यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत। गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत। एतद्वै तत् ॥
॥ लिप्यन्तरणम् ॥
yaḥ pūrvaṁ tapaso jātamadbhyaḥ pūrvamajāyata | guhāṁ praviśya tiṣṭhantaṁ yo bhūtebhirvyapaśyata | etadvai tat ||
॥ अन्वयः ॥
यः पूर्वं तपसः जातं पूर्वम् अजायत गुहां प्रविश्य भूतेभिः तिष्ठन्तं तं यः व्यपश्यत सः ब्रह्म एव पश्यति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ pūrvaṁ tapasaḥ jātaṁ pūrvam ajāyata guhāṁ praviśya bhūtebhiḥ tiṣṭhantaṁ ( taṁ ) yaḥ vyapaśyata ( saḥ brahma eva paśyati ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ सकलजगत्स्वष्टा परमात्मा ]
अथ यः सर्वकारणं, स एव स इत्याह- यः पूर्वमिति ।
यः पूर्वं तपसो जातमद्भयः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥६॥
अद्भ्यः पूर्वं जातम् - अद्भ्यः इत्युपलक्षकं भूतानाम्, भूतेभ्यः प्रागुत्पन्नं महदादिकं सर्वं यः पूर्वमजायत - य एवादावजनयत् । अन्तर्भावितण्यर्थोऽयं प्रयोगः । केनोपकरणेन ? तपस एव केवलात् - संकल्पमात्रतः । जातमिति प्रथमान्तं वा । यः स्वयमेकोऽहं बहु स्यामिति संकल्प्यादौ महदादिकम्, अजायत - तद्रूपेणाजायतेत्यर्थः । एतेनाभिन्ननिमित्तोपादानत्वं ज्ञाप्यते ।
अखिलव्यष्टिसृष्टिद्वार भूतो हिरण्यगर्भोऽपि यत्संकल्पादित्याह - गुहामिति । गुहां प्रविश्य तिष्ठन्तम् - गुहा अत्र अण्डोदरमुच्यते । भूतेभिरिति छान्दसः प्रयोगः । उपलक्षणे तृतीया । अण्डान्तरं प्रविश्य कार्यकारणलक्षणैः सह वर्तमानं हिरण्यगर्भं, व्यपश्यत - सङ्कल्पमात्रेण व्यलोकयत् । सङ्ककल्पमात्रेण संसृष्टवानित्यर्थः । एतद्वै तत् पूर्ववदर्थः ।
यद्वा पूर्वं व्यष्टिसृष्टेः प्राक् अद्भयः - अण्डात्मना परिणताभ्यः, योऽजायत । तथा च स्मर्यते - ‘अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । ' ( मनुस्मृतिः - १.८, ९) इति । तं तपसो जातम् - स्वसङ्कल्पमात्राज्जातम् । पूर्वम् - प्रथमम् व्यष्ट्यपेक्षया गुहां प्रविश्य तिष्ठन्तम् तदीयहृदयगुहायां वर्तमानम् । भूतेभिः - देहेन्द्रियान्तःकरणादिभिरुपलक्षितं व्यपश्यत - व्यष्टिसृष्टिद्वारतयैक्षत, यत्सङ्कल्पाद्धिरण्यगर्भः स्रष्टा भवति इति यावत् ॥६॥
॥ आङ्गल-अर्थः ॥
He is the seer that seeth Him who came into being before austerity and was before the waters; deep in the heart of the creature he seeth Him, for there He standeth by the mingling of the elements. This is the thing thou seekest.
॥ हिन्दी-अर्थः ॥
''सत्य-द्रष्टा ऋषि वह है जो 'उसे' देखता है जिसका तपस् के पूर्व प्रादुर्भाव हुआ, जो जलों से भी पूर्व विद्यमान था; वह 'उसे' प्राणियों की गंभीर हृद्गुहा में देखता है कारण, वहाँ 'वह' भूतग्राम (पचभूतो) सहित स्थित रहता है। यही है 'वह', जिसकी तुम्हें अभीप्सा है।
॥ शब्दावली ॥
यः - yaḥ - he who
तपसः पूर्वम् - tapasaḥ pūrvam - before austerity
जातम् - jātam - came into being
अद्भ्यः पूर्वम् - adbhyaḥ pūrvam - before the waters
अजायत - ajāyata - came into being
गुहाम् - guhām - deep in the heart of the creature
प्रविश्य - praviśya - having entered
भूतेभिः - bhūtebhiḥ - by the mingling of the elements
तिष्ठन्तम् - tiṣṭhantam - standeth
यः - yaḥ - he
व्यपश्यत - vyapaśyata - seeth
एतत् वै तत् - etat vai tat - this is the thing thou seekest
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know