स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्। कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ॥
॥ लिप्यन्तरणम् ॥
sa paryagācchukramakāyamavraṇamasnāviraṁ śuddhamapāpaviddham | kavirmanīṣī paribhūḥ svayambhūryāthātathyato'rthān vyadadhāt śāśvatībhyaḥ samābhyaḥ ||
॥ अन्वयः ॥
सः स्वयम्भुः पर्यगात् अकायम् अस्नाविरम् अपापविद्धं शुक्रम् अव्रणं शुद्धं कविः मनीषी परिभुः। सः याथातथ्यतः शाश्वतीभ्यः समाभ्यः अर्थान् व्यदधात् ॥
॥ अन्वयलिप्यन्तरणम् ॥
saḥ svayambhuḥ paryagāt akāyam asnāviram apāpaviddhaṁ śukram avraṇaṁ śuddhaṁ kaviḥ manīṣī paribhuḥ| (saḥ) yāthātathyataḥ śāśvatībhyaḥ samābhyaḥ arthān vyadadhāt ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
एवं सर्वप्रकारं परं ब्रह्म परमात्मानमुपासीनस्य ब्रह्मानुभवविशेषमाह - स इति ।
स पर्यगाच्छुक्रमकायमव्रणमस्त्राविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥
सः - सर्वभूतान्तरात्मभूतब्रह्मदर्शी, शुक्रम् - स्वप्रकाशरूपम्, अकायम् - प्राकृतकायशून्यम्, अतएवाव्रणम् व्रणशून्यम्, अक्षतमिति यावत् । अस्नाविरम् - स्नायुशून्यम्, शुद्धम् - अशनायादिदोषरहितम्, अपापविद्धम् - पुण्यपापरूप - कर्मभिरनालीढम् एवम्भूतं परं ब्रह्म पर्यगात् - समाधिदशायां परितः प्राप्तवान्, सर्वतस्तमेवान्तर्यामिणमनुबभूवेति यावत् । 'अत्र ब्रह्म समश्नुते' (कठोपनिषद् - ६.६४ ) इतिवत्सिद्धानुवादः । स ब्रह्मविदेवम्भूतश्चेत्याहोत्तरार्धेन । कविः क्रान्तदर्शी, मनीषी - मनस ईशित्री बुद्धिर्मनीषोच्यते तद्वान्, निगृहीतान्तःकरण इत्येतत् । परिभूः परिभवत्यरिषड्वर्गमिति परिभूः विजितारिषड्वर्गः । स्वयम्भूः - इतरनिरपेक्ष: । शाश्वतीभ्यः समाभ्यः यावद्विद्यानिष्पत्तिः तावच्चिरकालपर्यन्तम् । अर्थान् - उपनिषदर्थान्, व्यदधात् - मनसि विविच्य रक्षितवान् । एवंभूत उपनिषदर्थचिन्तकः सर्वभूतान्तरात्मब्रह्मोपासक उपासनवेलायां निखिलहेयप्रतिभटमखिलान्तर्यामिणं सकलकल्याणगुणाकरं ब्रह्म सर्वतस्साक्षात्कृत्यानुभवतीति भावः ।
यद्वा प्रसक्तं परमात्मानमनुवर्णयति स इति, सः - यस्सर्वान्तरात्मा, अकायमव्रणमस्नाविरं शुद्धमपापविद्धमक्षरस्वरूपमपि व्याप्य तिष्ठतीत्यर्थः । सः, याथातथ्यतः सत्यतया अर्थान् जगद्रूपान् शाश्वतीभ्यस्समाभ्यः - बहुसंवत्सरेभ्यः, चिरकालस्थायितयेति भाव: । व्यदधात् सृष्टवान् याथातथ्यत इति प्रातिभासिकत्वव्यावृत्तिः शाश्वतीभ्यस्समाभ्य इति स्वाप्नव्यावृत्तिः । ते हि सत्यभूता अपि कतिपयक्षणावस्थायिनः ॥८॥
॥ आङ्गल-अर्थः ॥
It is He that has gone abroad-That which is bright, bodiless, without scar of imperfection, without sinews, pure, unpierced by evil. The Seer, the Thinker, the One who becomes everywhere, the Self - existent has ordered objects perfectly according to their nature from years sempiternal.
॥ हिन्दी-अर्थः ॥
वह पुरुष ही सर्वत्र व्याप्त है-वह तत् जो ज्योतिर्मय, शरीर-रहित, अपूर्णता के चिह्न या दाग से शून्य, स्नायु एवं नस-नाड़ी से रहित और शुद्ध है एवं पाप से बिधा नहीं है। सर्वदर्शी, मनीषवान् वह एकमेव जो सर्वत्र सब कुछ हो जाता या बन जाता है, उस स्वयंसत् पुरुष ने ही सनातन वर्षों से, अनादि काल से सभी पदार्थों को उनके स्वभाव के अनुरूप पूर्णतया ठीक-ठीक, यथातथ रूप में व्यवस्थित कर रखा है।
॥ शब्दावली ॥
सः - saḥ - It is He
पर्यगात् - paryagāt - has gone abroad
शुक्रम् - śukram - bright
अकायम् - akāyam - bodiless
अव्रणम् - avraṇam - without scar of imperfection
अस्नाविरम् - asnāviram - without sinews
शुद्धम् - śuddham - pure
अपापविद्धम् - apāpaviddham - unpierced by evil
कविः - kaviḥ - the Seer
मनीषी - manīṣī - the Thinker
परिभूः - paribhuḥ - the One who becomes everywhere
स्वयम्भुः - svayambhuḥ - the Self - existent
शाश्वतीभ्यः समाभ्यः - śāśvatībhyaḥ samābhyaḥ - from years sempiternal.
सः - saḥ - He
याथातथ्यतः - yāthātathyataḥ - perfectly according to nature or truth
अर्थान् - arthān - objects
व्यदधात् - vyadadhāt - has ordered
.jpeg)
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know