या प्राणेन संभवत्यदितिर्देवतामयी। गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत। एतद्वै तत् ॥
॥ लिप्यन्तरणम् ॥
yā prāṇena saṁbhavatyaditirdevatāmayī | guhāṁ praviśya tiṣṭhantīṁ yā bhūtebhirvyajāyata | etadvai tat ||
॥ अन्वयः ॥
या देवतामयी अदितिः प्राणेन संभवति या भूतेभिः व्यजायत गुहां प्रविश्य तिष्ठन्तीम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
anvayaḥ - yā devatāmayī aditiḥ prāṇena saṁbhavati yā bhūtebhiḥ vyajāyata guhāṁ praviśya tiṣṭhantīm ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ जीवशरीरकः परमात्मा ]
यश्चायं क्षेत्रज्ञवर्गः, सोऽपि तदात्मक इत्याह - या इति ।
या प्राणेन सम्भवत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत । एतद्वै तत् ॥७॥
अत्ति कर्मफलानीति भोक्ता जीवोऽदितिरुच्यते । या अदितिः देवतामयी प्राणेन सम्भवति यो भोक्ता जीव इन्द्रियप्रचुर : प्राणेनोपलक्षितः सम्भवति । यः स्वकर्मानुगुणमिन्द्रियप्राणविशिष्टो भोगाय प्रभवतीति यावत् । पुनस्तामेवादितिं विशिनष्टि गुहामिति । हृदयगुहां प्रविश्य वर्तमाना याऽदितिर्भूतैः देहात्मना परिणतैर्व्यजायत ज्ञानस्वरूपत एकरूपाऽपि देवमनुष्यादिविविधरूपेणाजायत । एतद्वै तत् - अयमपि भोक्ता क्षेत्रज्ञस्तदात्मक इत्यर्थः । ' क्षेत्रज्ञं चापि मां विद्धि' (भगवद्गीता - १३.२) इति च स्मर्यते । मां - तदात्मकमिति च भाषितम् ॥७॥
॥ आङ्गल-अर्थः ॥
This is Aditi, the mother of the Gods, who was born through the Prana and by the mingling of the elements had her being; deep in the heart of things she has entered, there she is seated. This is the thing thou seekest.
॥ हिन्दी-अर्थः ॥
''ये हैं देवों की माता 'अदिति' जिनका 'प्राण' के माध्यम से प्रादुर्भाव हुआ, जिनका भूतग्राम सहित प्राकट्य हुआ और पदार्थों की हृद्गुहा में प्रवेश करके 'वे' वहां प्रतिष्ठित हैं। यही है 'वह', जिसकी तुन्हें अभीप्सा है।
॥ शब्दावली ॥
या - yā - she who
देवतामयी - devatāmayī - the mother of the Gods
अदितिः - aditiḥ - aditi
प्राणेन - prāṇena - through the Prana
संभवति - saṁbhavati -
या - yā - was born
भूतेभिः - bhūtebhiḥ - by the mingling of the elements
व्यजायत - vyajāyata - had her being
गुहाम् - guhām - deep in the heart of things
प्रविश्य - praviśya - she has entered
तिष्ठन्तीम् - tiṣṭhantīm - is seated
एतत् वै तत् - etat vai tat - this is the thing thou seekest
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know