Ad Code

स प्राणमसृजत। प्राणाच्छ्रद्धां खं



स प्राणमसृजत। प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम च ॥

लिप्यन्तरणम्

sa prāṇamasṛjata| prāṇācchraddhāṁ khaṁ vāyurjyotirāpaḥ pṛthivīndriyaṁ mano'nnamannādvīryaṁ tapo mantrāḥ karmalokā lokeṣu ca nāma ca ||

अन्वयः

सः प्राणम् असृजत। प्राणात् श्रद्धाम् खं वायुः ज्योतिः आपः पृथिवी इन्द्रियम् मनः अन्नम् अन्नात् वीर्यम् तपः मन्त्राः कर्म श्लोकाः लोकेषु च नाम च असृजत ॥

अन्वयलिप्यन्तरणम्

saḥ prāṇam asṛjata| prāṇāt śraddhām khaṁ vāyuḥ jyotiḥ āpaḥ pṛthivī indriyam manaḥ annam annāt vīryam tapaḥ mantrāḥ karma ślokāḥ lokeṣu ca nāma ca ( asṛjata ) ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

एवं विहरणं सङ्कल्प्य विहरणोपकरणमिदं सर्वमसृजदित्याह -

स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः ।

अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च ॥४॥

यद्यपि जीवस्य साक्षाद्विहरणोपकरणताऽस्ति शरीरत्वाविशेषात् सम्भवति च सङ्कल्पितमुत्क्रमणं प्रतिष्ठितं च तत एव, स हि कर्मणा कुतश्चिदुत्क्रामति क्वचित्तिष्ठति च, तथाऽपि तस्य स्वरूपतः सृज्यत्वासम्भवात्, उत्क्रमणादेः स्वतस्तस्मिन्नसम्भवात्प्राण- सम्बन्धायत्तत्वात्तस्य स प्राणमसृजतेत्युक्तम् । प्राणविशिष्टजीवद्वारोत्क्रमणादि विहरणं स्वस्य सम्पादयन् प्राणमसृजदित्यर्थ: । प्राणात् श्रद्धां - तत्तत्फलाधायककर्मसु श्रद्धामसृजत् । असत्यां तस्यां देहाद्देहान्तरं प्रत्युत्क्रमणस्यैवासिद्धेः । आकाशादि नामान्तमप्यसृजत् । अन्यथोत्क्रमणादिविहरणस्यैवानिष्पत्तेः । तदेवं प्राणादिषोडशकलाप्रभवहेतुत्वात्स्वशरीर- भूतचेतनाचेतनद्वारा तत्तद्विशिष्टत्वाच्चायमेव षोडशकलः पुरुष उच्यत इति भावः ॥४॥

॥ आङ्गल-अर्थः ॥

“Then he put forth the Life, and from the Life faith, next ether and then air, and then light, and then water, and then earth, the senses and mind and food, and from food virility and from virility askesis, and from askesis the mighty verses and from these action, and the worlds from action and name in the worlds; in this wise were all things born from the Spirit.

॥ हिन्दी-अर्थः ॥

''तब उसने 'प्राण' को उत्पन्न किया, तथा 'प्राण' से श्रद्धा को, तत्पश्चात् आकाश और फिर वायु, फिर ज्योति फिर जल फिर पृथ्वि, फिर इन्द्रियाँ एवं मन तथा अन्न, फिर अन्न से वीर्य को तथा वीर्य से तप तः तप से मन्त्रों को, इन मन्त्रों से कर्म, कर्म से लोकों को, लोकों में नाम को रचा; 'आत्मा' से इस क्रम में समस्त पदार्थों का जन्म हुआ।

॥ शब्दावली ॥

सः प्राणम् असृजत - saḥ prāṇam asṛjata - then he put forth the Life

प्राणात् - prāṇāt - from the Life

श्रद्धाम् - śraddhām - faith

खम् - kham - next ether

वायुः - vāyuḥ - then air

ज्योतिः - jyotiḥ - then light

आपः - āpaḥ - then water

पृथिवी - pṛthivī - then earth

इन्द्रियम् - indriyam - then the senses

मनः - manaḥ - then mind

अन्नम् - annam - then food

अन्नात् - annāt - from food

वीर्यम् - vīryam - virility

तपः - tapaḥ - from virility askesis

मन्त्राः - mantrāḥ - from askesis the mighty verses

कर्म - karma - from these action

लोकाः - lokāḥ - the worlds from action

लोकेषु च - lokeṣu ca - in the worlds

नाम च - nāma ca - name

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code