अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते। ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥
॥ लिप्यन्तरणम् ॥
andhaṁ tamaḥ praviśanti ye'sambhūtimupāsate | tato bhūya iva te tamo ya u sambhūtyāṁ ratāḥ ||
॥ अन्वयः ॥
ये असम्भूतिम् उपासते ते अन्धं तमः प्रविशन्ति। ये उ सम्भूत्या रताः ते ततः भूयः इव तमः प्रविशन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
ye asambhūtim upāsate te andhaṁ tamaḥ praviśanti| ye u sambhūtyā ratāḥ te tataḥ bhūyaḥ iva tamaḥ ( praviśanti ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
उक्तमेव ज्ञानकर्मणोरङ्गाङ्गिभावं पुनराह - अन्धं तम इति ।
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥१२॥
अन्यदेवाहुस्सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥
सम्भूतिञ्च विनाशञ्च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥१४॥
न हि जामिता श्रुतीनाम् सम्भूतिरित्युत्पादविनाशशालि कर्म बोध्यते, असम्भूतिरिति तच्छून्यमात्मस्वरूपमुच्यते । येऽसम्भूतिमुपासते - किमेभिः कर्मभिः, नित्यात्मस्वरूपमेव वयं । चिन्तयाम इति ये मुमुक्षामात्रेणावधूय कर्म केवलज्ञाननिष्ठायां प्रवर्तन्ते, तेऽन्धं तमः प्रविशन्ति ज्ञाननिष्ठाऽसिध्या संसारमेव प्राप्नुवन्ति । ये सम्भूत्याम्, उकार एवार्थः, सम्भूत्यामेव केवलकर्मण्येव रताः, ते ततो भूय अन्धं तमः प्रविशन्ति विषयव्याकुलचित्ततया नरकमपि प्राप्नुवन्ति । सम्भवात् - केवलकर्मतः, अन्यदेव मोक्षसाधनमाहुः; असम्भवात् - आत्मन उपास्यमानात्, आत्मोपासनादित्येतत्, केवलात्मोपासनादिति भावः, अन्यदेवाहुः मोक्षसाधनमाहुः; इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे - व्याख्यातम् । सम्भूतिं च विनाशञ्च यस्तद्वेदोभयं सह सम्भूतिमित्यवर्णलोपेन निर्देश:, असम्भूतिम् - आत्मोपासनम्, ज्ञाननिष्ठामित्येतत्, विनाशशब्देनोत्पादशब्देनाभिसंहितं कर्मोच्यते, ज्ञानं कर्म चेत्यर्थः, यस्तद्वेदोभयं सह - अङ्गाङ्गिभावेन वेद । विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते - व्याख्यातप्रायम् ।
अन्यथापि योजनान्तरम्
यद्वा एवं मुक्तिसाधनं परमात्मोपासनं कर्मयोगाङ्गकमुक्तम्, अथोपासकेन फलपर्वणोः प्रतिबन्धनिवृत्तिब्रह्मप्राप्त्योरुभयोरप्यनुसन्धानं कर्तव्यमिति वक्ष्यन्नादावेकैकमात्रानुसन्धानं निन्दति - अन्धमिति । 'धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि' (छांदोग्योपनिषद् - ८.१३.१) इत्यत्राभिहिता प्राप्तिः सम्भूतिः, ततोऽन्याऽसंभूतिः, अब्राह्मण इत्यादौ यथा ब्राह्मणादन्य: क्षत्रियः सान्निध्यादुपस्थाप्यते तथा प्रकृते ब्रह्मप्राप्तेरन्या तत्सन्निहिता पूर्वभाविनी प्रतिबन्धकनिवृत्तिरूपात्यन्तिकप्रकृतिनिवृत्तिरसंभूतिशब्देन बोध्यते, तामेव ये उपासते - ये प्रकृतिसंबन्धनिवृत्तिमात्रं फलतया चिन्तयन्ति, न ब्रह्मप्राप्तिम्, तेऽन्धं तमः प्रविशन्ति - ब्रह्मानुभवरहितं कैवल्यं विशन्ति, ब्रह्मानुभवाभावात्तदन्धं तम इत्युपचर्यते । ये आत्यन्तिकप्रकृतिविनिर्मोकचिन्तनं विहाय केवलं ब्रह्मसंपत्तिमात्रं चिन्तयन्ति, ते कस्याप्यलाभेन जीवन्नेव मुक्तोऽस्मीति वादिन इव ततो भूय इवान्धं तमः प्रविशन्ति । उपासकस्य गतिचिन्तनं यथोपासनाङ्गं तथा - 'धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि' (छांदोग्योपनिषद् - ८.१३.१) इत्युक्तप्रकारेण प्रकृतिनिवृत्तिब्रह्मप्राप्त्युभयचिन्तनमुपासनाङ्गमिति तयोरेकचिन्तनवैधुर्येऽप्यङ्गवैकल्येनोपासनाऽसिद्ध्या पुरुषार्थालाभेनेकैकमात्रचिन्तकानां निन्दामात्रे पर्यवस्यत्यन्धं तमः प्रविशन्तीति । अन्यदेवाहुस्सम्भवात् - संभवात् - ब्रह्मप्राप्तिरूपात्फलपर्वणश्चिन्त्यमानात्, ब्रह्मप्राप्तिचिन्तनमात्रादित्यर्थः, अन्यदेव मोक्षसाधनमाहुः । असम्भवात् प्रतिबन्धकनिवृत्तिमात्राच्चिन्त्यमानात्, प्रतिबन्धकनिवृत्तिचिन्तनमात्रादित्येतत्, अन्यदेव मोक्षसाधनमाहुः । नः, तत् - मोक्षसाधनमनुसन्धानविशेषम्, विचचक्षिरे - उक्तवन्त:, तेषां धीराणां वचनं शुश्रुम । न केवलमिष्टप्राप्तिचिन्तनमनिष्टनिवृत्तिचिन्तनं वा मोक्षाय, किन्तूभयचिन्तनमपेक्षितमिति भावः । इदमेव स्फुटं कथयति - सम्भूतिं चेति । सम्भूतिम् - ब्रह्मप्राप्तिरूपं फलपर्व, विनाशम् आत्यन्तिकप्रकृतिनिवृत्तिरूपप्रतिबन्धकनिवृत्तिरूपफलपर्वान्तरम् उभयं यस्सह वेद सहानुसन्धेयत्वेन वेद। शिष्टं व्याख्यातप्रायम् ॥१२-१४॥
॥ आङ्गल-अर्थः ॥
Into a blind darkness they enter who follow after the Non - Birth, they as if into a greater darkness who devote themselves to the Birth alone.
॥ हिन्दी-अर्थः ॥
जो अजन्म, जन्माभाव की अवस्था का अनुसरण करते हैं वे घोर अन्धकार में प्रवेश करते हैं। और जो केवल जन्म, प्रकृति के अन्दर जन्म में ही रत रहते हैं वे मानो उससे भी अधिक घोर अन्धकार में प्रवेश करते हैं।
॥ शब्दावली ॥
ये - ye - they who
असम्भूतिम् - asambhūtim - the Non - Birth
उपासते - upāsate - follow after
ते - te - they
अन्धम् - andham - blind
तमः - tamaḥ - darkness
प्रविशन्ति - praviśanti - enter
ये - ye - they who
उ - u - on the other hand
सम्भूत्या - sambhūtyā - in the Birth alone
रताः - ratāḥ - are engrossed
ते - te - they
ततः - tataḥ - than that
भूयः - bhūyaḥ - than that
इव - iva - as if
तमः - tamaḥ - darkness
प्रविशन्ति - praviśanti - enter
.jpeg)
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know