अथ हैनं भार्गवो वैदर्भिः पप्रच्छ। भगवन् कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठः इति ॥
॥ लिप्यन्तरणम् ॥
atha hainaṁ bhārgavo vaidarbhiḥ papraccha | bhagavan katyeva devāḥ prajāṁ vidhārayante katara etatprakāśayante kaḥ punareṣāṁ variṣṭhaḥ iti ||
॥ अन्वयः ॥
अथ वैदर्भिः भार्गवः एनम् पप्रच्छ भगवन् कति एव देवाः प्रजां विधारयन्ते कतरे एतत् प्रकाशयन्ते कः पुनः एषां वरिष्ठः ॥
॥ अन्वयलिप्यन्तरणम् ॥
atha vaidarbhiḥ bhārgavaḥ enam papraccha bhagavan kati eva devāḥ prajāṁ vidhārayante katare etat prakāśayante kaḥ punaḥ eṣāṁ variṣṭhaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
द्वितीयः प्रश्नः
[ प्राणप्रशंसा ]
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ ।
भगवन्कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठइति ॥१॥
अथेत्यवसरसङ्गतिर्व्यज्यते । उत्पत्तिहेताववधृते सपदि स्थितिहेतुः क इति जिज्ञासा भवेत् । प्रश्नोऽनूद्यते - भगवन्निति । प्रजास्तु प्रजापतेरुत्पन्ना नाम । इमां प्रजां विधारयन्ते कति । प्रजाशब्दितमिदं शरीरं कैर्विधार्यत इत्यर्थः । एतद्धारणलक्षणं कार्यं के प्रकाशयन्ते - ख्यापयन्ति । कै: क्रियमाणं धारणलक्षणं कार्यं विख्यायत इति यावत् । यदि बहुभिर्विधार्यते को वरिष्ठस्तेषाम् । इदमत्र बोध्यम् - एतत्प्रश्नप्रतिवचनेन मुख्यप्राणे धारकत्वं ग्राहयित्वा तृतीयप्रश्नप्रतिवचने ततोऽतिरिक्तं परमात्मानं सर्वस्य धारकं ज्ञापयिष्यति । देहेन्द्रियप्राणादिवैलक्षण्यमात्मनि सुखेन ग्राहयितुमित्थमारम्भः ॥१॥
॥ आङ्गल-अर्थः ॥
Then the Bhargava, the Vidarbhan, asked him: “Lord, how many Gods maintain this creature, and how many illumine it, and which of these again is the mightiest?”
॥ हिन्दी-अर्थः ॥
तत्पश्चात् वैदर्भी (विदर्भदेशीय) भार्गव ने उनसे पूछा, ''हे भगवन् कितने देवगण इस प्रजा को सम्भालते हैं, कितने इसे प्रकाशित करते हैं तथा इनमें सें पुनः कौन वरिष्ठ (सर्वाधिक शक्तिशाली) है?"
॥ शब्दावली ॥
अथ - atha - then
वैदर्भिः भार्गवः - vaidarbhiḥ bhārgavaḥ - the Bhargava, the Vidarbhan
एनम् पप्रच्छ - enam papraccha - asked him
भगवन् - bhagavan - Lord!
कति एव - kati eva - how many
देवाः - devāḥ - Gods
प्रजाम् - prajām - this creature
विधारयन्ते - vidhārayante - maintain
कतरे - katare - and how many
एतत् प्रकाशयन्ते - etat prakāśayante - illumine it
कः पुनः - kaḥ punaḥ - and which again
एषाम् वरिष्ठः - eṣām variṣṭhaḥ - of these is the mightiest
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know