नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्। अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥
॥ लिप्यन्तरणम् ॥
nāntaḥprajñaṁ na bahiṣprajñaṁ nobhayataḥprajñaṁ na prajñānaghanaṁ na prajñaṁ nāprajñam| adṛṣṭamavyavahāryamagrāhyamalakṣaṇamacintyamavyapadeśyamekātmapratyayasāraṁ prapañcopaśamaṁ śāntaṁ śivamadvaitaṁ caturthaṁ manyante sa ātmā sa vijñeyaḥ ||
॥ अन्वयः ॥
न अन्तःप्रज्ञम्। न वहिःप्रज्ञम्। न उभयतःप्रज्ञम्। न प्रज्ञानधनम्। न प्रज्ञम्। न अप्रज्ञम्। अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् एकात्मप्रत्यसारं प्रपञ्चोपशमम् शान्तं शिवम् अद्वैतं चतुर्थं मन्यन्ते विवेकिनः । सः आत्मा सः विज्ञेयः ॥
॥ अन्वयलिप्यन्तरणम् ॥
na antaḥprajñam | na vahiḥprajñam | na ubhayataḥprajñam| na prajñānadhanam| na prajñam| na aprajñam| adṛṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam avyapadeśyam ekātmapratyasāraṁ prapañcopaśamam śāntaṁ śivam advaitaṁ caturthaṁ manyante ( vivekinaḥ )| saḥ ātmā saḥ vijñeyaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ तुरीयस्य वासुदेवस्य निरूपणम् ]
अथ तुरीयं पादं निरूपयति - नान्तरिति ।
नान्तः प्रज्ञं न बहिः प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमै कात्म्यप्रत्ययसारं
प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥५॥
जाग्रदाद्यवस्थात्रयत उत्तीर्णः प्रकृतिबन्धविनिर्मुक्तः स्वस्वरूपमापन्नः प्रत्यगात्मा चतुर्थः पाद उच्यते, तस्यास्य स्वरूपं विशिनष्टि । नान्तः प्रज्ञमिति स्वाप्नावस्थव्यावृत्तिः, न बहिःप्रज्ञमिति जाग्रदवस्थस्य । प्रत्येकं विश्वात्तैजसाच्च व्यावर्त्य दाढर्याय पुनरुभयतो व्यावर्तयति - नोभयतःप्रज्ञमिति । लेशतो जाग्रद्दशया संवलिता स्वाप्नदशा वा काचिद्विलक्षणा व्यावर्त्यते - नोभयतः प्रज्ञमित्यनेन । य: प्रज्ञानघनः प्राज्ञः सुषुप्त्यवस्थ उक्तस्ततो व्यावृत्तिमाह- न प्रज्ञानघनं न प्रज्ञमिति । प्रतियोगिसमर्पकप्रज्ञानघनशब्दो नावयवार्थं बोधयति, शुद्धप्रत्यगात्मनि तन्निषेधायोगात्, किन्तु सुषुप्त्यवस्थं पूर्वप्रकृतम् । तदेवं व्यावर्तने किमयमन्ततो व्यपेतज्ञान: ? तत्राह - नाप्रज्ञमिति । सर्वज्ञमित्यर्थः । अदृष्टम् - चक्षुराद्यगोचरम् । यद्यपि प्रत्यगात्मस्वरूपं जाग्रदादिदशायामपि चक्षुराद्यगोचरमेव, अथापि भूतसङ्घातोपाधिद्वारा औपचारिकं द्रष्टृत्वादि तत्र प्रसजति, तदपि नेहेत्याशयः । अव्यवहार्यम् लौकिकसर्व व्यवहारानर्हम् । अग्राह्यम् - मनसोऽप्यगोचरम् । अलक्षणम् जातिवर्णादिलक्षणशून्यम् । अचिन्त्यम् - इदमित्थमिति केवलया बुद्ध्या चिन्तयितुमशक्यम् । अव्यपदेश्यम् - देवो मनुष्य इत्यादिव्यपदेशानर्हम् । ऐकात्म्यप्रत्ययसारम् - जाग्रदवस्थायां स्वप्नावस्थायां मायातिरोहितस्वरूपो न यथावन्मन्यते स्वस्वरूपं, किन्तु अहमेवमाकारोऽयमेवमाकार : अद्यैवमाकारोऽस्मि पूर्वमेवमाकार आसमिति भौतिकानि विषमरूपाण्यध्यस्यात्मनि विविधात्मप्रत्ययाविष्टो भवति, सुषुप्तौ तु विलुप्तप्रत्ययः । अवस्थात्रयेभ्यो यदा विनिर्मुक्तोऽसंसार्यवस्थस्तु सर्वदाऽऽत्मानमेकमेवाविषममेव ब्रह्मात्मकमेव चानुभवतीति; ऐकात्म्यप्रत्ययसारोऽयम् । प्रपञ्चोपशमम् - देवादिसर्वप्रपञ्चो यस्योपशाम्यति । शान्तम् - ऊर्मिषट्करहितम् । शिवं सुखमयत्वात् । अद्वैतम् - अपेतदेवादिवैषम्यतया सर्वतोऽविशेषादद्वैतम् । चतुर्थं मन्यन्ते । स आत्मा विज्ञेयो विमुक्तये ॥५॥
॥ इति माण्डूक्योपनिषद्भाष्ये द्वितीयः खण्डः ॥
॥ आङ्गल-अर्थः ॥
He who is neither inward wise, nor outward wise, nor both inward and outward wise, nor wisdom self gathered, nor possessed of wisdom, nor unpossessed of wisdom, He Who is unseen and incommunicable, unseizable, featureless, unthinkable, and unnameable,Whose essentiality is awareness of the Self in its single existence, in Whom all phenomena dissolve, Who is Calm, Who is Good, Who is the One than Whom there is no other, Him they deem the fourth; He is the Self, He is the object of Knowledge.
॥ हिन्दी-अर्थः ॥
वह न अन्तःप्रज्ञ है न बहिष्प्रज्ञ है, न उभय-प्रज्ञ अर्थात् अन्तः एवं बहिष्प्रज्ञ एक साथ है, न वह प्रज्ञान-घन है, न प्रज्ञ (ज्ञाता) है, न अप्रज्ञ (अज्ञाता)। वह जो अदृष्ट है, अव्यवहार्य है, अग्राह्य है, अलक्षण है, अचिन्त्य है, अव्यपदेश्य अर्थात् अनिर्देश्य है, 'आत्मा' के ऐकान्तिक अस्तित्व का बोध ही जिसका सार है, 'जिसमें' समस्त प्रपञ्चात्मक जगत् का विलय हो जाता है, जो 'पूर्ण शान्त' है, जो 'शिवम्' है-मंगलकारी है, और जो 'अद्वैत' है, 'उसे' ही चतुर्थ (पाद) माना जाता है; 'वही' है 'आत्मा', एकमात्र 'वही' 'विज्ञेय' (जानने योग्य तत्त्व) है।
॥ शब्दावली ॥
न अन्तः प्रज्ञम् - na antaḥ prajñam - he who is neither inward wise
न वहिः प्रज्ञम् - na vahiḥ prajñam - nor outward wise
न उभयतः प्रज्ञम् - na ubhayataḥ prajñam - nor both inward and outward wise
न प्रज्ञानधनम् - na prajñānadhanam - nor wisdom self gathered
न प्रज्ञम् - na prajñam - nor possessed of wisdom
न अप्रज्ञम् - na aprajñam - nor unpossessed of wisdom
अदृष्टम् - adṛṣṭam - he who is unseen
अव्यवहार्यम् - avyavahāryam - incommunicable
अग्राह्यम् - agrāhyam - unseizable
अलक्षणम् - alakṣaṇam - featureless
अचिन्त्यम् - acintyam - unthinkable
अव्यपदेश्यम् - avyapadeśyam - unnameable
एकात्मप्रत्यसारम् - ekātmapratyasāram - whose essentiality is awareness of the Self in its single existence
प्रपञ्चोपशमम् - prapañcopaśamam - in whom all phenomena dissolve
शान्तम् - śāntam - who is Calm
शिवम् - śivam - who is Good
अद्वैतम् - advaitam - who is the One than whom there is no other
चतुर्थम् - caturtham - the fourth
मन्यन्ते - manyante - him they deem
सः आत्मा - saḥ ātmā - he is the Self
सः विज्ञेयः - saḥ vijñeyaḥ - he is the object of Knowledge

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know