Ad Code

यस्मिन् सर्वाणि भूतानि Expiation




यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥

॥ लिप्यन्तरणम् ॥

yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ | tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ||

॥ अन्वयः ॥

यस्मिन् विजानतः आत्मा एव सर्वाणि भूतानि अभूत्। तत्र एकत्वम् अनुपश्यतः कः मोहः कः शोकः ॥

॥ अन्वयलिप्यन्तरणम् ॥

yasmin vijānataḥ ātmā eva sarvāṇi bhūtāni abhūt| tatra ekatvam anupaśyataḥ kaḥ mohaḥ kaḥ śokaḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ शरीरात्मविवेकपूर्वकं क्रियमाणध्यानस्य फलम् ]

उक्तब्रह्मात्मकत्वोपासनस्य सद्यः शोकापनोदकत्वमाह - यस्मिन्निति । 

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।

तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥७॥

विजानतः - विविच्य वस्तुतत्वं जानतः, यस्मिन् - उपासनसमये, आत्मैव सर्वमभूत् - न हि सर्वे विविच्य वस्तु जानन्ति केचन देहमेवात्मानं जानन्ति केचन देहादिविलक्षणं कर्तारं भोक्तारं प्रतिशरीरमप्यन्यान्यं केवलं प्रत्यगात्मानं स्वतन्त्रं यस्तु तानप्याविश्य सर्वात्मना धत्ते नियमयति च तमेकमखिलस्याप्यात्मानं सर्वतस्स्वतन्त्रं न जानन्ति, अखिलं चेदं सचेतनं तदेकधार्यं तच्छरीरमिति च न जानन्ति, कश्चिदेव तु जानातीदृशं शरीरात्मविवेकं शास्त्रतः, यदा च विजानाति तदा तमेवाद्वितीयं स्वतन्त्रमात्मानं सर्वभूतप्रकारमुपासीत, सर्वेषामेव तच्छरीरतया प्रकारत्वेनावगमात् । एवमनुध्यायतो न हि परमात्मनोऽन्यत्स्वतन्त्रं प्रतीयेत, यस्मिन्समय एवं विदितमभूत्, तस्मिन्समय उक्तरीत्या शरीरिण एकत्वमनुपश्यतः को मोह, अहं ममेति स्वतन्त्रात्मभ्रमाप्रसक्त्या तन्मूलमोहशोकादेरनवकाश इति भावः ॥७॥

॥ आङ्गल-अर्थः ॥

He in whom it is the Self - Being that has become all existences that are Becomings, for he has the perfect knowledge, how shall he be deluded, whence shall he have grief who sees everywhere oneness ?

॥ हिन्दी-अर्थः ॥

पूर्ण ज्ञान, विज्ञान से सम्पन्न होने के कारण जिस मनुष्य के अन्दर यह परमोच्च चेतना जाग गयी है कि स्वयम्भू आत्मसत्ता ही, परम आत्मा ही स्वयं सभी भूत, सभी सत्ताएं या सम्भूतियां बना है, उस मनुष्य में फिर मोह कैसे होगा, शोक कहां से होगा जो सर्वत्र आत्मा की एकता ही देखता है।

॥ शब्दावली ॥

यस्मिन् - yasmin - in whom

आत्मा - ātmā - the Self - Being

एव - eva - indeed

सर्वाणि भूतानि - sarvāṇi bhūtāni - all existences that are Becomings

अभूत् - abhūt - has become

विजानतः - vijānataḥ - of him who has the perfect knowledge

एकत्वम् अनुपश्यतः - ekatvam anupaśyataḥ - of him who sees everywhere oneness

तत्र - tatra - there

कः मोहः - kaḥ mohaḥ - how shall be delusion

कः शोकः - kaḥ śokaḥ - shall be grief


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code