Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

Explanation




ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्‌। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्‌ ॥

॥ लिप्यन्तरणम् ॥

īśā vāsyamidaṁ sarvaṁ yatkiñca jagatyāṁ jagat | tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ||

॥ अन्वयः ॥

जगत्यां यत् किं च जगत् अस्ति इदं सर्वम् ईशा वास्यम्। तेन त्यक्तेन भूञ्जीथाः। कस्यस्वित् धनं मा गृधः ॥

॥ अन्वयलिप्यन्तरणम् ॥

jagatyāṁ yat kiṁ ca jagat ( asti ) idaṁ sarvam īśā vāsyam| tena tyaktena bhūJñīthāḥ| kasyasvit dhanaṁ mā gṛdhaḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

ईशावास्योपनिषत्

स्वामिनारायणमूलभाष्यसमेता

शान्तिपाठः

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

उपोद्घातः

वेदास्स्तोतुं प्रवृत्ता यदनवधिमहानन्दमालक्ष्य दूरात् प्रत्यावर्तन्त सर्गस्थितिलयमखिलस्याऽस्य येनामनन्ति ।

स्थाने दिव्येऽक्षरे यो निवसति सततं नित्यमुक्तानुषक्तः सोऽयं कृष्णः कृपालुस्स्वयमवति निजान्स्वामिनारायणो नः ॥१॥

विश्वात्मानमनन्तं व्याकृतदेवादिविविधभेदं तम् । कल्याणगुणनिकेतं कृष्णं वन्दे क्षराक्षरातीतम् ॥२॥

स्मृत्वा चरणसरोजे सहजानन्दस्य भगवतस्साक्षात् । श्रुतिशिरसामहमधुना तनोमि विवृतिं सुबोधिनीं सरलाम् ॥३॥

ईशोपनिषत्सारः

स जयति विश्वव्यापी कर्मभिरखिलैस्समाराध्यः । अनवद्यमङ्गलगुणो विचित्रशक्तिः श्रुतः श्रुतिषु ॥४॥

असौ यः पुरुषः पूषा येन व्याप्तमिदं जगत् । स ईशः सत्यधर्मैकदृष्टये नस्तमो ह्रियात् ॥५॥

अवतारिका

इयमुपनिषदुपदेशरूपा, उपदेशश्च ब्रह्मविद्यामधिकृत्य । तदुक्तमभियुक्तैः "ईशा वास्यमिदं सर्वमित्यादि यदनूच्यते । शिष्यं प्रति गुरोरेतद्ब्रह्मविद्यानुशासनम् " इति । स्वतन्त्रात्मताभ्रमनिवृत्तये सर्वस्य ब्रह्मात्मकतां मुमुक्षानुरूपां वृत्तिमप्युपदिशति - ईशेति । 

ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥१॥

जगत्यां यत्किञ्च जगत्, इदं सर्वमीशा वास्यं तेन त्यक्तेन भुञ्जीथाः, कस्यस्विद्धनं मा गृधः । जगत्याम् - लोके, यत्किञ्च जगत् - यत्किञ्च चराचरं, चिदचिज्जातं वा, सर्वमिदम्, ईशा - ईष्ट  इति ईट्, असंकोचतस्सर्वनियन्ता, तेन वास्यम् - व्याप्यं तेन सर्वनियामकेन त्यक्तेन - दत्तेन (लाक्षणिकोऽयमर्थः) भुञ्जीथा: - शास्त्राविरुद्धं भोगं कुरु, कस्यस्विद्धनम् - कस्यापि द्रव्यं, मा गृधः - माकांक्षीरित्यर्थः । चेतनाचेतनयोरेकं स्वभावेन अन्यत्तु स्वरूपेणान्यथात्वं गच्छतीति चेतनाचेतनं जगदित्युच्यते ।

यद्वा त्यक्तेन तेनेति विशेष्यविशेषणभावेनान्वयः । दोषानुचिन्तनेन त्यक्तेन तेन भोग्यभूतेन वस्तुनोपलक्षितस्सन् भुञ्जीथाः । भोग्यजातं दोषानुचिन्तनेन त्यक्त्वा यावद्देहधारणोपयोगि शास्त्राविरुद्धं भुञ्जीथा इति भावः ।

यद्वा - मा गृधः सर्वथाऽऽशां त्यज । ननु स्वीये धन आशा कुतस्त्याज्या ? मैवम् । कस्यस्विद्धनम् ? धनमिति भोग्यं लक्ष्यते, कस्यस्विदित्याक्षेपे, धनमिति किं कस्यचिदस्ति ? न कस्यापि किञ्चित् । तत्कुतः ? ईशा वास्यमिदं सर्वं यत्किञ्च अखिलमेव नियामकेन व्याप्तम्, अखिलमेव परंब्रह्मान्तः प्रविश्य नियमयतीति सर्वमेव तच्छरीरम् तस्मादखिलं ब्रह्मात्मकम्, तत्कस्य किं भोग्यमस्ति ? तर्हि मुमुक्षोरप्यवर्जनीयो देहधारणोपयोगी शास्त्रीयो वा भोगः कथं घटेत ? त्यक्तेन तेन भुञ्जीथा: मनसा त्यक्तेन तेनोपलक्षितस्सन्भुञ्जीथाः, अहं कर्ताऽहं भोक्तेत्याद्यभिमानं त्यक्त्वा "ब्रह्मार्पणं ब्रह्म हविः" इति न्यायेन शास्त्रीयं देहधारणोपयुक्तं भोगं भुञ्जीथा इति । ईशा वास्यमित्याभ्यामन्तः प्रविश्य नियमनं व्यज्यते ।

परमतखण्डनम्

अत्रापरे समाश्रित्य वसेराच्छादनार्थताम् । ब्रह्मणेदं जगत्सर्वमाच्छाद्यमभिमन्वते ॥१॥

नैतेन सिद्धयेन्मिथ्यात्वं सिषाधयिषितं तु यत् । न हि केनचिदाच्छन्नं मृषा भवितुमर्हति ॥२॥

सूर्यरश्मिसमाच्छन्नं नक्षत्रं किं मृषा भवेत् । शुक्तिस्वरूपे विज्ञाते रजतं बाध्यते परम् ॥३॥

ज्ञातेन तेन चेच्छन्नं तत्तु सत्यं तदा भवेत् । घृष्टचन्दनदृष्टान्तो विषमस्तु निदर्शितः ॥४॥

सलिलक्लेददौर्गन्ध्यं चन्दनांशगतं तु यत् । घृष्टांशस्य सुगन्धस्य भूयस्त्वादभिभूयते ॥५॥

आच्छाद्यं कथमीशत्वमाच्छादकनिरूपकम् । मन्यते यदि धयैक्यमीशेत्यस्वरसं तदा ॥६॥

घृष्टेन चन्दनेनेव ज्ञातेन ब्रह्मणैव हि । आच्छाद्यताऽस्य जगतो न स्वरूपसता भवेत् ॥७॥

ज्ञातेनेति पदं तावदध्याहार्यं तदा भवेत् । तस्मान्मृषात्वावगमो नैतेन स्यात्कथञ्चन ॥८॥

किन्त्वीशा स्मर्यमाणेन व्यपेतप्रत्ययान्तरम् । आच्छाद्यमिदमित्येव वस्तुतोऽर्थः प्रतीयते ॥९॥

सेयं निध्यानकाष्ठैव ध्येयान्यादर्शनं तु यत् । न वा बाधः पदार्थानां तिरोधिस्सा त्वदर्शनम् ॥१०॥१॥

॥ आङ्गल-अर्थः ॥

All this is for habitation by the Lord, whatsoever is individual universe of movement in the universal motion. By that renounced thou shouldst enjoy; lust not after any man's possession.

॥ हिन्दी-अर्थः ॥

इस वैश्व गति में, इस अत्यन्त गतिशील समष्टि-जगत् में जो भी यह दृश्यमान गतिशील, वैयक्तिक जगत् है-यह सबका सब ईश्वर के आवास के लिए है। इस सबके त्याग द्वारा तुझे इसका उपभोग करना चाहिये; किसी भी दूसरे की धन-सम्पत्ति पर ललचाई दृष्टि मत डाल।

॥ शब्दावली ॥

जगत्याम् - jagatyām - in the universal motion

यत् किम् च - yat kim ca - whatsoever

जगत् - jagat - individual universe of movement

अस्ति - ( asti ) - is

इदम् - idam - this

सर्वम् - sarvam - all

ईशा - īśā - by the Lord

वास्यम् - vāsyam - for habitation

तेन - tena - by that

त्यक्तेन - tyaktena - renounced

भूञ्जीथाः - bhūJñīthāḥ - thou shouldst enjoy

कस्यस्वित् - kasyasvit - any man's

धनम् - dhana - possession

मा गृधः - mā gṛdhaḥ - lust not after

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ