अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्। तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥
॥ लिप्यन्तरणम् ॥
anejadekaṁ manaso javīyo nainaddevā āpnuvan pūrvamarṣat | taddhāvato'nyānatyeti tiṣṭhat tasminnapo mātariśvā dadhāti ||
॥ अन्वयः ॥
तत् एकम् अनेजत् मनसः जवीयः देवाः एनत् न आप्नुवन् यस्मात् पूर्वं अर्षत्। तत् तिष्ठत् धावतः अन्यान् अत्येति। तस्मिन् सति मातरिश्वा अपः दधाति ॥
॥ अन्वयलिप्यन्तरणम् ॥
(tat) ekam anejat manasaḥ javīyaḥ deevāḥ enat na āpnuvan (yasmāt) pūrvaṁ arṣat| tat tiṣṭhat dhāvataḥ anyān atyeti| tasmin (sati) mātariśvā apaḥ dadhāti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
विरोधाभासमुखेन ब्रह्मणो वैलक्षण्यं दर्शयति - अनेजदिति ।
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥
अनेजत्, मनसो जवीय:, अत एवैकं पूर्वमर्षत्, एनद्देवा नाप्नुवन्, तत्तिष्ठदेव धावतोऽन्यानत्येति, तस्मिन्नवस्थितो मातरिश्वाऽपो दधाति । अनेजत् - 'एजृ कम्पने' (पाणिनीयधातुपाठः - २३४), अकम्पमानमित्यर्थः, अकम्पमानमपि मनसो जवीयः - वेगवत्, न हि मनोवेगस्याप्यगोचरं नाम किमपि ब्रह्म तु तस्याप्यगोचरं तदुपचर्यते ततो जवीय इति । अधिकजवो मन्दजवेन न खलु गृह्यते ।
यद्वा - वेगस्य प्रयोजनं हि प्राक्सन्निधिः । यावन्मनः सङ्ककल्पवेगेन क्वचित्सन्निधत्ते, तत्र देशे प्रागेव ब्रह्मतत्त्वं सन्निहितं विभुत्वात्, तदुच्यते - मनसो जवीय इति । पूर्वमर्षत् प्रागेव प्राप्तम्, एनत् - ब्रह्म, देवा: - ब्रह्मादयः, नाप्नुवन् - नाधिगतवन्तः । प्रथमत एव देशविशेषप्राप्तं पश्चात्तं देशमभिगन्तारो हि लभन्ते, सर्वदैवान्तर्यामिस्वरूपेण सन्निहितमेतद्ब्रह्म तु पश्चात्तना ब्रह्मादयो न जानन्त्यविद्यान्धाः, तद्यथा “ हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्त" इति भावः ।
तद्ब्रह्म धावतोऽन्यान् गरुडादीनप्यत्येति - अतिक्रामति । यतो यतो धावेत्कश्चित्ततस्ततः परस्तादपीदं ब्रह्मतत्त्वं व्यापृतमिति भावः । तस्मिन्निति । तस्मिन्ब्रह्मणि, अवस्थित इति शेषः । मातरिश्वा - वायु:, अपः - इदमुपलक्षणम्, महीमहार्णवादिकमखिलं दधाति - धत्ते, इदमप्याश्चर्यं यत् वायुस्तस्मिन्ब्रह्मणि, स च धारणानुगुणकाठिन्यरहितोऽपि भुवनं धत्त इति । ब्रह्मावधृतो वायुस्तदाहितशक्तिको जगद्धत्त इति भावः । तथा च वचनं "द्यौस्सचन्द्रार्कनक्षत्रा: खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥" (महाभारत.अनु.१५६) इति । अनेन विचित्रशक्तियोगो दर्शितः।
यद्वा प्रथममन्त्रे व्यापकतया वर्णितस्येशस्य व्याप्याद्वैलक्षण्यमाह - अनेजदिति । व्याप्यमिदं जगत्कम्पमानं स्वरूपात्स्वभावाद्वा प्रच्यवत्, व्यापकं ब्रह्म तु स्वरूपतस्स्वभावतो वा न कम्पते न च्यवतीत्यर्थः । स्वरूपतः स्वभावतो वा न विकरोतीत्येतत् । व्याप्यमिदं जगन्नाना, व्यापकं तु ब्रह्म एकम् - सजातीयद्वितीयरहितम् । न च व्याप्ये जगति मनसोऽप्यगोचरं नाम किञ्चित्, व्यापकं तु ब्रह्म मनसोऽप्यगोचरम् अपरिच्छिन्नत्वात् । तदिदमुच्यते मनसो जवीय इति । पूर्वमर्षत् वेगवतो मनसः पूर्वमेव, अर्षत् - गतम्, ततोऽपि वेगवत्, तस्याप्यगोचरमित्युक्तं भवति, एनत् - ईदृशं ब्रह्म, देवाः - इन्द्रियाणि, नाप्नुवन् नाध्यगच्छन् । मनसोऽगोचरे तस्मिन्निन्द्रियाणां का वार्तेति भावः । तत् - ब्रह्म, तिष्ठत् - क्वचित् स्थितमेव, तद्देशे संबद्धं सदेवेति यावत्, ततो धावतोऽन्यानत्येति - अतिक्रम्य वर्तते, व्यवहितदूरदेशसम्बन्धि भवतीति यावत् । इदं हि परिच्छिन्नस्य न घटते, तत्सर्वदेशसम्बन्धित्वरूपं विभुत्वं वैलक्षण्यमुक्तम् । मातरिश्वाऽपो दधातीति यत्, तदपि तस्मिन् - निरवलम्बे आकाशे पाथः प्रभृति बिभर्तीत्येतदपि वस्तुतस्सर्वात्मनि तस्मिन्नेव । सर्वाऽपि विधरणशक्तिस्तस्मिन्नेवेति यावत् । एतेन व्याप्तेः फलं विधरणमुक्तम् ।
यद्वा मातरिश्वाऽपो दधातीति यत्तदपि तस्मिन्नीश्वरे सति । ईशितुर्भयाद्वायुरिदं ग्रहनक्षत्रादिकमप्रकीर्णं धत्ते । 'भीषाऽस्माद्वातः पवते' (तैत्तिरीयोपनिषद् आनन्दवल्ली - ३२) इति श्रुतेरिति भावः ॥४॥
॥ आङ्गल-अर्थः ॥
One unmoving that is swifter than Mind, That the Gods reach not, for It progresses ever in front. That, standing, passes beyond others as they run. In That the Master of Life establishes the Waters.
॥ हिन्दी-अर्थः ॥
वह अचल, अचलायमान एकमेव ब्रह्म मन से वेगवत्तर, अत्यधिक वेगवाला है। उस एकमेव तक देवता नहीं पहुँच पाते, क्योंकि वह सदैव उनसे आगे-आगे पहुँच जाता है पहुँचा होता है। वह ठहरा हुआ भी दौड़ते हुए दूसरों को पार कर आगे निकल जाता है। उस तत् में जीवन-शक्ति का स्वामी वायु जलधाराओं को स्थापित करता है।
॥ शब्दावली ॥
तत् - (tat) - That
एकम् - ekam - one
अनेजत् - anejat - unmoving
मनसः - manasaḥ - than Mind
जवीयः - javīyaḥ - swifter
यस्मात् - yasmāt - for
पूर्वम् - pūrvam - ever in front
अर्षत् - arṣat - progresses
देवाः - devāḥ - Gods
एनत् - enat - It
न - na - not
आप्नुवन् - āpnuvan - reach
तत् - tat - That
तिष्ठत् - tiṣṭhat - standing
धावतः - dhāvataḥ - as they run
अन्यान् - anyān - others
अत्येति - atyeti - passes beyond
तस्मिन् - tasmin - in That
मातरिश्वा - mātariśvā - the Master of Life
अपः - apaḥ - the Waters
दधाति - dadhāti - establishes
॥ अथ उपनिषद् ॥
.jpeg)
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know