त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम्। स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥
॥ लिप्यन्तरणम् ॥
triṇāciketastrayametadviditvā ya evaṁ vidvāṁścinute nāciketam | sa mṛtyupāśānpurataḥ praṇodya śokātigo modate svargaloke ||
॥ अन्वयः ॥
यः त्रिणाचिकतः विद्वान् एतत् त्रयं विदित्वा नाचिकेतम् एव चिनुते स पुरतः मृत्युपाशान् प्रणोद्य शोकतिगः स्वर्गलोके मोदते ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ triṇācikataḥ vidvān etat trayaṁ viditvā nāciketam eva cinute sa purataḥ mṛtyupāśān praṇodya śokatigaḥ svargaloke modate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ पूर्वमन्त्रोक्तफलस्य विवरणम् ]
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाश्चिनुते नाचिकेतम् ।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥१८॥
य एतत्त्रयं - अग्निस्वरूपम् आत्मस्वरूपं परमात्मास्वरूपं च विदित्वा शास्त्रतो ज्ञात्वा । एवं विद्वान् - शास्त्रावगतप्रकारेण त्रयमनुचिन्तयन् नाचिकेतमग्नि चिनुते, स त्रिणाचिकेतः - उक्तोऽर्थः । मृत्युपाशान् - रागद्वेषादीन् । पुरतः - शरीरापगमात्प्रागेव, प्रणोद्य - विगमय्य, स्वर्गे लोके - निरतिशयसुखमये स्थानविशेषे । शोकातिगो मोदते - आविर्भूतस्वस्वरूपो भवतीत्येतत् ॥१८॥
॥ आङ्गल-अर्थः ॥
“When a man has the three flames of Nachiketas and knows this that is Triple, when so knowing he beholds the Flame of Nachiketas, then he thrusts from in front of him the meshes of the snare of death; leaving sorrow behind him he in heaven rejoices.
॥ हिन्दी-अर्थः ॥
''जब मनुष्य तीन नचिकेता- अग्नियों को प्राप्त करके यह जान जाता है कि ये 'त्रयात्मक' हैं, तथा ऐसा जानते हुए जब 'नचिकेता- अग्नि' का दर्शन करता है, तब वह अपने सामने सें मृत्यु-पाश के जालों का उच्छेदन कर डालता है, वह शोक का अतिक्रमण करके स्वर्गलोक में हर्षित होता है।
॥ शब्दावली ॥
यः विद्वान् - yaḥ vidvān - the wise man who
त्रिणाचिकतः - triṇācikataḥ - has the three flames of Nachiketas
एतत् - etat - this
त्रयम् - trayam - Triple
विदित्वा - viditvā - knowing
नाचिकेतम् - nāciketam - the Flame of Nachiketas
एव - eva - alone
चिनुते - cinute - he beholds
स पुरतः - sa purataḥ - he in front
मृत्युपाशान् - mṛtyupāśān - the meshes of the snare of death
प्रणोद्य - praṇodya - thrusts from
शोकतिगः - śokatigaḥ - leaving sorrow behind
स्वर्गलोके - svargaloke - in heaven
मोदते - modate - he rejoices

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know