Ad Code

बहूनामेमि प्रथमो बहूनामेमि



बहूनामेमि प्रथमो बहूनामेमि मध्यमः। किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥

॥ लिप्यन्तरणम् ॥

bahūnāmemi prathamo bahūnāmemi madhyamaḥ | kiṁ svidyamasya kartavyaṁ yanmayādya kariṣyati ||

॥ अन्वयः ॥

बहूनां प्रथमः एमि। बहूनां मध्यमः एमि। यमस्य किंस्वित् कर्तव्यं यत् मया अद्य करिष्यति ॥

॥ अन्वयलिप्यन्तरणम् ॥

bahūnāṁ prathamaḥ emi | bahūnāṁ madhyamaḥ emi | yamasya kiṁsvit kartavyaṁ yat mayā adya kariṣyati ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ पितृवाक्यपरिपालने अचला मतिः ]

व्याहृतमेतन्निशम्य पुत्रश्चिन्तयति -

बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।

किंस्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥५॥

नाहं मृत्युतो भीतः शोचामि बहूनां तत्परिचर्यायै प्रवृत्तानां मध्ये प्रथमो मध्यमो वा भूत्वैमि तत्पार्श्वम्, नाधम इत्यर्थः । आज्ञावचननिरपेक्षं यथाऽवसरं परिचरणमेव परिचरतां प्राथम्यम्, यथादेशमादिष्टवचनपरिपालनमेव तेषु मध्यमता, अधमता च तदपरिपालनम् । किन्त्विदमेव शोचामि, यदप्रकृते पात्रे ममेदं वितरणमित्याह - किंस्विदिति । अद्य पित्रा यमस्य किं कर्तव्यम् - किमभीष्टं संपादनीयम् । मया प्रदत्तेन मया यदभीष्टं करिष्यति, चिकीर्षतीति यावत् । अद्य - खलु वृतेभ्य ऋत्विग्भ्यो दक्षिणावैगुण्यपरिहरणाय मम दानमुचितम्, तेषामेव प्रसादाकाङ्क्षया तेषामभीष्टं तु संपादनीयम्, तदस्मिन्नवसरे यमाय मां दत्वा किं साधयिष्यति, इदमेव शोचामीति भावः ॥५॥

॥ आङ्गल-अर्थः ॥

“Among many I walk the first, among many I walk the midmost; something Death means to do which today by me he will accomplish.

॥ हिन्दी-अर्थः ॥

"बहुतो मे मैं अग्रगामी हूँ, बहुतों में मैं मध्यगामी रहता हूँ । ऐसा क्या हो सकता है जो यम करना चाहते हैं जिसे वे आज मेरे द्वारा सम्पन्न करेंगे ।

॥ शब्दावली ॥

बहूनाम् - bahūnām - among many

प्रथमः - prathamaḥ - the first

एमि - emi - I walk

बहूनाम् - bahūnām - among many

मध्यमः - madhyamaḥ - the midmost

एमि - emi - I walk

यमस्य - yamasya - Death

किंस्वित् - kiṁsvit - something

कर्तव्यम् - kartavyam - needs to do

यत् - yat - that

मया - mayā - by

अद्य - adya - today

करिष्यति - kariṣyati - will accomplish

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code