जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा। आप्तेरादिमत्वाद् वा आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥
॥ लिप्यन्तरणम् ॥
jāgaritasthāno vaiśvānaro'kāraḥ prathamā mātrā| āpterādimatvād vā āpnoti ha vai sarvān kāmānādiśca bhavati ya evaṁ veda ||
॥ अन्वयः ॥
जागरितस्थानः वैश्वानरः अकारः प्रथमा मात्रा। यतः आप्तेः आदिमत्वात् वा यः एवं वेद। सः ह वै सर्वान् कामान् आप्नोति। आदि च भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
jāgaritasthānaḥ vaiśvānaraḥ akāraḥ prathamā mātrā| ( yataḥ ) āpteḥ ādimatvāt vā yaḥ evaṁ veda | saḥ ha vai sarvān kāmān āpnoti| ādi ca bhavati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ प्रणवाक्षरेषु अकाररूपः परमात्मा वैश्वानरः ]
नालम्बनेन कं पादं भावयेत्तदेतद्विशिष्याह - जागरित इत्यादिना ।
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽप्नोति
ह वै सर्वान्कामानादिश्च भवति य एवं वेद ॥२॥
योऽकारः प्रथमा मात्रा स वैश्वानरः प्रथमः पादः । केन साम्येनेत्यत्राह आप्तेरादिमत्त्वाद्वेति । अकारो हि सर्वमक्षरमाप्नोति, 'अकारो वै सर्वा वाक्' (ऐतरेयोपनिषद् - ३.२.६) इति श्रुतेः, विश्वश्चायमर्थानखिलान्, आदिश्चायमितरस्य वर्णस्य, आदिश्चैष तैजसाद्यपेक्षया । तदकारेणालम्बनेन विश्वमुपासीतेति भावः । य एवमुपास्ते आप्नोति ह वै सर्वान्कामान् आदिश्च भवति - प्रथमो भवति, मान्यो भवतीति यावत् । अत्रेदं बोध्यम् - स्तूयते उपासनमिदं फलश्रुत्या, न चेह पादस्यैकैकस्य स्वातन्त्र्येणोपासनविधाने तात्पर्यम्, अपि तु तत्तदवस्थोपलक्षितस्य तत्तन्मात्रावलम्बनतया अवस्थातीतस्य प्रणवालम्बनतया विशिष्टमेकमेवोपासनमिह विधीयते, अवस्थोपलक्षितस्य तदतीतस्य च ब्रह्मात्मकतयैव विभावनं कार्यमिति प्रथमत एव प्रोक्तम्, तस्यास्योपासकस्य ब्रह्मात्मकस्वात्मानुभव- लक्षणकैवल्यलक्षणमोक्षप्राप्तिः फलम् ॥२॥
॥ आङ्गल-अर्थः ॥
The Waker, Vaiswanara, the Universal Male, He is A, the first letter, because of Initiality and Pervasiveness; he that knoweth Him for such pervadeth and attaineth all his desires; he becometh the source and first.
॥ हिन्दी-अर्थः ॥
जागरित-अवस्थावाला, 'वैश्वानरः'-वैश्व-पुरुष', अपने 'आदित्व' एवं 'व्यापकता' के कारण 'वह' है 'अकार', प्रथम वर्णाक्षर; जो 'उसे' इस प्रकार जानता है वह सर्वव्याप्त हो जाता है तथा अपनी समस्त कामनाओं को प्राप्त करता है; वह स्वयं 'आदि'-उत्स एवं आरम्भ-बन जाता है।
॥ शब्दावली ॥
जागरितस्थानः - jāgaritasthānaḥ - the Waker
वैश्वानरः - vaiśvānaraḥ - Vaiswanara, the Universal Male
अकारः - akāraḥ - he is A
प्रथमा मात्रा - prathamā mātrā - the first letter
आप्तेः - āpteḥ - because of Pervasiveness
आदिमत्वात् वा - ādimatvāt vā - and Initiality
यः एवम् वेद - yaḥ evam veda - that knoweth Him for such
सः ह वै - saḥ ha vai - he
सर्वान् कामान् - sarvān kāmān - all his desires
आप्नोति - āpnoti - pervadeth and attaineth
आदि च भवति- ādi ca bhavati - he becometh the source and first

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know