Ad Code

वैराग्यशतकम् संस्कृत

 वैराग्यशतकम् 


तृष्णादूषणम् ।


चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो

      लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।

अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन्ः

      चेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १॥


भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं

      त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला ।

भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्

      तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥ २॥


उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो

      निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः ।

मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः

      प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ ३॥


खलालापाः सोढाः कथमपि तदाराधनपरैः

      निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा ।

कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि

      त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ ४॥


अमीषां प्राणानां तुलितबिसिनीपत्रपयसां

      कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।

यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां

      कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ५॥


क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः

      सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।

ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शम्भोः पदं

      तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ ६॥


भोगा न भुक्ता वयमेव भुक्ताः

      तपो न तप्तं वयमेव तप्ताः ।

कालो न यातो वयमेव याता-

      स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ ७॥


वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।

गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ८॥


निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः

      समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।

शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने

      अहो मूढः कायस्तदपि मरणापायचकितः ॥ ९॥


आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला

      रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।

मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी

      तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ १०॥


विषयपरित्यागविडम्बना ।


न संसारोत्पन्नं चरितमनुपश्यामि कुशलं

      विपाकः पुण्यानां जनयति भयं मे विमृशतः ।

महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया

      महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ११॥


अवश्यं यातारश्चिरतरमुषित्वापि विषया

      वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।

व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः

      स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ १२॥


ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं

      यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।

सम्प्राप्तान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्

      वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ १३॥


धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतां

      आनन्दाश्रुकणान्पिबन्ति शकुना निःशङ्कमङ्केशयाः ।

अस्माकं तु मनोरथोपरचितप्रासादवापीतट-

      क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ १४॥


भिक्षाशनं तदपि नीरसमेकवारं

      शय्या च भूः परिजनो निजदेहमात्रम् ।

वस्त्रं विशीर्णशतखण्डमयी च कन्था

      हा हा तथापि विषया न परित्यजन्ति ॥ १५॥


स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ

      मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।

स्रवन्मूत्रक्लीन्नं करिवरशिरस्पर्धि जघनं

      मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १६॥


एको रागिषु राजते प्रियतमादेहार्धहारी हरो

      नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।

दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जनः

      शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ १७॥


अजानन्दाहात्म्यं पततु शलभस्तीव्रदहने

      स मीनोऽप्यज्ञानाद्वडिशयुतमश्नातु पिशितम् ।

विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्

      न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ १८॥


तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं

      क्षुधार्तः शाल्यान्नं कवलयति मांसादिकलितम् ।

प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं

      प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः ॥ १९॥


तुङ्गं वेश्म सुताः सतामभिमताः संख्यातिगाः सम्पदः

      कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः ।

मत्वा विश्वमनश्वरं निविशते संसारकारागृहे

      संदृश्य क्षणभंगुरं तदखिलं धन्यस्तु संन्यस्यति ॥ २०॥


याञ्चादैन्यदूषणम् ।


दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा

      क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।

याञ्चाभङ्गभयेन गद्गदगलत्त्रुट्यद्विलीनाक्षरं

      को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ २१॥


अभिमतमहामानग्रन्थिप्रभेदपटीयसी

      गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।

विपुलविलसल्लज्जावल्लीवितानकुठारिका

      जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ २२॥


पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालिं कपालिं

      ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।

द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो

      मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥ २३॥


गङ्गातरङ्गकणशीकरशीतलानि

      विद्याधराध्युषितचारुशिलातलानि ।

स्थानानि किं हिमवतः प्रलयं गतानि

      यत्सावमानपरपिण्डरता मनुष्याः ॥ २४॥


किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः

      प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।

वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां

      दुःखाप्तस्वल्पवित्तस्मयपवनवशान्नर्तितभ्रूलतानि ॥ २५॥


पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना

      भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।

क्षुद्राणामविवेकमूढमनसां यत्रेश्वराणां सदा

      वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ २६॥


फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां

      पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।

मृदुस्पर्शा शय्या सुललितलतापल्लवमयी

      सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २७॥


ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो

      ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।

तेषामन्तःस्फुरितहसितं वासराणि स्मरेयं

      ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ २८॥


ये सन्तोषनिरन्तरप्रमुदितास्तेषां न भिन्ना मुदो

      ये त्वन्ये धनलुब्धसंकुलधियस्तेषां न तृष्णा हता ।

इत्थं कस्य कृते कृतः स विधिना कीदृक्पदं सम्पदां

      स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ २९॥


भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो

      दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।

सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं

      शम्भोः सत्रमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ ३०॥


भोगास्थैर्यवर्णनम् ।


भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं

      माने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ।

शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं

      सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ ३१॥


आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं

      सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।

लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैः

      अस्थैर्येण विभूतयोऽप्युपहता ग्रस्तं न किं केन वा ॥ ३२॥


आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते

      लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।

जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्

      तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ ३३॥


भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः

      स्तोकान्येव दिनानि यौवनसुखस्फूर्तिः प्रियासु स्थिता ।

तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधकाः

      लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ ३४॥


भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला

      आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।

लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं

      योगे धैर्यसमाधिसिद्धसुलभे बुद्धिं विधध्वं बुधाः ॥ ३५॥


आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीः

      अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।

कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं

      ब्रह्मण्यासक्तचित्ता भवत भवभयाम्बोधिपारं तरीतुम् ॥ ३६॥


कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे

      कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।

वामाक्षीणामवज्ञाविहसितवसतिर्वृद्धभावोऽप्यसाधुः

      संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ ३७॥


व्याघ्रीव तिष्ठति जरा परितर्जयन्ती

      रोगाश्च शत्रव इव प्रहरन्ति देहम् ।

आयुः परिस्रवति भिन्नघटादिवाम्भो

      लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ३८॥


भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवः

      तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।

आशापाशशतोपशान्तिविशदं चेतः समाधीयतां

      कामोत्पत्तिवशात्स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ ३९॥


ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते

      यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः ।

भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते

      भो साधो क्षणभंगुरे तदितरे भोगे रतिं मा कृथाः ॥ ४०॥


कालमहिमानुवर्णनम् ।


सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत्

      पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।

उद्वृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः

      सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ ४१॥


यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको

      यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।

इत्थं नेयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ

      कालः कल्यो भुवनफलके क्रीडति प्राणिशारैः ॥ ४२॥


आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं

      व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।

दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते

      पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ४३॥


रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो

      धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।

व्यापारैः पुनरुक्तभूत विषयैरित्थंविधेनामुना

      संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥ ४४॥


न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये

      स्वर्गद्वारकवाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।

नारी पीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं

      मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ४५॥


नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता

      खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।

कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये

      तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ ४६॥


विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं

      शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।

आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः

      कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥ ४७॥


वयं येभ्यो जाताश्चिरपरिचिता एव खलु ते

      समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।

इदानीमेते स्मः प्रतिदिवसमासन्नपतना

      गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ४८॥


आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं

      तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।

शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते

      जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ४९॥


क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः

      क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः ।

जराजीर्णैरङ्गैर्नट इव वलीमण्डिततनुः

      नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ ५०॥


त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः

      ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।

इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं

      यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ ५१॥


अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं

      शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।

सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रोतुकामा

      मय्यप्यास्था न ते चेत्त्वयि मम नितरामेव राजन्ननास्था ॥ ५२॥


वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः

      सम इव परितोषो निर्विशेषो विशेषः ।

स तु भवतु दरिद्रो यस्य तृष्णा विशाला

      मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥ ५३॥


फलमलमशनाय स्वादु पानाय तोयं

      क्षितिरपि शयनार्थं वाससे वल्कलं च ।

नवधनमधुपानभ्रान्तसर्वेन्द्रियाणां

      अविनयमनुमन्तुं नोत्सहे दुर्जनानाम् ॥ ५४॥


अशीमहि वयं भिक्षामाशावासो वसीमहि ।

शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ५५॥


न नटा न विटा न गायका

      न च सभ्येतरवादचुञ्चवः ।

नृपमीक्षितुमत्र के वयं

      स्तनभारानमिता न योषितः ॥ ५६॥


विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा

      विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।

इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते

      कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ५७॥


अभुक्तायां यस्यां क्षणमपि न जातं नृपशतः

      भुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् ।

तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो

      विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ५८॥


मृत्पिण्डो जलरेखया वलयितः सर्वोऽप्ययं नन्वणुः

      स्वांशीकृत्य तमेव संगरशतै राज्ञां गणा भुञ्जते ।

ते दद्युर्ददतोऽथवा किमपरं क्षुद्रा दरिद्रा भृशं

      धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये ॥ ५९॥


स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं

      कपालं यस्योच्चैर्विनिहितमलंकारविधये ।

नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना

      नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ ६०॥


मनःसम्बोधननियमनम् ।


परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा

      प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।

प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगणो

      विविक्तः संकल्पः किमभिलषितं पुष्यति न ते ॥ ६१॥


परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां

      स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।

अतीतमननुस्मरन्नपि च भाव्यसंकल्पयन्

      नतर्कितसमागमाननुभवामि भोगानहम् ॥ ६२॥


एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रय

      श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् ।

स्वात्मीभावमुपैहि संत्यज निजां कल्लोललोलां गतिं

      मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ६३॥


मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ

      चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु ।

को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च

      ज्वालाग्रेषु च पन्नगेषु च सुहृद्वर्गेषु च प्रत्ययः ॥ ६४॥


चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया

      भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।

कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसी

      रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ॥ ६५॥


अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः

      पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।

यद्यस्त्वेवं कुरु भवरसास्वादने लम्पटत्वं

      नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६६॥


प्राप्ताः श्रियः सकलकामदुघास्ततः किं

      न्यस्तं पदं शिरसि विद्विषतां ततः किं ।

सम्पादिताः प्रणयिनो विभवैस्ततः किं

      कल्पस्थितास्तनुभृतां तनवस्ततः किम् ॥ ६७॥


भक्तिर्भवे मरणजन्मभयं हृदिस्थं

      स्नेहो न बन्धुषु न मन्मथजा विकाराः ।

संसर्गदोषरहिता विजना वनान्ता

      वैराग्यमस्ति किमितः परमर्थनीयम् ॥ ६८॥


तस्मादनन्तमजरं परमं विकासि

      तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।

यस्यानुषङ्गिण इमे भुवनाधिपत्य-

      भोगादयः कृपणलोकमता भवन्ति ॥ ६९॥


पातालमाविशसि यासि नभो विलङ्घ्य

      दिङ्मण्डलं भ्रमसि मानस चापलेन ।

भ्रान्त्यापि जातु विमलं कथमात्मनीनं

      न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ ७०॥


नित्यानित्यवस्तुविचारः ।


किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः

      स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।

मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं

      स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ ७१॥


यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः

      समुद्रा शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।

धरा गच्छत्यन्तं धरणिधरपादैरपि धृता

      शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ७२॥


गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः-

      दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।

वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते

      हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ ७३॥


वर्णं सितं झटिति वीक्ष्य शिरोरुहाणां

      स्थानं जरा परिभवस्य तदा पुमांसम् ।

आरोपितास्थिशतकं परिहृत्य यान्ति

      चण्डालकूपमिव दूरतरं तरुण्यः ॥ ७४॥


यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो

      यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।

आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्

      संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ७५॥


तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं

      गुणोदारान्दारानुत परिचरामः सविनयम् ।

पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान्

      न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ७६॥


दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो

      वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः ।

जरा देहं मृत्युर्हरति दयितं जीवितमिदं

      सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ ७७॥


माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि

      क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।

युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः-

      पूतग्रावगिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचित् ॥ ७८॥


रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तःस्थली

      रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।

कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं

      सर्वं रम्यमनित्यतामुपगते चित्ते न किञ्चित्पुनः ॥ ७९॥


रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गेयादिकं

      किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।

किंतु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाङ्कुर-

      च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ ८०॥


शिवार्चनम् ।


आसंसारात्त्रिभुवनमिदं चिन्वतां तात तादृ-

      ङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा ।

योऽयं धत्ते विषयकरिणीगाढगूढाभिमान-

      क्षीबस्यान्तःकरणकरिणः संयमानायलीलाम् ॥ ८१॥


यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं

      सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् ।

मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्

      न जाने कस्यैष परिणतिरुदारस्य तपसः ॥ ८२॥


जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं

      हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।

किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी

      हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥ ८३॥


महेश्वरे वा जगतामधीश्वरे

      जनार्दने वा जगदन्तरात्मनि ।

न वस्तुभेदप्रतिपत्तिरस्ति मे

      तथापि भक्तिस्तरुणेन्दुशेखरे ॥ ८४॥


स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने

      सुखासीनाः शान्तध्वनिषु रजनीषु द्युसरितः ।

भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः

      कदा यास्यामोऽन्तर्गतबहुलबाष्पाकुलदशाम् ॥ ८५॥


वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः

      स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।

वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणाः

      त्रियामा नेष्यामो हरचरणचिन्तैकशरणाः ॥ ८६॥


कदा वाराणस्याममरतटिनीरोधसि वसन्

      वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।

अये गौरीनाथ त्रिपुरहरशम्भो त्रिनयन

      प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८७॥


स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां

      ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।

आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे

      दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ ८८॥


एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।

कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ८९॥


पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां

      यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ॥


अत्यागीऽपि तनोरखण्डपरमानन्दावबोधस्पृशां

      अध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ ९०॥


अवधूतचर्या ।


कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी

      नैश्चिन्त्यं निरपेक्षभैक्षमशनं निद्रा श्मशाने वने ।

स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा

      स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥ ९१॥


      ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।

      शफरीस्फुरितेनाब्धिः क्षुब्धो न खलु जायते ॥ ९२॥


मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मा स्म भूः

      भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि ।

सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै-

      र्भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ॥ ९३॥


महाशय्या पृथ्वी विपुलमुपधानं भुजलता

      वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।

शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः

      सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ ९४॥


भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा

      हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।

रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनो

      निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ९५॥


चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः

      किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ।

इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैः

      न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ९६॥


हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं

      व्यालानां पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः ।

संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां

      तामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ ९७॥


गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य

      ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।

किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः

      कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८॥


पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं

      विस्तीर्णं वस्त्रमाशादशकमचपलं तल्पमस्वल्पमुर्वी ।

येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसंतोषिणस्ते

      धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ९९॥


मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल

      भ्रातर्व्योम निबद्ध एव भवतामन्त्यः प्रणामाञ्जलिः ।

युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मल-

      ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ १००॥


इति भर्तृहरिविरचितं वैराग्यशतकं सम्पूर्णम् ।

Post a Comment

0 Comments

Ad Code