोधिताऽपरविद्यायामवगम्यते, येन तस्यां बन्धकत्वं सिध्येत् । व्यज्यतां नामाक्षरप्राप्तौ हेतुत्वाभावः, न हि कस्यचित् क्वचिद्धेतुत्वाभावमात्रेण विरोधिता सिध्येत् । न हि मुमुक्षाया मोक्षे हेतुत्वाभावमात्रेण मोक्षे विरोधित्वम् । न च मोक्षे मुमुक्षा हेतु:, सत्यामपि तस्यां मोक्षानुदयात्। मुमुक्षा ह्यधिकारिविशेषणम् । नाप्यक्षरप्राप्तौ यथाकथञ्चिदुपकारकताऽपि नापराया इति व्यज्यत इति वक्तुं शक्यम् । ययेति करणश्रुत्या हि साधकतमत्वमेव ह्यवगम्यते । प्रकृत्यर्थानुरूपं चैतदेव । तत्तदेवान्यस्य नेति व्यज्येत । प्रयोजकत्वमात्रप्रतिक्षेपे वा विरोधित्वं कथमवगम्येत ? अक्षरप्राप्तिहेतुत्वाभावकथनमात्रेणापरविद्यया तदविषयकया भाव्यमिति च कोऽयं नियम: ? न हि तद्विषयकेनापि शास्त्रजन्यज्ञानमात्रेण तत्प्राप्तिर्भवेत् । परोक्षेण तज्ज्ञानेन तत्सिद्धिर्भवताऽपि हि नेष्यते । न चात्र ज्ञायत इति श्रूयते, अपि त्वधिगम्यत इत्येव । उपसर्गस्वारस्यं धात्वर्थस्वारस्यं च परित्यज्य ज्ञायत इत्यस्यार्थस्याश्रयणं त्वनुचितम् । अपरविद्यायामृग्यजुःसामाथर्वणां गणनादक्षरविषयकत्वं तस्याः सिध्यत्येव । न ह्युपनिषदां वेदतो बहिर्भावः ।

ननु - 'ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद' इत्येव निर्देशादपरविद्या केवलं शब्दसन्दर्भरूपैव, परा विद्या तूपनिषद्वेद्याक्षरविषयं विज्ञानमिति चेत् । विद्याशब्दस्यैकस्यैव विज्ञानशब्दविशेषो भयपरताश्रयणं क्लिष्टम् । सह्यतां च क्लेशः, अपरा विद्या धर्माधर्मसाधनतत्फलविषयेत्येतन्न घटेत; शब्दस्वरूपस्य सविषयकत्वासम्भवात् । यदि पुनस्तद्विषयकज्ञानजनकत्वेन तद्विषयकत्वमुपचर्यते, स्यादेतत्; वेदितव्यमित्यनेन विधेयं वेदनं किं शब्दस्वरूपग्रहणमुत शब्दार्थविज्ञानम् । प्रथमे न कस्यचिदर्थस्य विज्ञानं प्रसक्तमिति, 'सा निराकर्तव्या तद्विषये विदिते न किञ्चित्तत्त्वं नो विदितं स्यादिति' न युक्तं वक्तुम् । यदि शब्दार्थावधारणम्, तदोपनिषद्भिरप्यर्थबोधोऽविशिष्ट इति, धर्माधर्मसाधनतत्फलविषयाऽपरा सा चाविद्यैवेत्ययं वादः कथमुपपद्येत । तद्विषये विदिते न किञ्चित्तत्त्वं नो विदितं स्यादिति च कथमुपपद्येत ।

किञ्च सा चेदविद्याऽपरा विद्या निराकर्तव्या, विधेः कथमन्वयः, वेदितव्य इति हि परेवापरापि विधीयते । न चाधिकारिभेदेन तदुपपत्तिः, अविशेषेणैव विधानात् । 'ब्रह्मविदो वदन्ती'ति च श्रूयते । अब्रह्मविदां चेत्साऽपरा विद्या, 'द्वे विद्ये वेदितव्ये परा चापरा चे 'ति ब्रह्मविदः कथं वदेयुः ।

नन्वपरा त्यागाय वेदितव्या परा तु श्रेयस इति विभागमभिप्रेत्य वदन्ति ब्रह्मविदः 'द्वे विद्ये वेदितव्ये' इति । मैवम् । विभाजकः शब्दस्तु न श्रूयते । अभिप्राये व्यञ्जकं न पश्यामः । अथाप्यपरविद्याया अंशतः कर्मावलम्बित्वेऽप्यंशतोऽक्षरावलम्बित्वमप्यस्तीति त्यागाय सा वेदितव्येत्ययं विभागो न घटेत, उपनिषदोऽपि हि वेदाख्यशब्दसन्दर्भे परिगणिताः । एतेन 'अविद्यायामन्तरे वर्तमाना:' ( मुंडकोपनिषद् - १.२.८) 'परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ' (मुंडकोपनिषद् -   १.२.१२) इति वचनमेवोक्तविभागे व्यञ्जकमिति निरस्तम् । तस्य तत्र व्यञ्जकताऽपि न सिध्यति । न हि कर्मविचारेण प्राप्तनिर्वेदस्य ब्रह्मविविदिषोर्गुर्वभिगमनविधानमात्रेण प्राक् प्रस्तुतयाऽपरविद्यया त्यागशेषभूतेन कर्मविज्ञानेन भाव्यमित्यस्ति नियमः । ये द्वे विद्ये परा चापरा चेति, ते परस्परोपकार्योपकारकतया मुमुक्षुणा वेदितव्यतया प्रस्तुते इत्येव किं न स्यात् । न च 'ऋग्वेद' इत्यादिनाऽपरां विद्यां प्रस्तुत्य, 'अथ परे' त्यादिना प्रथमखण्डेन परां विद्यां निरूप्य, द्वितीयखण्ड आदौ ' तदेतत्सत्य' मित्यादिना कर्मणां कर्मणां स्वरूपं फलं तन्निष्ठानामविद्यानिष्ठत्वं चोक्त्वा, 'परीक्ष्य लोका' नित्यादिना कर्मसु सञ्जातनिर्वेदस्या- क्षरविद्याधिगमाय गुर्वभिगमनविधानादपरा विद्याऽविद्या सा च कर्मावलम्बेति स विभागः स्वरसतः सिध्यतीति वाच्यम् । यद्यपरविद्याविवरणरूपता 'तदेतत्सत्य'मित्यादिवाक्यस्य सिध्येत्, सिध्येन्नाम स विभागः । प्रथमखण्डान्ते सर्वज्ञत्वेन प्रतिपादितं यत्सकलजगदुपादानं परं ब्रह्म, तदेव हि तच्छब्देन निर्दिश्य 'तदेतत्सत्य' मित्यनेन सत्यशब्दवाच्यता तस्मिन्नुच्यते । श्रूयते च द्वितीयखण्डान्ते 'येनाक्षरं पुरुषं वेद सत्य' मिति सत्यशब्दो ब्रह्मणि ।' 'तान्याचरत नियतं सत्यकामा' इति च ब्रह्मविद्याङ्गभूतः कर्मयोगो विधीयते । ब्रह्मव्यतिरिक्तस्य मिथ्यात्वं वर्णयतां कर्मसु सत्यत्वबोधकतया तस्य व्याख्यानकरणं तु न शोभते । यथाकथञ्चित्सत्यत्वोपपादनेऽपि न कश्चित्तेन विशेषः येनैतद्वाक्यं स्वरसं स्यात् । उपरिष्टात्तु केवलं कर्म बन्धकं निरूप्य तत्फलानामस्थिरत्वं, ततश्च निर्वेदसम्भवस्ततश्च विविदिषेत्यादि निरूप्यते ।

किञ्च - प्रथमखण्डप्रस्तुतापरविद्याविवरणरूपत्वस्य 'तदेतत्सत्य'मित्यादिवाक्यस्याश्रयणे स्यान्नामापरविद्यायाः कर्मावलम्बता, तथापि - 'ऋग्वेदो यजुर्वेद' इत्यादेः कर्मभागपरत्वमेव समुचितम्, शब्दसन्दर्भपरताश्रयणं तु नैव योग्यम् ।

परे तु अपृष्टोत्तरत्वशङ्कयं वारयन्तः 'प्राप्तु' मित्यध्याहारमाश्रित्य यत्प्राप्तुं द्वे विद्ये वेदितव्ये तस्मिन्विदिते सर्वमिदं विदितं स्यादिति भावं वर्णयन्ति । एषां त्वध्याहारतः क्लेशः । असत्यप्यध्याहारे तत्परिहारः स्यादेव । तथाहि फलित: प्रश्नस्त्वस्य किमुपादानमिति, उत्तरं तु मुमुक्षोरपेक्षितं विद्याद्वयं, तत्र परया प्राप्यतेऽक्षरं तदेव च भूतस्यास्य योनिरिति । न च यच्छब्दवैयर्थ्यम् । द्वे विद्ये वेदितव्ये, इदं च न मयोत्प्रेक्ष्योच्यते, यत् - यस्मात् इति - एवं प्रकारेण ब्रह्मविद एव वदन्तीत्यर्थात् ॥४॥

॥ आङ्गल-अर्थः ॥

To him thus spoke Angiras: Twofold is the knowledge that must be known of which the knowers of the Brahman tell, the higher and the lower knowledge.

॥ हिन्दी-अर्थः ॥

अंगिरस ने उनसे यह कहाː दो प्रकार की विद्याऐं हैं जो जानने योग्य हैं, जिनके विषय में ब्रह्मविद्-ज्ञानी बताते हैं, परा तथा अपरा।

शब्दावली

सः - saḥ - he, the Rishi Angiras

तस्मै ह - tasmai ha - to him

उवाच - uvāca - thus spoke

द्वे विद्ये ह - dve vidye ha - twofold is the knowledge

वेदितव्ये इति - veditavye iti - that must be known

यत् ब्रह्मविदः वदन्ति स्म - yat brahmavidaḥ vadanti sma - of which the knowers of the Brahman tell

परा च - parā ca - the higher

अपरा च एव - aparā ca eva - and the lower knowledge


एक टिप्पणी भेजें

0 टिप्पणियाँ