वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्। तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥
॥ लिप्यन्तरणम् ॥
vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān | tasyaitāṁ śāntiṁ kurvanti hara vaivasvatodakam ||
॥ अन्वयः ॥
ब्राह्मणः अतिथिः सन् वैश्वानरः इव गृहान् प्रविशति। तस्य एतां शान्तिं कुर्वन्ति। वैवस्वत उदकं हर ॥
॥ अन्वयलिप्यन्तरणम् ॥
brāhmaṇaḥ atithiḥ ( san ) vaiśvānaraḥ ( iva ) gṛhān praviśati | tasya etāṁ śāntiṁ kurvanti | vaivasvata udakaṁ hara ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ द्वारस्थः नचिकेतसः आतिथ्यार्थं वैवस्वताय निवेदनम् ]
एवं प्रतिबोधितेन पित्राऽभ्यनुज्ञातः पुत्रो यमसदनमुपगतः प्रोषितस्य यमस्य प्रत्यागमनमाकाङ्क्षमाणोऽनश्नन् दिनत्रयमवात्सीत्सदनाङ्गणे । चतुर्थे दिने प्रत्यागते यमे तदनुचरा वृद्धाः कथयन्ति -
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥७॥
अतिथिर्ब्राह्मणः स एव वैश्वानरः - अग्निः, गृहान् प्रविशति । प्रविष्टस्य तस्यैतामर्घ्यपाद्यादिलक्षणां शान्तिं कुर्वन्ति वृद्धाः । वैवस्वत ! तत्त्वम् अस्मा अतिथये उदकम् - पाद्यादिनिमित्तं हर उपनय । अग्निकल्पोऽतिथिर्गृहानुपगतोऽसत्कृतो दहेत्कुलम्, तमेनमतिथिं पाद्यादिदानेन सत्कुर्विति भावः ॥७॥
॥ आङ्गल-अर्थः ॥
“Fire is the Brahmin who enters as a guest the houses of men; him thus they appease. Bring, O son of Vivasvan, the water of the guest-rite.
॥ हिन्दी-अर्थः ॥
''अतिथि के रूप में लोगों के घरों मे प्रवेश करने वाला ब्राह्मण साक्षात् वैश्वानर अग्नि-स्वरूप है । इस भाव से ही लोग उसे शान्त एवं प्रसन्न किया करते हैं । हे विवस्वान्-पुत्र,१ आप आतिथेय जल ले आइये ।
॥ शब्दावली ॥
ब्राह्मणः - brāhmaṇaḥ - the Brahmin
अतिथिः - atithiḥ - guest
सन् - san - being
वैश्वानरः - vaiśvānaraḥ - fire
इव - iva - like
गृहान् - gṛhān - houses
प्रविशति - praviśati - enters
तस्य इव - tasya iva - like him (the fire)
एताम् - etām - to this guest
शान्तिम् कुर्वन्ति - śāntim kurvanti - they appease
वैवस्वत - vaivasvata - O son of Vivasvan!
उदकम् - udakam - the water of the guest-rite
हर - hara - bring

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know