Ad Code

Explanation




ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्‌। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्‌ ॥

॥ लिप्यन्तरणम् ॥

īśā vāsyamidaṁ sarvaṁ yatkiñca jagatyāṁ jagat | tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ||

॥ अन्वयः ॥

जगत्यां यत् किं च जगत् अस्ति इदं सर्वम् ईशा वास्यम्। तेन त्यक्तेन भूञ्जीथाः। कस्यस्वित् धनं मा गृधः ॥

॥ अन्वयलिप्यन्तरणम् ॥

jagatyāṁ yat kiṁ ca jagat ( asti ) idaṁ sarvam īśā vāsyam| tena tyaktena bhūJñīthāḥ| kasyasvit dhanaṁ mā gṛdhaḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

ईशावास्योपनिषत्

स्वामिनारायणमूलभाष्यसमेता

शान्तिपाठः

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

उपोद्घातः

वेदास्स्तोतुं प्रवृत्ता यदनवधिमहानन्दमालक्ष्य दूरात् प्रत्यावर्तन्त सर्गस्थितिलयमखिलस्याऽस्य येनामनन्ति ।

स्थाने दिव्येऽक्षरे यो निवसति सततं नित्यमुक्तानुषक्तः सोऽयं कृष्णः कृपालुस्स्वयमवति निजान्स्वामिनारायणो नः ॥१॥

विश्वात्मानमनन्तं व्याकृतदेवादिविविधभेदं तम् । कल्याणगुणनिकेतं कृष्णं वन्दे क्षराक्षरातीतम् ॥२॥

स्मृत्वा चरणसरोजे सहजानन्दस्य भगवतस्साक्षात् । श्रुतिशिरसामहमधुना तनोमि विवृतिं सुबोधिनीं सरलाम् ॥३॥

ईशोपनिषत्सारः

स जयति विश्वव्यापी कर्मभिरखिलैस्समाराध्यः । अनवद्यमङ्गलगुणो विचित्रशक्तिः श्रुतः श्रुतिषु ॥४॥

असौ यः पुरुषः पूषा येन व्याप्तमिदं जगत् । स ईशः सत्यधर्मैकदृष्टये नस्तमो ह्रियात् ॥५॥

अवतारिका

इयमुपनिषदुपदेशरूपा, उपदेशश्च ब्रह्मविद्यामधिकृत्य । तदुक्तमभियुक्तैः "ईशा वास्यमिदं सर्वमित्यादि यदनूच्यते । शिष्यं प्रति गुरोरेतद्ब्रह्मविद्यानुशासनम् " इति । स्वतन्त्रात्मताभ्रमनिवृत्तये सर्वस्य ब्रह्मात्मकतां मुमुक्षानुरूपां वृत्तिमप्युपदिशति - ईशेति । 

ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥१॥

जगत्यां यत्किञ्च जगत्, इदं सर्वमीशा वास्यं तेन त्यक्तेन भुञ्जीथाः, कस्यस्विद्धनं मा गृधः । जगत्याम् - लोके, यत्किञ्च जगत् - यत्किञ्च चराचरं, चिदचिज्जातं वा, सर्वमिदम्, ईशा - ईष्ट  इति ईट्, असंकोचतस्सर्वनियन्ता, तेन वास्यम् - व्याप्यं तेन सर्वनियामकेन त्यक्तेन - दत्तेन (लाक्षणिकोऽयमर्थः) भुञ्जीथा: - शास्त्राविरुद्धं भोगं कुरु, कस्यस्विद्धनम् - कस्यापि द्रव्यं, मा गृधः - माकांक्षीरित्यर्थः । चेतनाचेतनयोरेकं स्वभावेन अन्यत्तु स्वरूपेणान्यथात्वं गच्छतीति चेतनाचेतनं जगदित्युच्यते ।

यद्वा त्यक्तेन तेनेति विशेष्यविशेषणभावेनान्वयः । दोषानुचिन्तनेन त्यक्तेन तेन भोग्यभूतेन वस्तुनोपलक्षितस्सन् भुञ्जीथाः । भोग्यजातं दोषानुचिन्तनेन त्यक्त्वा यावद्देहधारणोपयोगि शास्त्राविरुद्धं भुञ्जीथा इति भावः ।

यद्वा - मा गृधः सर्वथाऽऽशां त्यज । ननु स्वीये धन आशा कुतस्त्याज्या ? मैवम् । कस्यस्विद्धनम् ? धनमिति भोग्यं लक्ष्यते, कस्यस्विदित्याक्षेपे, धनमिति किं कस्यचिदस्ति ? न कस्यापि किञ्चित् । तत्कुतः ? ईशा वास्यमिदं सर्वं यत्किञ्च अखिलमेव नियामकेन व्याप्तम्, अखिलमेव परंब्रह्मान्तः प्रविश्य नियमयतीति सर्वमेव तच्छरीरम् तस्मादखिलं ब्रह्मात्मकम्, तत्कस्य किं भोग्यमस्ति ? तर्हि मुमुक्षोरप्यवर्जनीयो देहधारणोपयोगी शास्त्रीयो वा भोगः कथं घटेत ? त्यक्तेन तेन भुञ्जीथा: मनसा त्यक्तेन तेनोपलक्षितस्सन्भुञ्जीथाः, अहं कर्ताऽहं भोक्तेत्याद्यभिमानं त्यक्त्वा "ब्रह्मार्पणं ब्रह्म हविः" इति न्यायेन शास्त्रीयं देहधारणोपयुक्तं भोगं भुञ्जीथा इति । ईशा वास्यमित्याभ्यामन्तः प्रविश्य नियमनं व्यज्यते ।

परमतखण्डनम्

अत्रापरे समाश्रित्य वसेराच्छादनार्थताम् । ब्रह्मणेदं जगत्सर्वमाच्छाद्यमभिमन्वते ॥१॥

नैतेन सिद्धयेन्मिथ्यात्वं सिषाधयिषितं तु यत् । न हि केनचिदाच्छन्नं मृषा भवितुमर्हति ॥२॥

सूर्यरश्मिसमाच्छन्नं नक्षत्रं किं मृषा भवेत् । शुक्तिस्वरूपे विज्ञाते रजतं बाध्यते परम् ॥३॥

ज्ञातेन तेन चेच्छन्नं तत्तु सत्यं तदा भवेत् । घृष्टचन्दनदृष्टान्तो विषमस्तु निदर्शितः ॥४॥

सलिलक्लेददौर्गन्ध्यं चन्दनांशगतं तु यत् । घृष्टांशस्य सुगन्धस्य भूयस्त्वादभिभूयते ॥५॥

आच्छाद्यं कथमीशत्वमाच्छादकनिरूपकम् । मन्यते यदि धयैक्यमीशेत्यस्वरसं तदा ॥६॥

घृष्टेन चन्दनेनेव ज्ञातेन ब्रह्मणैव हि । आच्छाद्यताऽस्य जगतो न स्वरूपसता भवेत् ॥७॥

ज्ञातेनेति पदं तावदध्याहार्यं तदा भवेत् । तस्मान्मृषात्वावगमो नैतेन स्यात्कथञ्चन ॥८॥

किन्त्वीशा स्मर्यमाणेन व्यपेतप्रत्ययान्तरम् । आच्छाद्यमिदमित्येव वस्तुतोऽर्थः प्रतीयते ॥९॥

सेयं निध्यानकाष्ठैव ध्येयान्यादर्शनं तु यत् । न वा बाधः पदार्थानां तिरोधिस्सा त्वदर्शनम् ॥१०॥१॥

॥ आङ्गल-अर्थः ॥

All this is for habitation by the Lord, whatsoever is individual universe of movement in the universal motion. By that renounced thou shouldst enjoy; lust not after any man's possession.

॥ हिन्दी-अर्थः ॥

इस वैश्व गति में, इस अत्यन्त गतिशील समष्टि-जगत् में जो भी यह दृश्यमान गतिशील, वैयक्तिक जगत् है-यह सबका सब ईश्वर के आवास के लिए है। इस सबके त्याग द्वारा तुझे इसका उपभोग करना चाहिये; किसी भी दूसरे की धन-सम्पत्ति पर ललचाई दृष्टि मत डाल।

॥ शब्दावली ॥

जगत्याम् - jagatyām - in the universal motion

यत् किम् च - yat kim ca - whatsoever

जगत् - jagat - individual universe of movement

अस्ति - ( asti ) - is

इदम् - idam - this

सर्वम् - sarvam - all

ईशा - īśā - by the Lord

वास्यम् - vāsyam - for habitation

तेन - tena - by that

त्यक्तेन - tyaktena - renounced

भूञ्जीथाः - bhūJñīthāḥ - thou shouldst enjoy

कस्यस्वित् - kasyasvit - any man's

धनम् - dhana - possession

मा गृधः - mā gṛdhaḥ - lust not after

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code