Ad Code

आशाप्रतीक्षे संगतं सूनृतां

 


आशाप्रतीक्षे संगतं सूनृतां चेष्टापूर्वे पुत्रपशूंश्च सर्वान्‌। एतद्‌ वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥

॥ लिप्यन्तरणम् ॥

āśāpratīkṣe saṁgataṁ sūnṛtāṁ ceṣṭāpūrve putrapaśūṁśca sarvān | etad vṛṅkte puruṣasyālpamedhaso yasyānaśnanvasati brāhmaṇo gṛhe ||

॥ अन्वयः ॥

ब्राह्मणः अनश्नन् यस्य गृहे वसति तस्य अल्पमेधसः पुरुषस्य आशाप्रतिक्षे सङ्गतम् सुनृताम् इष्टापूर्ते पुत्रपशून् सर्वान् एतत् सर्वं वृङ्क्ते ॥

॥ अन्वयलिप्यन्तरणम् ॥

brāhmaṇaḥ anaśnan yasya gṛhe vasati ( tasya ) alpamedhasaḥ puruṣasya āśāpratikṣe saṅgatam sunṛtām iṣṭāpūrte putrapaśūn sarvān etat ( sarvaṁ ) vṛṅkte ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ अतिथिसत्काराकरणे सुकृततस्य विनाशोक्तिः ]

अकरणेऽनर्थमाह-

आशाप्रतीक्षे सङ्गतं सूनृतां चेष्टापूर्ते पुत्रपशूंश्च सर्वान् ।

एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्याऽनश्नन्वसति ब्राह्मणो गृहे ॥८॥

यस्याल्पमेधसो गृहे ब्राह्मणोऽतिथिभूतोऽनश्शन् वसति अशनमलभमानो वसति । एतत् - इदमतिथेरनशनजनितमागः, तस्य गृहमेधिनः आशाप्रतीक्षादिकं सर्वं वृङ्क्ते, नाशयतीत्येतत् । आशा अलब्धलाभेच्छा, प्रतीक्षा - लब्धस्य भोगवाञ्छा, सङ्गतम् - । साधुसङ्गतम्, सूनृता प्रियवाणी, इष्टं यागः पूर्तं खातादि । यच्च वाञ्छितं यच्च सत्सङ्गसूनृतेष्टापूर्तादिजन्यं सुकृतं पुत्रपश्वादिकं यत्प्रियम्, तदखिलं नश्यत्यतिथिमसत्कुर्वतः अल्पमेधसः इति भावः ॥८॥

॥ आङ्गल-अर्थः ॥

“That man of little understanding in whose house a Brahmin dwells fasting, all his hope and his expectation and all he has gained and the good and truth that he has spoken and the wells he has dug and the sacrifices he has offered and all his sons and his cattle are torn from him by that guest unhonoured.”

॥ हिन्दी-अर्थः ॥

"जिसके घर मे ब्राह्मण बिना खाए रहता है, उस अल्पबुद्धि मनुष्य की सारी आशा-प्रतीक्षाएँ, जो कुछ उसने पाया है, जो सत्य और शुभ उसने बोला है, जो कुएँ खुदवाए हैं तथा जो यज्ञ किये हैं, और उसके सब पुत्र एवं पशु उस अनादृत ब्राह्मण के द्वारा विनष्ट कर दिये जाते हैं ।''

॥ शब्दावली ॥

ब्राह्मणः - brāhmaṇaḥ - a Brahmin

अनश्नन् - anaśnan - fasting

यस्य गृहे - yasya gṛhe - in whose house

वसति - vasati - dwells

तस्य - tasya - his

अल्पमेधसः - alpamedhasaḥ - of little understanding

पुरुषस्य - puruṣasya - of the man

आशाप्रतिक्षे - āśāpratikṣe - all hope and expectation

सुनृताम् सङ्गतम् - sunṛtām saṅgatam - all that has been gained by speaking the good and truth

इष्टापूर्ते - iṣṭāpūrte - the wells dug and the sacrifices offered

पुत्रपशून् सर्वान् - putrapaśūn sarvān - all sons and cattle

एतत् सर्वम् - etat sarvam - all this

वृङ्क्ते - vṛṅkte - are torn (from him by that guest unhonoured)


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code