ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥
व्याख्या:
कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥
व्याख्या:
असूर्या नाम ते लोका अन्धेन तमसावृताः।तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥
व्याख्या:
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।
तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ॥
व्याख्या:
तदेजति तन्नैजति तद् दूरे तद्वन्तिके।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥
व्याख्या:
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥
व्याख्या:
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥
व्याख्या:
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः
तदेजति तन्नैजति तद् दूरे तद्वन्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥
॥ लिप्यन्तरणम् ॥
tadejati tannaijati tad dūre tadvantike | tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ||
॥ अन्वयः ॥
तत् एजति। तत् न एजति। तत् दूरे। तत् उ अन्तिके। एतत् अस्य सर्वस्य अन्तः। तत् उ सर्वस्य अस्य वाह्यतः ॥
॥ अन्वयलिप्यन्तरणम् ॥
tat ejati | tat na ejati| tat dūre| tat u antike| etat asya sarvasya antaḥ| tat u sarvasya asya vāhyataḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
उक्तमेवार्थं मुखान्तरेणोपदिशति - तदेजतीति ।
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥५॥
स्वयं चलति न चलति च । विभुत्वान्न चलति चलनफलव्याप्तिमत्वाच्चलतीत्युक्तिः । दूरे चान्तिके च - अन्तरात्मतया सर्वदेशव्यापित्वात् । तत् - ब्रह्म, सर्वस्यान्तर्बहिश्च । 'अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित:' ( तैत्तिरीयनारायणोपनिषद् - ९४ ) इति श्रुते: । इदमखिलं वैलक्षण्यज्ञापकम् । न हि लौकिकः कश्चिच्चलति न चलतीत्याद्युक्तस्वभावः ।
यद्वा - एजति चलति स्वतनुभूतेनाऽनेन जङ्गमेन, नैजति स्वरूपतो न चलति । एजति स्वासाधारणदिव्यमङ्गलविग्रहेण चलति । नैजति - स्वरूपान्न च्यवतीति वा । तद्दूरे - अविदुषां दूरे, अगोचरमिति यावत् तद्वन्तिके तदेव विदुषां समीपे, गोचर इत्येतत् । अन्यद्यथाव्याख्यातम् ॥५॥
॥ आङ्गल-अर्थः ॥
That moves and That moves not; That is far and the same is near; That is within all this and That also is outside all this.
॥ हिन्दी-अर्थः ॥
वह गति करता है और गति नहीं भी करता; वह दूर है और पास भी है; इस सबके भीतर है और इस सबके बाहर भी है।
॥ शब्दावली ॥
तत् - tat - That
एजति - ejati - moves
तत् - tat - That
न एजति - na ejati - moves not
तत् - tat - That
दूरे - dūre - is far
तत् - tat - That
उ - u - also
अन्तिके - antike - is near
एतत् - etat - That
अस्य सर्वस्य - asya sarvasya - all this
अन्तः - antaḥ - within
तत् - tat - That
उ - u - also
सर्वस्य अस्य - sarvasya asya - all this
वाह्यतः - vāhyataḥ - outside
.jpeg)
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know