Ad Code

प्रजापतिश्चरसि गर्भे त्वमेव

 


प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे। तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥

लिप्यन्तरणम्

prajāpatiścarasi garbhe tvameva pratijāyase | tubhyaṁ prāṇa prajāstvimā baliṁ haranti yaḥ prāṇaiḥ pratitiṣṭhasi ||

अन्वयः

त्वम् एव प्रजापतिः सन् गर्भे चरसि प्रतिजायसे। प्राण इमाः प्रजाः तु तुभ्यं बलिं हरन्ति यः त्वं प्राणैः प्रतितिष्ठसि ॥

अन्वयलिप्यन्तरणम्

tvam eva prajāpatiḥ ( san ) garbhe carasi pratijāyase| prāṇa imāḥ prajāḥ tu tubhyaṁ baliṁ haranti yaḥ tvaṁ prāṇaiḥ pratitiṣṭhasi ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

अथ प्राणः साक्षादभिमुखीकृत्य स्तूयते ।

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्त्विमा बलि हरन्ति यः प्राणैः प्रतितिष्ठसि ॥७॥

हे प्राण त्वमेव प्रजापतिः - चतुर्मुखः गर्भे चरसि । यद्वा - त्वमेव प्रजानां पोषको भूत्वा गर्भे चरसि । त्वमेव प्रतिजायसे पुत्रादिरूपेण त्वमेव जायसे । इमाः प्रजाः - मनुष्यादय: तुभ्यमन्वहमन्नादिकं बलिमुपहरन्ति ॥७॥

आङ्गल-अर्थः

“As the Eternal Father thou movest in the womb and art born in the likeness of the parents. To thee, O Life, the world of creatures offer the burnt offering, who by the breaths abidest.

हिन्दी-अर्थः

'''हे प्राण! आप प्रजापति के समान गर्भ में विचरण करते हैं तथा मातापिता से साम्य रखते हुए आप जन्म ग्रहण करते हैं। आप, जो प्राणों के द्वारा निवास करते हैं, यह प्राणिजगत् आपको यज्ञ-हवि अर्पित करता है।

शब्दावली

त्वम् एव - tvam eva - thou

प्रजापति - prajāpati - the Eternal Father

गर्भे - garbhe - in the womb

चरसि - carasi - movest

प्रतिजायसे - pratijāyase - art born in the likeness of the parents

प्राण - prāṇa - O Life!

इमाः प्रजाः तु - imāḥ prajāḥ tu - the world of creatures

तुभ्यम् - tubhyam - to thee

बलिम् - balim - the burnt offering

हरन्ति - haranti - offer

यः - yaḥ - who

त्वम् - tvam - thou

प्राणैः - prāṇaiḥ - by the breaths

प्रतितिष्ठसि - pratitiṣṭhasi - abidest


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code