स होवाच पितरं तत कस्मै मां दास्यसीति। द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥
॥ लिप्यन्तरणम् ॥
sa hovāca pitaraṁ tata kasmai māṁ dāsyasīti | dvitīyaṁ tṛtīyaṁ taṁ hovāca mṛtyave tvā dadāmīti ||
॥ अन्वयः ॥
सः पितरम् उवाच ह तत कस्मै मां दास्यसि इति। द्वितीयं तृत्रीयं। तं ह पिता उवाच त्वा मृत्यवे ददामि इति ॥
॥ अन्वयलिप्यन्तरणम् ॥
saḥ pitaram uvāca ha tata kasmai māṁ dāsyasi iti | dvitīyaṁ tṛtrīyaṁ | taṁ ha ( pitā ) uvāca tvā mṛtyave dadāmi iti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ स्वात्मदानेन क्रतोः सफलत्वप्रार्थना ]
एवमालक्ष्य यज्ञवैफल्यं दक्षिणावैगुण्यपरिजिहीर्षया पितरमात्मनो दाने उद्योजयन्नाह -
स होवाच पितरं तात कस्मै मां दास्यसीति ।
द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥४॥
हे तात! मां कस्मै दास्यसि, अहं हि तवाऽसाधारणं स्वं तन्मां दातुमर्हति भवानित्याशयः । एवमुक्तोऽपि पिता बालोऽयमालपति किञ्चिदर्थविधुरं वच इत्यनाकर्णयन्निवाभूत्, तदाऽयं तु श्रद्धावांस्तदेव वचनं द्वितीयं तृतीयम् आह, पुनः पुनराहेति भावः । पिता क्रुद्धः सहसेदमुवाच मृत्यवे त्वा ददामीति ॥४॥
॥ आङ्गल-अर्थः ॥
He said to his father, “Me, O my father, to whom wilt thou give?” A second time and a third he said it, and he replied, “To Death I give thee.”
॥ हिन्दी-अर्थः ॥
उसने अपने पिता से कहा, ''हे पिता ! आप मुझे किसको देंगे ?" दूसरी बार और पुनः तीसरी बार उसने वही कहा, और पिता ने प्रत्युत्तर मे कहा, '' मैं तुम्हें 'मृत्यु' को देता हूं ।''
॥ शब्दावली ॥
सः - saḥ - he
पितरम् - pitaram - to his father
उवाच - uvāca - said
ह - ha - verily
तत - tata - o father!
कस्मै - kasmai - to whom
माम् - mām - me
दास्यसि - dāsyasi - will thou give
इति - iti - thus
द्वितीयम् - dvitīyam - a second time
तृत्रीयम् - tṛtrīyam - a third time
तम् - tam - him
ह - ha - assuredly
पिता - pitā - his father
उवाच - uvāca - said
त्वा - tvā - thee
मृत्यवे - mṛtyave - to Death
ददामि - dadāmi - I give
इति - iti - thus
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know