Ad Code

सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं

 


सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥

लिप्यन्तरणम्

so'yamātmādhyakṣaramoṅkāro'dhimātraṁ pādā mātrā mātrāśca pādā akāra ukāro makāra iti ||

अन्वयः

सः अयम् आत्मा अध्यक्षरम् ओङ्कारः एव । अधिमात्रम् तु पादाः मात्राः मात्राः च मात्राः अकारः उकारः मकारः इति ॥

अन्वयलिप्यन्तरणम्

saḥ ayam ātmā adhyakṣaram oṅkāraḥ ( eva )| adhimātram ( tu ) pādāḥ māatrāḥ mātrāḥ ca ( mātrāḥ ) akāraḥ ukāraḥ makāraḥ iti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

तृतीयः खण्डः

[ पादभूतस्य भगवतः मात्रास्वरूपत्वम् ]

एवमात्मनश्चतुष्पात्त्वमुपपाद्या थोपासनप्रकारमाह - सोऽयमात्मेत्यादि । 

सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥१॥

यो ब्रह्मात्मकत्वेन चतुष्पात्त्वेनोक्तः सोऽयमात्मा अध्यक्षरमोङ्कारः ओङ्कारे उक्तमात्मानं भावयेदिति यावत् । तत्र प्रणवमात्रासु पादानात्मनो विभावयेदित्याह - अधिमात्रमित्यादिना । अयमात्मा पादशोऽधिमात्रमुपास्यः । कथमेतत् ? पादा मात्रा मात्राश्च पादा: - पादा ह्यंशा आत्मनः, मात्राश्चाक्षरस्यांशाः, अतोंऽशत्वाविशेषात्पादा एव मात्रा मात्रा एव पादाः, ताश्च मात्राः प्रणवस्याकारादयः ॥१॥

आङ्गल-अर्थः ॥

Now this the Self, as to the imperishable Word, is OM; and as to the letters, His parts are the letters and the letters are His parts, namely, A U M.

हिन्दी-अर्थः

अथ, यह है 'आत्मा', और 'अक्षर-शब्द' है 'ओम्'; और 'उसके' पाद (अंश) हैं उसके वर्णाक्षर, तथा वर्णाक्षर हैं 'उसके' पादांश-'अकार', 'उकार' तथा 'मकार'।

शब्दावली

सः अयम् आत्मा - saḥ ayam ātmā - this the Self

अध्यक्षरम् - adhyakṣaram - as to the imperishable Word

ओङ्कारः - oṅkāraḥ - is OM

अधिमात्रम् - adhimātram - as to the letters M

पादाः मात्राः - pādāḥ māatrāḥ - his parts are the letters

मात्राः च - mātrāḥ ca - the letters are His parts

अकारः उकारः मकारः इति - akāraḥ ukāraḥ makāraḥ iti - namely, A U M


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code