अध्याय 16 रुद्र सूक्तम्

16.1

नमस् ते रुद्र मन्यव ऽ उतो त ऽ इषवे नमः ।

बाहुभ्याम् उत ते नमः ॥


16.2

या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।

तया नस् तन्वा शंतमया गिरिशन्ताभि चाकशीहि ॥


16.3

याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।

शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥


16.4

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।

यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना ऽ असत् ॥


16.5

अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।

अहीꣳश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परा सुव ॥


16.6

असौ यस् ताम्रो ऽ अरुण ऽ उत बभ्रुः सुमङ्गलः ।

ये चैनꣳ रुद्रा ऽ अभितो दिक्षु श्रिताः सहस्रशो वैषाꣳ हेड ऽ ईमहे ॥


16.7

असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।

उतैनं गोपा ऽ अदृश्रन्न् अदृश्रन्न् उदहार्यः स दृष्टो मृडयाति नः ॥


16.8

नमो ऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।

अथो ये ऽ अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥


16.9

प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।

याश् च ते हस्त ऽ इषवः ऽ परा ता भगवो वप ॥


16.10

विज्यं धनुः कपर्दिनो विशल्यो वाणवाꣳ२ऽ उत ।

अनेशन्न् अस्य याऽइषव ऽआभुर् अस्य निषङ्गधिः ॥


16.11

या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।

तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि भुज ॥


16.12

परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।

अथो य ऽइषुधिस् तवारे ऽ अस्मिन् नि धेहि तम् ॥


16.13

अवतत्य धनुष् ट्वꣳ सहस्राक्ष शतेषुधे ।

निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥


16.14

नमस् त ऽ आयुधायानातताय धृष्णवे ।

उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥


16.15

मा नो महान्तम् उत मा नो ऽ अर्भकं मा न ऽ उक्षन्तम् उत मा न ऽ उक्षितम् ।

मा नो वधीः पितरं मोत मातरं मा नः प्रियास् तन्वो रुद्र रीरिषः ॥


16.16

मा नस् तोके तनये मा न ऽ आयुषि मा नो गोषु मा नो ऽ अश्वेषु रीरिषः ।

मा नो वीरान् रुद्र भामिनो वधीर् हविष्मन्तः सदम् इत् त्वा हवामहे ॥


16.17

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः ॥


16.18

नमो बभ्लुशाय व्याधिने ऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमः ॥


16.19

नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नम ऽ उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमः ॥


16.20

नमः कृत्स्नायतया धावते सत्वनां पतये नमो नमः सहमानाय निव्याधिनऽ आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमः ॥


16.21

नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण ऽ इषुधिमते तस्कराणां पतये नमो नमः सृकायिभ्यो जिघाꣳसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यो विकृन्तानां पतये नमः ॥


16.22

नम ऽ उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम ऽ इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम ऽ आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम ऽ आयच्छद्भ्यो स्यद्भ्यश् च वो नमः ॥


16.23

नमो विसृजद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्य ऽ आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ॥


16.24

नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम ऽ आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नम ऽ उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ॥


16.25

नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ॥


16.26

नमः सेनाभ्यः सेनानिभ्यश् च वो नमो नमो रथिभ्यो ऽ अरथेभ्यश् च वो नमो नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमो नमो महद्भ्यो ऽ अर्भकेभ्यश् च वो नमः ॥


16.27

नमस् तक्षभ्यो रथकारेभ्यश् च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमो नमो निषादेभ्यः पुञ्जिष्ठेभ्यश् च वो नमो नमः श्वनिभ्यो मृगयुभ्यश् च वो नमः ॥


16.28

नमः श्वभ्यः श्वपतिभ्यश् च वो नमो नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च ॥


16.29

नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशयाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च ॥


16.30

नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्र्याय च प्रथमाय च ॥


16.31

नम ऽ आशवे चाजिराय च नमः शीघ्र्याय च शीभ्याय च नम ऽ ऊर्म्याय चावस्वन्याय च नमो नादेयाय च द्वीप्याय च ॥


16.32

नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च ॥


16.33

नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः श्लोक्याय चावसान्याय च नम ऽ उर्वर्याय च खल्याय च ॥


16.34

नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम ऽ आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च ॥


16.35

नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥


16.36

नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥


16.37

नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः कुल्याय च सरस्याय च नमो नादेयाय च वैशन्ताय च ॥


16.38

नमः कूप्याय चावट्याय च नमो वीध्र्याय चातप्याय च नमो मेध्याय च च विद्युत्याय नमो वर्ष्याय चावर्ष्याय च ॥


16.39

नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च ॥


16.40

नमः शंगवे च पशुपतये च नम ऽ उग्राय च भीमाय च नमोऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय ॥


16.41

नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥


16.42

नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमस् तीर्थ्याय च कूल्याय च नमः शष्प्याय च फेन्याय च ॥


16.43

नमः सिकत्याय च प्रवाह्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नम ऽ इरिण्याय च प्रपथ्याय च ॥


16.44

नमो व्रज्याय च गोष्ठ्याय च नमस् तल्प्याय च गेह्याय च नमो हृदय्याय च निवेष्याय च नमः काट्याय च गह्वरेष्ठाय च ॥


16.45

नमः शुष्क्याय च हरित्याय च नमः पाꣳसव्याय च रजस्याय च नमो लोप्याय चोलप्याय च नम ऽ ऊर्व्याय च सूर्व्याय च ॥


16.46

नमः पर्णाय च पर्णशदाय च नम ऽ उद्गुरमाणाय चाभिघ्नते च नम ऽ आखिदते च प्रखिदते च नम ऽ इषुकृद्भ्यो धनुष्कृद्भ्यस् च वो नमो नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम ऽ आनिर्हतेभ्यः ॥


16.47

द्रापे ऽ अन्धसस् पते दरिद्र नीललोहित ।

आसां प्रजानाम् एषां पशूनां मा भेर् मा रोङ् मो च नः किं चनाममत् ॥


16.48

इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।

यथा शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे ऽ अस्मिन्न् अनातुरम् ॥


16.49

या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी ।

शिवा रुतस्य भेषजी तया नो मृड जीवसे ॥


16.50

परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः । अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥


16.51

मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष ऽ आयुधं निधाय कृत्तिं वसान ऽ आ चर पिनाकं बिभ्रद् आ गहि ॥


16.52

विकिरिद्र विलोहित नमस् ते ऽ अस्तु भगवः ।

यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥


16.53

सहस्राणि सहस्रशो बाह्वोस् तव हेतयः ।

तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥


16.54

असंख्याता सहस्राणि ये रुद्रा ऽ अधि भूम्याम् ।

तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥


16.55

अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा ऽ अधि ।

तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥


16.56

नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा ऽ उपश्रिताः ।

तेषाꣳ सहस्रयोजनेऽव धन्वानि तन्मसि ॥


16.57

नीलग्रीवाः शितिकण्ठाः शर्वा ऽ अधः क्षमाचराः ।

तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥


16.58

ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।

तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥


16.59

ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।

तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥


16.60

ये पथां पथिरक्षस ऽ ऐलबृदा ऽ आयुर्युधः ।

तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥


16.61

ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।

तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥


16.62

ये ऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।

तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥


16.63

ये एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।

तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥


16.64

नमो ऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षम् इषवः ।

तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।

तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥


16.65

नमो ऽस्तु रुद्रेभ्यो ये ऽन्तरिक्षे येषां वात ऽ इषवः ।

तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।

तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥


16.66

नमो ऽस्तु रुद्रेभ्यो ये पृथिव्यां येषाम् अन्नम् इषवः ।

तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वाः ।

तेभ्यो नमो ऽ अस्तु ते नो ऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥