विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं सह। अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥
॥ लिप्यन्तरणम् ॥
vidyāñcāvidyāñca yastadvedobhayaṁ saha | avidyayā mṛtyuṁ tīrtvā vidyayā'mṛtamaśnute ||
॥ अन्वयः ॥
यः विद्यां च अविद्यां च तत् उभयं सह वेद अविद्यया मृर्युं तीर्त्वा विद्यया अमृतम् अश्नुते ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ vidyāṁ ca avidyāṁ ca tat ubhayaṁ saha veda avidyayā mṛryuṁ tīrtvā vidyayā amṛtam aśnute ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ कर्मज्ञानयोगयोरङ्गाङ्गिभावेन अनुष्ठानं तत्फलं च ]
तदेव विवृणोति - विद्याञ्चेति ।
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥११॥
विद्यां चाविद्यां च - कर्मज्ञानमुभयमपि, यः सह वेद - साहित्यमेकफलकत्वमङ्गाङ्गिभावेन वेदेति यावत् । सः, अविद्यया - कर्मणा, मृत्युम् - विद्याविरोधिपापम्, तीर्त्वा सन्तीर्य, विद्यया लब्धेनोपासनेन, अमृतं - मोक्षम् अश्रुते ॥११॥
॥ आङ्गल-अर्थः ॥
He who knows That as both in one, the Knowledge and the Ignorance, by the Ignorance crosses beyond death and by the Knowledge enjoys Immortality.
॥ हिन्दी-अर्थः ॥
जो तत् को इस रूप में जानता है कि वह एक साथ विद्या और अविद्या दोनों है, वह अविद्या से मृत्यु को पार कर विद्या से अमरता का आस्वादन करता है।
॥ शब्दावली ॥
यः - yaḥ - he who
विद्याम् - vidyām - the Knowledge
च - ca - and
अविद्याम् - avidyām - the Ignorance
तत् - tat - That
उभयम् - ubhayam - as both
सह - saha - in one / together
वेद - veda - knows
अविद्यया - avidyayā - by the Ignorance
मृत्युं - mṛryum - death
तीर्त्वा - tīrtvā - crosses beyond
विद्यया - vidyayā - by the Knowledge
अमृतम् - amṛtam - Immortality
अश्नुते - aśnute - enjoys
.jpeg)
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know