१.३.६
सूत्राणि:॥ षः प्रत्ययस्य ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - षः १।१ प्रत्ययस्य ६।१।
अन्वयः - प्रत्ययस्यादिः ष इत् ।
अनुवृत्तिः - 'उपदेशे, आदि:, इत्' इत्यनुवर्तते ।
अर्थ: - पाणिनीय-उपदेशे प्रत्ययस्यादिमः षकार इत्-संज्ञको भवति ।
उदाहरणम् - शिल्पिनि बुन् - नर्तकी । रजकी
आर्यभाषार्थ - (प्रत्ययस्य) प्रत्यय के (आदिः) आदि में विद्यमान (षः) ष् की (इत्) इत् संज्ञा होती है । (ष) शिल्पिनि खुन्-नर्तकी । नाचनेवाली। रजकी । रंगनेवाली ।
सिद्धिः - (१) नर्तकी । नृत् + वुन् । नृत् + वु। नृत् + अक । नत् + अक् । नर्तक + ङीप् । नर्तक + ई । नर्तकी + सु । नर्तकी । यहां 'नृती गात्रविक्षेपे' (दिवा.प.) धातु से 'शिल्पिनि बुन्' (३.१.१४५) से - बुन्' 'प्रत्यय करने पर इस सूत्र से 'खुन्' के षकार की इत् संज्ञा होती है । प्रत्यय के षित होने से स्त्रीलिङ्ग में विद्गौरादिभ्यश्च (४.१.४१) से 'डीष्' प्रत्यय होता है । इसी प्रकार 'रज्ज रागे' (दि.उ.) धातु से वुन् प्रत्यय करने पर रजकी शब्द सिद्ध होता है ।
॥ काशिका ॥
षकारः प्रत्ययस्यादिरित्संज्ञो भवति । “शिल्पिनि वुन् “(३.१.१४५/२९०७) - नर्तकी, रजकी । प्रत्ययस्येति किम् ? षोङः । षण्डः । षडिकः । आदिरित्येव - ‘अविमह्योष्टिषच् (उणादि. १.४५) - अविषः, महिषः ॥
॥ न्यासः ॥
‘रजकी’ इति । षित्त्वात् ‘षिद्गौरादिभ्यश्च’ (४.१.४९) इति ङीष् । अथ केनात्रानुनासकिलोपः ? ‘अनिदिताम्’ (६.४.२४) इति चेत् ? न; तत्र ङितीत्युच्यते, न चात्र ङित्प्रत्ययोऽस्ति, नैष दोषः, ‘जनीनृष्क्नसुरञ्जौ । ञमन्ताश्च’ (ग.सू.धा.पा. ८१७) तिमित्संज्ञाकरणं रञ्जेर्ज्ञापकम् - अङित्यपि तस्यानुनासिकलोपो भवति, अन्यथा णौ रञ्जेरकारस्यानुपधत्वात् ‘अत उपधायाः’ (७.२.११६) इति वृद्ध्या न भवितव्यमिति मित्संज्ञाकरणमनर्थकं स्यातदित्येके । ‘घञि च भावकरणयोः’ (६.४.२७) इत्यत्र चकार्सयानुक्तसमुच्चयार्थत्वादङित्यपि क्कचिद्रञ्जेरनुनासकिलोपो भवतीत्यपरे । ‘षोङः’ इति । षड् दन्ता अस्येति बहुव्रीहिः, वयसि दन्तस्य दतृ’ (५.४.१४१) इति दत्रादेशः, ऋकार उगित्कार्यार्थः ‘षष उत्वं दतृदशधासूत्रपदादेः ष्टुत्वञ्च’ (वा.७६५) पृषोदरादिपाठात् षषोऽन्त्यस्योत्वम्, ‘आद्गुण:’ (६.१.८७), उत्तरपदादिष्टुतवमिति दकारस्य डकारः । षोडत् इति स्थिते षोडन्तमाचष्ट इति ‘तत्करोति तदादष्टे’ (वा.२००,२०१) इति णिच्, ‘णाविष्ठवत् कार्यम् प्रातिपदिकस्य’ (वा. ८१३) इतीष्ठवद्द्बावाट्टिलोपः - षोडयतीति ततः पचाद्यच, णिलोपः । ‘षण्डः’ इति । ‘षणु दाने’ (धा.पा.१४६४) । ‘अमन्ताड्डः’ (द.उ.५.७), ‘उणादयो बहुलम्’ (३.३.१) इति बहुलवचनात् ‘धात्वादेः षः सः’ (६.१.६४) इति सत्वं न भवति । अथवा - ‘षण्ड’ इत्येतदव्युत्पनन्नं प्रातिपदिकमिति । ‘षडिकः’ इति । षडङगुलिदत्तशब्दात् अनुकम्पायाम् ‘बह्वचोऽमनुष्यनाम्नष्ठज्वा’ (५.३.७८) इति ठच् । ‘ठाजादापूर्ध्वं द्वितीयादयः’ (५.३.८३) इति ङगुलिदत्तस्य लोपः; ‘ठस्येकः’ (७.३.५०) इतीकादेशः । षडशब्द्सय यस्येति च’ (६.४.१४८) इत्यकारलोपः, तस्य स्थानिवद्भावे सति व्यवधानात् षट्शब्दस्य ‘यचि भम्’ (१.४.१८) इति भसंज्ञा न भवति अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वात् ‘झलां जशोऽन्ते’ (८.२.३९) इति जश्त्वम् = षकारस्य डकारः । यद्येषां षकारस्येत्संज्ञा स्यात्, स्त्रीविवक्षायां ‘षिद्गौरादिभ्यश्च’ (४.१.४१) इति ङीष् स्यात् । षण्डशब्दोऽयं यद्यपि बलीवर्दे वर्त्तते, तथापि स्त्रीगवीष्पपि षण्डधर्मयोगाद्वृत्तिरस्य सम्भवत्येव । यद्यप्येते षोडादयो लाक्षणिकाः, तथाप्युदेशग्रहणेन षकारो विशिष्यत इति भवन्त्येतानि प्रत्ययग्रहणस्य प्रत्यदाहरणानि । भवति ह्यत्राप्युदेशे षकारः । ‘अविषः, महिषः’ इति । ‘अव रक्षणे’ (धा.पा. ६००) ‘मह पूजायाम्’ (धा.पा.१८६७), ‘अविमह्योष्टिषच्’ (द.उ.९.३.) ननु च’उणादयो बहुलम् (३.३.१) इति बहुलवचनात् प्रत्ययसंज्ञैवात्र न भवति, सत्यामपि तस्यामित्संज्ञा न भविष्यति, बहुलवचनात्, तत् कस्मादादिग्रहणमेतदनुवर्त्तते ? एवं मन्यते - उत्तरार्थमवश्यमादिग्रहणमनुवर्त्तमानमिहापि स्पष्टार्थं भविष्यति ।
॥ पदपञ्जरी ॥
रजकीति । ‘षिद्गौरादिभ्यश्च’ इति ङीष् । कथं पुनरत्रोपधालोपः यावता अनिदितां हल उपधायाः ङिति इत्युच्यते ? ज्ञापयतिरञ्जेरङित्यपि क्वचिदुपधालोपो भवतीति । षोड इति । षड् दन्ता अस्य वयसि दन्तस्य दतृ षष उत्वम्, दतृदशधासूत्तरपदादेः ष्टुत्वम् । षषोऽन्त्यस्योत्वम् उत्तरपदादेर्डकारः, षोडन्तमाचष्टे इति णिचि टिलोपे पचाद्यचि णिलोपः । ‘षणु दाने’ञमन्ताड्ङः’, उणादयो बहुलम् इति बहुलवचनात् इत्संज्ञासत्वयोरभावः । षडिक इति । अनुकम्पितः षड्गुलिः बह्वचो मनुष्यनाम्नष्ठज् वा’ठाजादावूद्धं द्वितीयादचः’ इति गुलिशब्दस्य लोपः, यस्येतिलोपस्य स्थानिवद्भावात् षकारान्तेऽवधौ भसंज्ञाया अभावादन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वाज्जश्त्वम् । अत्रेत्संज्ञायां ङीष्प्रसङ्गः । यद्यप्येते समुदाया न क्वाप्युपदिश्यन्ते, षकारस्तु षष उत्वम्, षणु दाने इत्युपदेशस्थो भवति । अविषः महिष इति । अविमह्योष्टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति, ईकारस्य टित्त्वादेव सिद्धेः । न च पक्षे ङीषर्थः षकारः, ङीपोषऽपि चितः परस्योदात्तनिवृत्तिस्वरेणोदात्तत्वात्, सत्यम्; अन्यतरस्यैव श्रवणार्थ उपदेशः स्यादिति टकारस्यापि शङ्क्योत ॥
॥ शब्दकौस्तुभः ॥
प्रत्ययस्यादिः ष इत्स्यात् । “शिल्पिनि ष्वुन्” (३.१.१४५) नर्त्तकी । प्रत्ययस्येति किम् ? षोडश। “षषउत्वम्’(का.वा.) इत्यत्रोपदेशस्थोऽयं षकारः । आदिः किम् ? अविषः, महिषः । “अविमहिभ्यां टिषच्” (उ.सू.४८) । न्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति ईकारस्य टित्वादेव सिद्धेः । नच पक्षे ङीषर्थः षकारः । ङीषोऽपि चितः परस्योदात्तनिवृत्तिस्वरेणोदात्तत्त्वात्, सत्यम्, विनिगमकाभावेन पक्षे टकारस्यापि श्रवणं स्यात् ।
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
प्रत्ययस्यादिः ष इत्संज्ञः । नर्तकी । शिल्पिनि हुन् । षिवत्त्वात् ङीष् । प्रत्ययस्य किम् ? षोडश । षष उत्वम् इत्यत्रोपदेशः । आदिः किम् ? अविषः महिषः । अविमविभ्यां टिषच् । ननु फलाभावादत्र नेत्संज्ञा । ईकारप्रत्ययस्य टित्त्वादेव सिद्धेः । न च डीपि अनुदात्तत्वं डीषि तूदात्तत्वमिति पक्षे ङीषर्थ षित्त्वं स्यादिति वाच्यम् । चित्परस्य डीपोऽपि उदात्तनिवृत्तिस्वरेणोदात्तत्वात् इति चेन्न, विनिगमकाभावेन पक्षे टकारस्यापि श्रवणप्रसङ्गात् ॥
॥ सिद्धान्तकौमुदी ॥
प्रत्ययस्यादिः ष इत्स्यात् ॥
॥ बालमनोरमा ॥
षऋ प्रत्ययस्य । 'आदिर्ञिटुडवः' इत्यत आदिरित्यनुवर्तते । 'उपदेशेऽजनुनासिक इ'दित्यत इदिति च । तदाह - प्रत्ययस्यादिरिति । षकारस्य इत्संज्ञायां तस्य लोपः ॥
॥ तत्त्वबोधिनी ॥
षः प्रत्ययस्य । 'आदिर्ञिटुडवः' इत्यत 'आदि' रित्यनुवर्तत इत्यभिप्रकेत्याह - प्रत्ययस्यादिरिति । प्रत्ययस्य किम्? षोडश । 'षष उत्व' मित्यत्र उपदेशस्थोऽयं षकारस्येत्संज्ञा न भविष्यति, टित्वादेवाऽविषी महिषीति रूपसिद्धेः । न च पक्षे ङीष्यन्तोदात्तः प्रयोजनमिति वाच्यम्, 'अनुदात्तस्य च यत्रोदात्तलोपः' इत्युदात्तनिवृत्तिस्वरेण टितः परस्य ङीपोऽप्युदात्तत्वात् । अत्राहुः - विनिगमनाऽभावेव पक्षे टकारस्याऽपि श्रवणं स्यात् । तथा च षित्त्वान्ङीषि 'अविषी' त्यादिरुपसिद्धिः स्यात् । अतः षकारस्यैव श्रवणं भवतु मा कदाचिट्टकारस्य श्रवणं भूदित्येतदर्थमादिग्रहणानुवृत्तिरिति ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know