Ad Code

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥



तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥

लिप्यन्तरणम्

teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṁ na māyā ceti ||

अन्वयः

येषु जिह्मम् अनृतं न माया च न तेषाम् असौ विरजः ब्रह्मलोकः इति ॥

अन्वयलिप्यन्तरणम्

yeṣu jihmam anṛtaṁ na māyā ca na teṣām asau virajaḥ brahmalokaḥ iti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते। 

तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्‌ ॥१५॥ इत्यत्र व्याख्यातम् ।

अत्रेदं बोध्यम् 

अत्राचार्याः प्रसिद्धार्थं परित्यज्य प्रयत्नतः । व्याचक्षते ततः कश्चिद्विशेषो लभ्यतामपि ॥

अबाधिते तु रूढार्थे स्वारस्येऽप्यक्षते सति । कलङ्कयति वाक्यं हि यौगिकार्थपरिग्रहः ॥

आदित्यो हेति मन्त्रस्थादित्यशब्दस्य योगतः । जीवार्थकत्वाश्रयणे क्लेश एव विशिष्यते ॥

श्रूयते चाव्यवहिते आदित्य उदयन्निति । अनेनादित्यशब्दस्य युक्ता रूढार्थतैव तु ॥

उदयश्चेन्निर्गमनं सुषुप्तिस्थानतो बहिः । क्लिष्टार्थकल्पनाधिक्यात् हन्त व्याख्या कलङ्किता ॥

प्राचीं दिशं प्रविशतीत्याद्यप्यस्वरसं भवेत् । शरीरे दिग्विभागश्चेदस्वारस्यं विशिष्यते ॥

प्रसिद्धादित्यशब्दार्थस्वीकारे न्यूनताऽत्र का । क्लिष्टोऽप्यर्थः परिग्राह्यो भवेद्यदपनुत्तये ॥

ब्रह्मकारणकत्वस्य जीवेऽपि ज्ञापनाय चेत् । किं तेन प्रकृतस्याद्य प्रश्नः को वा विभाव्यताम् ॥

इमाः प्रजाः कुत इति प्रश्नस्योत्तरमुच्यते । सुसङ्गतमिदं तावत्प्रसिद्धार्थपरिग्रहात् ॥

विवक्षितविशेषस्य नात्रापेक्षा विशेषत: । अथापि पूर्वैराचार्यैर्व्याख्यातमिति गृह्यताम् ॥

॥ इति प्रश्नोपनिषद्भाष्ये प्रथमः प्रश्नः ॥

आङ्गल-अर्थः

“Theirs is the heaven of the Spirit, the world all spotless, in whom there is neither crookedness nor lying nor any illusion.”

हिन्दी-अर्थः

'उन्हीं का है यह निर्मल ब्रह्मलोक जिनमें न कुटिलता है, न मिथ्यात्व (अनृतम्) है, न कोई भान्ति है।''

शब्दावली

येषु - yeṣu - in whom

न जिह्मम् - na jihmam - nor crookedness

न अनृतम् - na anṛtam - nor lying

न माया च - na māyā ca - and nor any illusion

तेषाम् - teṣām - theirs

असौ विरजः - asau virajaḥ - the world all spotless

ब्रह्मलोकः इति - brahmalokaḥ iti - is the heaven of the Spirit

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code