Ad Code

अन्धं तमः प्रविशन्ति Expiation




अन्धं तमः प्रविशन्ति येऽविद्यामुपासते। ततो भूय इव ते तमो य उ विद्यायां रताः ॥

॥ लिप्यन्तरणम् ॥

andhaṁ tamaḥ praviśanti ye'vidyāmupāsate | tato bhūya iva te tamo ya u vidyāyāṁ ratāḥ ||

॥ अन्वयः ॥

ये अविद्याम् उपासते ते अन्धं तमः प्रविशन्ति। ये उ विद्यायां रताः ते तमः भूयः तमः इव प्रविशन्ति ॥

॥ अन्वयलिप्यन्तरणम् ॥

ye avidyām upāsate te andhaṁ tamaḥ praviśanti| ye u vidyāyāṁ ratāḥ te tamaḥ bhūyaḥ tamaḥ iva praviśanti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

केवलकर्मावलम्बिनां केवलज्ञानावलम्बिनां चानर्थमाह - अन्धं तम इति । 

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्यायां रताः ॥९॥

ये - भोगैश्वर्यप्रसक्ताः, अविद्याम् - केवलं कर्म, उपासते - एकान्तमनसाऽनुतिष्ठन्ति, ते अन्धं तमः गाढमज्ञानं प्रविशन्ति, संसारं प्रविशन्तीति यावत् । ये विद्यायाम् उ - विद्यायामेव, केवलविद्यायामेव रताः, ते, ततः - कर्मनिष्ठातः, भूयस्तमो विशन्ति - अधिकं तमः प्राप्नुवन्ति, ये कर्मणा नः किं मुमुक्षूणामिति सर्वथा कर्मावधीर्य ज्ञानयोगे यतन्ते ते सर्वथाऽनर्थभागिनो भवन्ति कर्मणस्त्यागात् ज्ञानस्य चासिद्धेरिति भावः ॥९॥

॥ आङ्गल-अर्थः ॥

Into a blind darkness they enter who follow after the Ignorance, they as if into a greater darkness who devote themselves to the Knowledge alone.

॥ हिन्दी-अर्थः ॥

जो अविद्या का अनुसरण करते हैं वे घोर अन्धकार में प्रवेश करते हैं। और जो केवल विद्या में ही रत रहते हैं वे मानों उससे भी अधिक घोर अन्धकार में प्रवेश करते हैं।

॥ शब्दावली ॥

ये - ye - they who

अविद्याम् - avidyām - the Ignorance

उपासते - upāsate - follow after

ते - te - they

अन्धम् - andham - blind

तमः - tamaḥ - darkness

प्रविशन्ति - praviśanti - enter

ये - ye - they who

उ - u - on the other hand

विद्यायाम् - vidyāyām - in the Knowledge

रताः - ratāḥ - have attachment / devotion

ते - te - they

भूयः - bhūyaḥ - into a greater

तमः - tamaḥ - darkness

प्रविशन्ति - praviśanti - enter


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code