Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

१.३.६ सूत्राणि:॥ षः प्रत्ययस्य ॥ ॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

 


१.३.६

सूत्राणि:॥ षः प्रत्ययस्य

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - षः १।१ प्रत्ययस्य ६।१। 

अन्वयः - प्रत्ययस्यादिः ष इत् ।

अनुवृत्तिः - 'उपदेशे, आदि:, इत्' इत्यनुवर्तते ।   

अर्थ: - पाणिनीय-उपदेशे प्रत्ययस्यादिमः षकार इत्-संज्ञको भवति ।      

उदाहरणम् - शिल्पिनि बुन् - नर्तकी । रजकी

आर्यभाषार्थ - (प्रत्ययस्य) प्रत्यय के (आदिः) आदि में विद्यमान (षः) ष् की (इत्) इत् संज्ञा होती है । (ष) शिल्पिनि खुन्-नर्तकी । नाचनेवाली। रजकी । रंगनेवाली ।

सिद्धिः - (१) नर्तकी । नृत् + वुन् । नृत् + वु। नृत् + अक । नत् + अक् । नर्तक + ङीप् । नर्तक + ई । नर्तकी + सु । नर्तकी । यहां 'नृती गात्रविक्षेपे' (दिवा.प.) धातु से 'शिल्पिनि बुन्' (३.१.१४५) से - बुन्' 'प्रत्यय करने पर इस सूत्र से 'खुन्' के षकार की इत् संज्ञा होती है । प्रत्यय के षित होने से स्त्रीलिङ्ग में विद्गौरादिभ्यश्च (४.१.४१) से 'डीष्' प्रत्यय होता है । इसी प्रकार 'रज्ज रागे' (दि.उ.) धातु से वुन् प्रत्यय करने पर रजकी शब्द सिद्ध होता है ।

॥ काशिका ॥

षकारः प्रत्ययस्यादिरित्संज्ञो भवति । “शिल्पिनि वुन् “(३.१.१४५/२९०७) - नर्तकी, रजकी । प्रत्ययस्येति किम् ? षोङः । षण्डः । षडिकः । आदिरित्येव - ‘अविमह्योष्टिषच् (उणादि. १.४५) - अविषः, महिषः ॥

॥ न्यासः ॥

‘रजकी’ इति । षित्त्वात् ‘षिद्गौरादिभ्यश्च’ (४.१.४९) इति ङीष् । अथ केनात्रानुनासकिलोपः ? ‘अनिदिताम्’ (६.४.२४) इति चेत् ? न; तत्र ङितीत्युच्यते, न चात्र ङित्प्रत्ययोऽस्ति, नैष दोषः, ‘जनीनृष्क्नसुरञ्जौ । ञमन्ताश्च’ (ग.सू.धा.पा. ८१७) तिमित्संज्ञाकरणं रञ्जेर्ज्ञापकम् - अङित्यपि तस्यानुनासिकलोपो भवति, अन्यथा णौ रञ्जेरकारस्यानुपधत्वात् ‘अत उपधायाः’ (७.२.११६) इति वृद्ध्या न भवितव्यमिति मित्संज्ञाकरणमनर्थकं स्यातदित्येके । ‘घञि च भावकरणयोः’ (६.४.२७) इत्यत्र चकार्सयानुक्तसमुच्चयार्थत्वादङित्यपि क्कचिद्रञ्जेरनुनासकिलोपो भवतीत्यपरे । ‘षोङः’ इति । षड् दन्ता अस्येति बहुव्रीहिः, वयसि दन्तस्य दतृ’ (५.४.१४१) इति दत्रादेशः, ऋकार उगित्कार्यार्थः ‘षष उत्वं दतृदशधासूत्रपदादेः ष्टुत्वञ्च’ (वा.७६५) पृषोदरादिपाठात् षषोऽन्त्यस्योत्वम्, ‘आद्गुण:’ (६.१.८७), उत्तरपदादिष्टुतवमिति दकारस्य डकारः । षोडत् इति स्थिते षोडन्तमाचष्ट इति ‘तत्करोति तदादष्टे’ (वा.२००,२०१) इति णिच्, ‘णाविष्ठवत् कार्यम् प्रातिपदिकस्य’ (वा. ८१३) इतीष्ठवद्द्बावाट्टिलोपः - षोडयतीति ततः पचाद्यच, णिलोपः । ‘षण्डः’ इति । ‘षणु दाने’ (धा.पा.१४६४) । ‘अमन्ताड्डः’ (द.उ.५.७), ‘उणादयो बहुलम्’ (३.३.१) इति बहुलवचनात् ‘धात्वादेः षः सः’ (६.१.६४) इति सत्वं न भवति । अथवा - ‘षण्ड’ इत्येतदव्युत्पनन्नं प्रातिपदिकमिति । ‘षडिकः’ इति । षडङगुलिदत्तशब्दात् अनुकम्पायाम् ‘बह्वचोऽमनुष्यनाम्नष्ठज्वा’ (५.३.७८) इति ठच् । ‘ठाजादापूर्ध्वं द्वितीयादयः’ (५.३.८३) इति ङगुलिदत्तस्य लोपः; ‘ठस्येकः’ (७.३.५०) इतीकादेशः । षडशब्द्सय यस्येति च’ (६.४.१४८) इत्यकारलोपः, तस्य स्थानिवद्भावे सति व्यवधानात् षट्शब्दस्य ‘यचि भम्’ (१.४.१८) इति भसंज्ञा न भवति अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वात् ‘झलां जशोऽन्ते’ (८.२.३९) इति जश्त्वम् = षकारस्य डकारः । यद्येषां षकारस्येत्संज्ञा स्यात्, स्त्रीविवक्षायां ‘षिद्गौरादिभ्यश्च’ (४.१.४१) इति ङीष् स्यात् । षण्डशब्दोऽयं यद्यपि बलीवर्दे वर्त्तते, तथापि स्त्रीगवीष्पपि षण्डधर्मयोगाद्वृत्तिरस्य सम्भवत्येव । यद्यप्येते षोडादयो लाक्षणिकाः, तथाप्युदेशग्रहणेन षकारो विशिष्यत इति भवन्त्येतानि प्रत्ययग्रहणस्य प्रत्यदाहरणानि । भवति ह्यत्राप्युदेशे षकारः । ‘अविषः, महिषः’ इति । ‘अव रक्षणे’ (धा.पा. ६००) ‘मह पूजायाम्’ (धा.पा.१८६७), ‘अविमह्योष्टिषच्’ (द.उ.९.३.) ननु च’उणादयो बहुलम् (३.३.१) इति बहुलवचनात् प्रत्ययसंज्ञैवात्र न भवति, सत्यामपि तस्यामित्संज्ञा न भविष्यति, बहुलवचनात्, तत् कस्मादादिग्रहणमेतदनुवर्त्तते ? एवं मन्यते - उत्तरार्थमवश्यमादिग्रहणमनुवर्त्तमानमिहापि स्पष्टार्थं भविष्यति ।

॥ पदपञ्जरी ॥

रजकीति । ‘षिद्गौरादिभ्यश्च’ इति ङीष् । कथं पुनरत्रोपधालोपः यावता अनिदितां हल उपधायाः ङिति इत्युच्यते ? ज्ञापयतिरञ्जेरङित्यपि क्वचिदुपधालोपो भवतीति । षोड इति । षड् दन्ता अस्य वयसि दन्तस्य दतृ षष उत्वम्, दतृदशधासूत्तरपदादेः ष्टुत्वम् । षषोऽन्त्यस्योत्वम् उत्तरपदादेर्डकारः, षोडन्तमाचष्टे इति णिचि टिलोपे पचाद्यचि णिलोपः । ‘षणु दाने’ञमन्ताड्ङः’, उणादयो बहुलम् इति बहुलवचनात् इत्संज्ञासत्वयोरभावः । षडिक इति । अनुकम्पितः षड्गुलिः बह्वचो मनुष्यनाम्नष्ठज् वा’ठाजादावूद्धं द्वितीयादचः’ इति गुलिशब्दस्य लोपः, यस्येतिलोपस्य स्थानिवद्भावात् षकारान्तेऽवधौ भसंज्ञाया अभावादन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वाज्जश्त्वम् । अत्रेत्संज्ञायां ङीष्प्रसङ्गः । यद्यप्येते समुदाया न क्वाप्युपदिश्यन्ते, षकारस्तु षष उत्वम्, षणु दाने इत्युपदेशस्थो भवति । अविषः महिष इति । अविमह्योष्टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति, ईकारस्य टित्त्वादेव सिद्धेः । न च पक्षे ङीषर्थः षकारः, ङीपोषऽपि चितः परस्योदात्तनिवृत्तिस्वरेणोदात्तत्वात्, सत्यम्; अन्यतरस्यैव श्रवणार्थ उपदेशः स्यादिति टकारस्यापि शङ्क्योत ॥ 

॥ शब्दकौस्तुभः ॥

प्रत्ययस्यादिः ष इत्स्यात् । “शिल्पिनि ष्वुन्” (३.१.१४५) नर्त्तकी । प्रत्ययस्येति किम् ? षोडश। “षषउत्वम्’(का.वा.) इत्यत्रोपदेशस्थोऽयं षकारः । आदिः किम् ? अविषः, महिषः । “अविमहिभ्यां टिषच्” (उ.सू.४८) । न्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति ईकारस्य टित्वादेव सिद्धेः । नच पक्षे ङीषर्थः षकारः । ङीषोऽपि चितः परस्योदात्तनिवृत्तिस्वरेणोदात्तत्त्वात्, सत्यम्, विनिगमकाभावेन पक्षे टकारस्यापि श्रवणं स्यात् ।

॥ व्याकरणसिद्धान्तसुधानिधिः ॥

प्रत्ययस्यादिः ष इत्संज्ञः । नर्तकी । शिल्पिनि हुन् । षिवत्त्वात् ङीष् । प्रत्ययस्य किम् ?  षोडश । षष उत्वम् इत्यत्रोपदेशः । आदिः किम् ? अविषः महिषः । अविमविभ्यां टिषच् । ननु फलाभावादत्र नेत्संज्ञा । ईकारप्रत्ययस्य टित्त्वादेव सिद्धेः ।  न च डीपि अनुदात्तत्वं डीषि तूदात्तत्वमिति पक्षे ङीषर्थ षित्त्वं स्यादिति वाच्यम् । चित्परस्य डीपोऽपि उदात्तनिवृत्तिस्वरेणोदात्तत्वात् इति चेन्न, विनिगमकाभावेन पक्षे टकारस्यापि श्रवणप्रसङ्गात् ॥

॥ सिद्धान्तकौमुदी ॥

प्रत्ययस्यादिः ष इत्स्यात् ॥

॥ बालमनोरमा ॥

षऋ प्रत्ययस्य । 'आदिर्ञिटुडवः' इत्यत आदिरित्यनुवर्तते । 'उपदेशेऽजनुनासिक इ'दित्यत इदिति च । तदाह - प्रत्ययस्यादिरिति । षकारस्य इत्संज्ञायां तस्य लोपः ॥

॥ तत्त्वबोधिनी ॥

षः प्रत्ययस्य । 'आदिर्ञिटुडवः' इत्यत 'आदि' रित्यनुवर्तत इत्यभिप्रकेत्याह - प्रत्ययस्यादिरिति । प्रत्ययस्य किम्? षोडश । 'षष उत्व' मित्यत्र उपदेशस्थोऽयं षकारस्येत्संज्ञा न भविष्यति, टित्वादेवाऽविषी महिषीति रूपसिद्धेः । न च पक्षे ङीष्यन्तोदात्तः प्रयोजनमिति वाच्यम्, 'अनुदात्तस्य च यत्रोदात्तलोपः' इत्युदात्तनिवृत्तिस्वरेण टितः परस्य ङीपोऽप्युदात्तत्वात् । अत्राहुः - विनिगमनाऽभावेव पक्षे टकारस्याऽपि श्रवणं स्यात् । तथा च षित्त्वान्ङीषि 'अविषी' त्यादिरुपसिद्धिः स्यात् । अतः षकारस्यैव श्रवणं भवतु मा कदाचिट्टकारस्य श्रवणं भूदित्येतदर्थमादिग्रहणानुवृत्तिरिति ॥



एक टिप्पणी भेजें

0 टिप्पणियाँ