Ad Code

१.३.७ सूत्राणि:॥ चुटू ॥ ॥ व्याख्या: ॥ अष्टाध्यायी प्रवचनम् ॥

 


१.३.७

सूत्राणि:॥ चुटू ॥

॥ व्याख्या: ॥ अष्टाध्यायी प्रवचनम्  ॥

विभक्तिः - चु-टू १।२।

समासः - चुश्च टुश्च तौ-चुटू (इतरेतरयोगद्वन्द्वः) ।

अनुवृत्तिः - 'उपदेशे, प्रत्ययस्य, आदि:, इत्' इत्यनुवर्तते । 

अन्वयः - उपदेशे प्रत्ययस्यादिश्चुटू इत् ।

अर्थ: - पाणिनीय- प्रत्ययस्थादिमौ चवर्गटवर्गौ उपदेशे प्रत्ययस्यादिमौ चवर्ग-टवर्गौ इत्संज्ञकौ भवतः ।

उदाहरणम् - चवर्ग- (च्) 'गोत्रे कुञ्जादिभ्यश्च्फञ्' कौञ्जायन्यः । (छ) छस्य स्थाने ईयादेशो भवति । (ज्) जस्- ब्राह्मणा: । (झ्) झस्य स्थानेऽन्तादेशो भवति । (ञ्) 'शण्डिकादिभ्यो ञ्यः' शाण्डिक्यः । टवर्ग: - (ट) 'चरेष्टः' कुरुचरी । मद्रचरी । (ठ) ठस्य स्थाने इकादेशो भवति । (ड्) 'सप्तम्यां जनेर्ड: ' उपसरज: । मन्दुरज: । (ढ) ढस्य स्थाने एयादेशो भवति । (ण) 'अन्नाण्णः आन्नः ।

आर्यभाषार्थ - (प्रत्ययस्य) प्रत्यय के (आदिः) आदि में विद्यमान (चु-टू) चवर्ग और टवर्ग की (इत्) इत् संज्ञा होती है ।

उदाहरणम् - चवर्ग (च्) गोत्रे कुज्जादिभ्यश्च्फञ् - कौञ्जायन्यः । कुञ्ज के पौत्र । (छ्) छ् को ईय् आदेश हो जाता है । (ज्) जस्-ब्राह्मणाः । सब ब्राह्मण । (झ) को अन्त आदेश हो जाता है । (ञ) शण्डिकादिभ्यो ज्य: - शाण्डिक्यः । शण्डिक का अभिजन । पूर्वजों का देश । टवर्ग (टू) चरेष्टः - कुरुचरी । कुरु देश में घूमनेवाली नारी । कुरु- दिल्ली के आस-पास का प्रदेश । मद्रचरी । मद्रदेश में घूमनेवाली नारी । (३) ठ् के स्थान में इक् आदेश होता है । (ड्) सप्तम्यां जनेई: - उपसरज: । प्रथम बार गर्भ धारण करने पर उत्पन्न हुआ गाय का बछड़ा । मन्दुरजः । घुड़साल में पैदा होनेवाला । (द) द् को एय् आदेश हो जाता है । (ण) अन्नाण्ण: - आन्नः । अन्न को प्राप्त करनेवाला ।

सिद्धिः - (१) कौञ्जायन्यः । कुञ्ज + च्फञ् । कुञ्ज + फ । कुञ्ज + आयन । कौज्जायन + व्य । कौञ्जायन् + य । कौजायन्य + सु । कौञ्जायन्यः ।

यहां 'गोत्रे कुञ्जादिभ्यश्च्फञ्' (४.१.९८) से कुञ्ज शब्द से कम् प्रत्यय करने पर इस सूत्र से प्रत्यय के 'घ्' की इत् संज्ञा होती है । च्फञ् प्रत्यय के पश्चात् 'प्रातकप्रोररस्तियान' (५.३.११३) से स्वार्थ में व्य प्रत्यय होता है ।

(२) ब्राह्मणाः । ब्राह्मण + जस् । ब्राह्मण + अस् । ब्राह्मणाः । यहां ब्राह्मण शब्द से 'स्वौज' (४.१.२) जस् प्रत्यय करने पर इस सूत्र प्रत्यय के 'ज्' की इत् संज्ञा होती है ।

(३) शाण्डिक्य: । शण्डिक + ज्य । शण्डिक + य । शाण्डिक् + य । शाण्डिक्य + सु । शाण्डिक्य: । यहां शण्डिक शब्द से 'शण्डिकादिभ्यो ञ्यः' (४.३.९२) से ज्य' प्रत्यय करने पर इस सूत्र से प्रत्यय के ज्' की इत् संज्ञा होती है ।

(४) कुरुचरी । कुरु + चर् + ट । कुरु + चर् + अ । कुरुचर + ङीप् । कुरुचर + ई । कुरुचरी + सु । कुरुचरी । यहां कुरु उपपदवाली 'चर् गलौं' (ध्वा.प.) धातु से 'चरेष्टः' (३.२.१६) से ट प्रत्यय करने पर इस सूत्र के प्रत्यय के 'टू' की इत् संज्ञा होती है । स्त्रीत्व की विवक्षा में 'टिड्ढाणञ्' (४.१.१५) से ङीप् प्रत्यय होता है ।

(५) उपसरजः । उपसर + जन् + ड । उपसर + जन् + अ । उपसर + ज् + अ । उपसरज + सु । उपसरज: ।

यहां उपसर उपपदवाली 'जनी प्रादुर्भावें' (दि.आ.) धातु से 'सप्तम्यां जनेर्ड: ' (३.२.९७) से ड प्रत्यय होता है । इस सूत्र प्रत्यय के 'ड' की इत् संज्ञा होती है । प्रत्यय के डित होने से 'डित्त्वादभस्यापि टेर्लोपः' से जन् के टि भाग का लोप हो जाता है । (६) आन्नः । अन्न + ण । आन्नू + अ । आन्न + सु । आन्नः । यहां 'अन्न' शब्द से 'लब्धा' अर्थ में 'अन्नाण्ण:' (४.४.८५) से ण प्रत्यय है । इस सूत्र से ण प्रत्यय के ण् की इत् संज्ञा होती । तद्धितेष्वचामादे' (७.२.११७) से आदिवृद्धि होती है । 

॥ काशिका ॥

चवर्गटवर्गौ प्रत्ययस्यादी इत्संज्ञौ भवतः । “गोत्रे कुञ्जादिभ्यश्च्फञ् “(४.१.९८/१०९९) - कौञ्चायन्यः । छस्य ईयादेशं वक्ष्यति । जस् - ब्राह्मणाः । झस्यान्तादेशं वक्ष्यति । “शण्डिकादिभ्यो ञ्यः “(४.३.९२/१४७२) - शाण्डिक्यः । टवर्गः, “चरेष्टः” (३.२.१६/२९३०) - कुरुचरी, मद्रचरी । ठस्य इकादेशं वक्ष्यति । “सप्तम्यां जनेर्डः “(३.२.९७/३००७) - उपसरज:, मन्दुरजः । ढस्यैयादेशं वक्ष्यति । “अन्नाण्णः” (४.४.८५/१६३७) - आन्नः । पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम् । “तेन वित्तश्चुञ्चुप्चणपौ” (५.२.२६/१८२७) - केशचुञ्चुः, केशचणः । “अवात्कुटारच्च” (५.२.३०/१८३१) “नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः “(५.२.३१/१८३२) - अवटीटः । आदिरित्येव “कर्मणि घटोsठच्” (५.२.३५/१८३६) - कर्मठः ॥ 

॥ न्यासः ॥

‘कौञ्जायन्यः’ इति । च्फञन्तात् ‘व्रातच्फञोरस्त्रियाम्’ (५.३.११३) इति स्वार्थे ञ्यः । ‘छस्येयादेशं वक्ष्यति’ इति । इत्संज्ञापवादम् । ‘शाण्डिक्यः’ इति । ‘शण्डिकादिभ्यो ञ्यः’ (४.३.९२) इति शण्डिकोऽभिजनोऽस्येत्यर्थे ञ्यः, तत्र हि ‘सोऽस्याभिजनः’ इति वर्त्तते । ‘मन्दुरजः’ इति । ‘ङयापोः संज्ञाच्छन्दसोर्बहुलम्’ (६.३.६३) इति मन्दुराशब्दस्य ह्रस्वत्वम् । ‘अन्नाण्णः- आन्नः’ इति । ‘अन्नं लब्धा’ इत्यथे णः । तत्र हि ‘धनगणं लब्धा’ (४.४.८४) इत्यतो लब्धेत्यनुवर्त्तते । अथ किमर्थं पृथग्योगः क्रियते, ‘चुटुषाः प्रत्ययस्य’ इत्येक एव योगः क्रियतामित्यत आह - ‘पृथग्योगकरणम्’ इत्यादि । ‘तेन वित्तः’ (५.२.२६) इत्यादिनाऽस्य विधेरनित्यत्वज्ञापनस्य प्रयोजनं दर्शयति । 

॥ पदपञ्जरी ॥

आदी इदिति । प्रारम्भे वर्त्तमानावित्यर्थः । कौञ्जायन्य इति । च्फञन्तात्’व्रतच्फञोरस्त्रियाम् इति स्वार्थे स्वर्थे ञ्यः । शण्डिकादिभ्यो ञ्य इति । सोऽस्या भिजनः इति तत्र वर्त्तते । मन्दुरज इति । ड्यापोस्सैज्ञाच्छन्दसोः इति ह्रस्वः । अन्नाण्ण इति । ‘धनगणं लब्धा’ इत्यतो लब्धेति तत्रानुवर्त्ते । किमर्थो योगविभागः, ‘चुटूषाः प्रत्ययस्य’ इत्येक एव योगः क्रियतामत आह - पृथगित्यादि । केशचुञ्चुः केशचण इति । अत्र चकारस्येत्संज्ञायाम् ‘चितः’इत्यन्तोदात्तत्वं स्यात्, पित्करणन्तु पर्यायार्थं स्यात् । अवादित्यस्यानुवृत्तिर्दर्शिता ॥ 

॥ शब्दकौस्तुभः ॥

प्रत्ययाद्यौ चुटू इतौ स्तः । “गोत्रे कुञ्जादिभ्यशच्फञ्” (४.१.९८) कौञ्जायन्यः। छस्य ईयादेशं वक्ष्यति । जस् ब्राह्मणाः । झस्यान्तादेशो वक्ष्यति । “सोऽस्य निवासः” (४.३.८९) इत्यतः सोऽस्य इत्यनुवर्त्तमाने “अभिजनश्च” (४.३.९०) इत्यधिकारे इत्यर्थः । स्याभिजनः इत्यधिकारे “शण्डिकादिभ्यो ञ्य - ” (४.३.१२) शण्डिक्यः। ‘चरेष्टः” (३.२.१६) कुरुचरी । ठस्येकादेशं वक्ष्यति । “सप्तम्यां जनेर्डः” (३.२.१७) उपसरजः। ढस्यैकादेशं वक्ष्यति । “धनगणं लब्धा” (४.४.८४) इत्यतो ‘लब्धा’ इत्यनुवर्तमाने “अन्नाण्णः” (४.४.८५) अन्नं लब्धा आन्नः । “चुटुषाः प्रत्ययस्य” इति कर्त्तव्ये योगविभागादनित्यमिदम् । तेन ‘केशचुञ्चुः’ ‘केशचणः’ इत्यत्र चकारस्येत्संज्ञा न । सत्यां हि तस्यां “चितः” (६.१.१६३) इत्यन्तोदात्तः स्यात् । चित्करणं तु प्रर्यायार्थं स्यात् । “अवात्कुटारच्च” (५.२.३०) इत्यतोऽवादित्यनुवर्त्तमाने “नते नासिकायाः” (५.२.३१) इति टीटट् - अवटीटः । यद्वा चुञ्चुप्चणप्‌टीटचो यादयः, “लोपोव्यो - ” (६.१.६६) इति यलोपे इति व्याख्येयम् ।

॥ व्याकरणसिद्धान्तसुधानिधिः ॥

प्रत्ययाद्यौ चुट् इतौ स्तः । वर्गद्वये द्वितीयचतुर्थानां छझठढानाम् ईय्-अन्त्-इक्-एय् इत्यादेशा वक्ष्यन्ते । गोत्रे कुञ्जादिभ्यः च्फञ् । कौञ्जायन्यः । जस् । ब्राह्मणाः । शण्डिकादिभ्यो ञ्यः । शण्डिकोऽभिजनोऽस्य शाण्डिक्यः । चरेष्टः । कुरुचरी । जनेर्डः उपसरजः । प्रज्ञादिभ्यो णः । प्राज्ञः । इदं चानित्यम्, चुटुषाः प्रत्ययस्येति कर्तव्ये पृथग्योगसामर्थ्यात् । तेन केशचुञ्चरित्यादौ चस्य नेत्संज्ञा । तथा चान्तोदात्तापत्तिः । पित्करणं तु पर्यायार्थं स्यात् । नते नासिकायाः इति टीटच् । अवटीटः । यद्वा एतेषु लोपो व्योः इति यकारो लुप्तनिर्दिष्ट इति भाष्यम् । भाष्यकारवचनाद्राजदन्तादेराकृतिगणत्वाद्वा पूर्वकालस्य परनिपातः । 

॥ सिद्धान्तकौमुदी ॥

प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ॥

॥ बालमनोरमा ॥

देवदत्तहन्तृंहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रञ्चितम् । राम जस् इति स्थिते - चुटू । 'उपदेशेऽजनुनासिक इत्' इत्यतः 'इ' दित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । 'आदिर्ञिटुडवः' इत्यत 'आदि'ग्रहणमनुवर्त्त्य द्विवचनान्ततया विपरिणम्यते । 'षः प्रत्ययस्ये'त्यनुवर्तते । तदाह - प्रत्ययाद्यावित्यादिना । इति जस्येति । इत्संज्ञायां तस्य लोप' इति लोपः । जकारस्तु जसश्शीत्यादौ शसो निवृत्त्यर्थः ॥

॥ तत्त्वबोधिनी ॥

युटू । 'आदिर्ञिटुडवः' इत्यत 'आदिः,' 'षः प्रत्ययस्य' इत्यतः 'प्रत्ययस्ये' ति चानुवर्तते, तदाह - प्रत्ययाद्याविति । प्रत्ययाद्यविति किम् ? । वाचाटः । 'तेन वित्तश्चुञ्चुप्चणपौ' इत्यत्र प्रत्ययादौ यकारो लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञेति वक्ष्यति ॥

॥ लघुशब्देन्दुशेखरः - हिन्दी ॥

चुटू (पा.सू.१.३.७) 'आदिर्जिंटुडव:' (पा.सू.१.३.५) इत्यत आदिरिति 'षः प्रत्ययस्य' (पा.सू.१.३.६) इत्यतः प्रत्ययस्येति चानुवर्त्तते, तदाह-प्रत्ययाद्यावेति । तेन वाचाटे नेत्वम् । प्रत्ययेति किम्? चामरादावित्त्वं मा भूदिति । चुपचणपोर्यादित्वात् परनिमित्तयलोपस्य बहिरङ्गासिद्धत्वात् प्रत्ययादित्वाभावात् नेत्वम् ।

'चुटू' इस सूत्र में 'आदिर्बिटुडवः' से 'आदि' पद की, तथा 'षः प्रत्ययस्य' से 'प्रत्ययस्य' पद की अनुवृत्ति आती है । इसी लिए कौमुदी में इस सूत्र की वृत्ति में कहा गया- 'प्रत्ययाद्यौ' इत्यादि । इस पद में 'आदि' पद की अनुवृत्ति आने के कारण अर्थात् इस सूत्र में प्रत्यय के आदि में विद्यमान ही चवर्ग तथा टवर्ग की इत्संज्ञा की जाती है । अतः 'वाचाट' में 'आलजाटाची बहुभाषिणि' से विहित 'आटच्' प्रत्यय के चकार की इत्संज्ञा नहीं होती । नहीं तो 'चित्:' से 'वाचाट' अन्तोदात्तस्वर वाला हो जाता ।

 'चामर' शब्द के आदि में विद्यमान चकार की इत्संज्ञा न हो जाए इसलिए 'प्रत्यय' ऐसा वृत्ति में कहा गया अर्थात् प्रत्यय के ही आदि में विद्यमान चवर्ग, टवर्ग की इत्संज्ञा होती है । इस लिए 'चामर' कोई प्रत्यय नहीं है (वह तो प्रातिपदिक है ।) चुप् तथा चणपू ये दोनों प्रत्यय यादि है अर्थात् इन दोनों प्रत्यय के आदि में 'य'कार था जिसका लोप हो गया है । अतः इनके आदि में यकार का श्रवण तो वहीं होता है परन्तु इनके यादि होने के कारण इन दोनों प्रत्ययों के आदि में श्रूयमाण चकार का 'चुटू' से इत्संज्ञा नहीं होती । शेखरकार इसको और स्पष्ट करते हैं कि- 'चुटू' से जब चुप् तथा चणप के आदि में सुनाई पड़ने वाले चकार की इत्संज्ञा करने चलते हैं तो 'चुटू' की दृष्टि में, पहले हुआ 'यलोप' बहिरन होने के कारण असिद्ध हो जाता है क्योंकि 'लोपो व्योर्वलि' वल को पर में निमित्त मानकर ही वकार, यकार का लोप करता है । इस प्रकार पर को निमित्त मानकर होने वाला 'यलोप' बहिरन होने के कारण असिद्ध हो जाता है तो 'चुटू' को प्रत्यय के आदि में 'यकार' ही दिखाई देता है । इस प्रकार इन दोनों प्रत्ययों का 'चकार' प्रत्यय के आदि में नहीं होते । अतः 'चुटू' से उस चकार की इत्संज्ञा नहीं होती ।  (अतः लोप भी नहीं होता तो विद्याचुचुः विद्याचणः आदि में चकार का श्रवण होता है ।) 

॥ महाभाष्यम् ॥

(इत्सञ्ज्ञासूत्रम् १.३.१ आ. ५).

१५४. चुटू १.३.७ 

॥ अनिष्टनिराकरणाधिकरणम् ॥

(८३५. आक्षेपवार्त्तिकम् - २) * चुञ्चप्चणपोश्चकारप्रतिषेधः * 

व्याख्याभाष्यम् - चुञ्झुप्चणपोश्चकारस्य प्रतिषेधो वक्तव्यः । केशचुड्छुः । केशचणः । 

(८३६. समाधानवार्त्तिकम् - २) * इदर्थाभावात्सिद्धम् * 

व्याख्याभाष्यम् - इत्कार्याभावादत्रेत्सञ्ज्ञा न भविष्यति । समाधाननिराकरणभाष्यम् इदमस्तीत्कार्यम् । 'चितः' अन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात् । 

समाधानसाधकभाष्यम् - पित्करणमिदानीं किमर्थ स्यात् ?

(८३७. समाधानबाधकवार्त्तिकम् - ३) * पित्करणं किमर्थमिति चेत्पर्यायार्थम् * 

व्याख्याभाष्यम् - पित्करणं किमर्थमिति चेत्पर्यायार्थमेतत्स्यात् । 

सिद्धान्ति समाधानभाष्यम् - एवं तर्हि यकारादी चुञ्झुप्चणपौ । किं यकारो न श्रूयते ? लुप्तनिर्दिष्टो यकारः । 

(८३८. आक्षेपवार्त्तिकम् - ४) * इर उपसंख्यानम् * 

व्याख्यानभाष्यम् - इर उपसंख्यानं कर्तव्यम् । रुधिर् । अरुधत् । अरौत्सीत् । 

(८३९. समाधानवार्त्तिकम् - ५) * अवयवग्रहणात्सिद्धम् * 

व्याख्याभाष्यम् - रेफस्यात्र 'हलन्त्यम्' इति भविष्यति, इकारस्य 'उपदेशेऽजनुनासिक इत्' इति । 

(८४०. समाधानबाधकवार्तिकम् - ६) * अवयवग्रहणादिति चेदिदिद्विधिप्रसङ्गः * 

व्याख्याभाष्यम् - अवयवग्रहणादिति चेदिदिद्विधिरपि प्राप्नोति । भेत्ता छेत्ता 'इदितो नुम् धातोः' इति नुम् प्राप्नोति । 

समाधानसाधकभाष्यम् - यदि पुनरयमिदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत । तद्यथा - कुम्भीधान्यः श्रोत्रिय इत्युच्यते । यस्य कुम्भ्यामेव धान्यं स कुम्मीधान्यः । यस्य पुनः कुम्भ्यां चान्यत्र च धान्यं नासौ कुम्भीधान्यः । 

समाधानबाधकभाष्यम् - नायमिदिद्विधिः कुम्भीधान्यन्यायेन शक्यो विज्ञातुम् । इह हि दोषः स्यात् - टुनदि नन्दथुरिति । 

समाधानसाधकभाष्यम् एवं तर्हि नैवं विज्ञायते - इकार इदस्य सोऽयमिदित् तस्येदित इति । कथं तर्हि? इकार एवेत् इदित् इदिदन्तस्येति । 

समाधानान्तरभाष्यम् - अथवा ऋकारस्यैवेदमित्त्वभूतस्य ग्रहणम् । तस्य च 'उपदेशेऽजनुनासिक' इतीत्सञ्ज्ञा भविष्यति । 

समाधानान्तरभाष्यम् अथवा आचार्यप्रवृत्तिर्ज्ञापयति - 'नैवंजातीयकानामिदिद्विधिर्भवति' इति । यदयमिरितः कांश्चिन्नुमनुषक्तान्पठति - उबुन्दिर् निशामने । स्कन्दिर् गतिशोषणयोः । 

समाधानान्तरभाष्यम् अथवा आचार्यप्रवृत्तिर्ज्ञापयति - 'इर्शब्दस्येत्सञ्ज्ञा भवति' इति । यदयम् 'इरितो वा' इत्याह । 

समाधानान्तरभाष्यम् - अथवान्त इति वर्तते । चुटू ।

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code