Ad Code

स यथेमा नध्यः स्यन्दमानाः

 


स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥

लिप्यन्तरणम्

sa yathemā nadhyaḥ syandamānāḥ samudrāyaṇāḥ samudraṁ prāpyāstaṁ gacchanti bhidhyete tāsāṁ nāmarupe samudra ityevaṁ procyate | evamevāsya paridraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṁ prāpyāstaṁ gacchanti bhidhyete cāsāṁ nāmarupe puruṣa ityevaṁ procyate sa eṣo'kalo'mṛto bhavati tadeṣa ślokaḥ ||

अन्वयः

सः यथा समुद्रायणाः स्यन्दमानाः इमाः नद्यः समुद्रं प्राप्य अस्तं गछन्ति तासां नामरूपे भिद्येते समुद्रः इति एवं प्रोच्यते एवम् एव अस्य परिद्रष्टुः पुरुषस्य इमाःपुरुषायणाः षोडशकलाः पुरुषं प्राप्य अस्तं गछन्ति तासाम् नामरूपे भिद्येते। पुरुषः इति एवं प्रोच्यते सः एषः अकलः अमृतः भवति तत् एषः श्लोकः भवति ॥

अन्वयलिप्यन्तरणम्

saḥ yathā samudrāyaṇāḥ syandamānāḥ imāḥ nadyaḥ samudraṁ prāpya astaṁ gachanti tāsāṁ nāmarūpe bhidyete samudraḥ iti evaṁ procyate evam eva asya paridraṣṭuḥ puruṣasya imāḥpuruṣāyaṇāḥ ṣoḍaśakalāḥ puruṣaṁ prāpya astaṁ gachanti tāsām nāmarūpe bhidyete| puruṣaḥ iti evaṁ procyate saḥ eṣaḥ akalaḥ amṛtaḥ bhavati tat eṣaḥ ślokaḥ bhavati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

अथास्यैव सर्वकलालयाधिष्ठानत्वेनाकलत्वमप्याह -

स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकला: पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥५॥

स यथेमाः प्रसिद्धा गङ्गाद्या नद्यः, समुद्रायणाः - समुद्र एव अयनं प्राप्यस्थानं पर्यवसानस्थानं यासां ताः, समुद्रं प्राप्यास्तम् - अदर्शनं गच्छन्ति । भिद्येते तासां नामरूपे । सत्यपि वस्तुस्वरूपे पृथग्विवेचनासम्भवेन समुद्र इत्येव व्यवहारगोचरतां यान्ति । एवमेवास्य परिद्रष्टुर्जीवस्य भोगोपकरणभूता इमाः प्राणाद्याः कलाः पुरुषायणाः - पुरुष एव सर्वात्मा अयनमाधारः पर्यवसानभूमिर्यासां तथाविधाः, प्रलये पुरुषं तमेव स्वाविर्भावास्पदं प्राप्य अदर्शनं गच्छन्ति। अपगच्छतश्च तासां नामरूपे । पुरुष इत्येव व्यपदेशभाजस्तदा भवन्ति । अतस्तदानीमेष परमपुरुष: अकल इत्युच्यते । अमृतो भवति - शरीरद्वाराऽपि जन्ममरणादिव्यवहारानहों भवति । तत् ईदृशं परमपुरुषतत्त्वमधिकृत्य, एषः वक्ष्यमाणश्लोकः प्रवृत्तो भवति ॥५॥

॥ आङ्गल-अर्थः ॥

“Therefore as all these flowing rivers move towards the sea, but when they reach the sea they are lost in it and name and form break away from them and all is called only the sea, so all the sixteen members of the silent witnessing Spirit move towards the Being, and when they have attained the Being they are lost in Him and name and form break away from them and all is called only the Being; then is He without members and immortal. Whereof this is the Scripture.

॥ हिन्दी-अर्थः ॥

''अतः जिस प्रकार प्रवाहित होती हुई नदियाँ सागर की ओर अग्रसर होती हैं, किन्तु सागर में पहुँचकर वे उसी में विलीन हो जाती हैं तथा उनके नाम और रूप समाप्त हो जाते हैं और सब कुछ केवल सागर ही कहलाता है, इसी प्रकार इस द्रष्टारूप 'चैतन्य' की षोडश कलाएँ 'पुरुष' की ओर अग्रसर होती हैं एवं जब वे उस 'पुरुष' को प्राप्त कर लेती हैं तब वे 'उसी' में विलीन हो जाती हैं तथा उनके अपने नाम-रूप समाप्त हो जाते हैं और इस समस्त को एकमात्र 'पुरुष' कहा जाता है; तब 'वह' कला (अंश) रहित एवं अमृत-रूप हो जाता है। जिसके विषय में यह श्लोक है।

॥ शब्दावली ॥

यथा - yathā - as

समुद्रायणाः - samudrāyaṇāḥ - moving towards the sea

इमाः स्यन्दमानाः नद्यः - imāḥ syandamānāḥ nadyaḥ - all these flowing rivers

समुद्रम् प्राप्य - samudram prāpya - but when they reach the sea

अस्तम् गछन्ति - astam gachanti - they are lost in it

तासाम् नामरूपे - tāsām nāmarūpe - their name and form and

भिद्येते - bhidyete - break away from them

समुद्रः सः इति एवम् प्रोच्यते - samudraḥ saḥ iti evam procyate - all is called only the sea

एवम् एव - evam eva - so

अस्य परिद्रष्टुः पुरुषस्य - asya paridraṣṭuḥ puruṣasya - of the silent witnessing Spirit

इमाः पुरुषायणाः - imāḥ puruṣāyaṇāḥ - moving towards the Being

षोडशकलाः - ṣoḍaśakalāḥ - all the sixteen members

पुरुषम् प्राप्य - puruṣam prāpya - when they have attained the Being

अस्तम् गछन्ति - astam gachanti - they are lost in Him

तासाम् नामरूपे भिद्येते - tāsām nāmarūpe bhidyete - name and form break away from them

पुरुषः सः इति एवम् प्रोच्यते - puruṣaḥ saḥ iti evam procyate - all is called only the Being

एषः अकलः अमृतः भवति - eṣaḥ akalaḥ amṛtaḥ bhavati - then is He without members and immortal

तत् एषः श्लोकः भवति - tat eṣaḥ ślokaḥ bhavati - whereof this is the Scripture

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code