Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

१.३.८ सूत्राणि:॥ लशक्वतद्धिते ॥ ॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥




१.३.८

सूत्राणि:॥ लशक्वतद्धिते

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - ल - श - कु १।१ अतद्धिते ७।१।

समासः  - लश्च श् च कुश्च एतेषां समाहार: - लश्कु (समाहारद्वन्द्व:) । न तद्धित इति अतद्धित:, तस्मिन् - अतद्धिते (नन्तत्पुरुषः) ।  

अनुवृत्तिः - 'उपदेशे प्रत्ययस्य, आदि:, इत्' इत्यनुवर्तते ।

अन्वयः - उपदेशेऽतद्धिते लश्कु इत् ।

अर्थ: - पाणिनीय-उपदेशे तद्धितवर्जितानां प्रत्ययस्यादौ वर्तमानानां लकार - शकार - कवर्गाणाम् इत् संज्ञा भवति ।

उदाहरणम् - (ल्) ल्युट् च-चयनम् । जनयम् । (श्) कर्तरि शप्-भवति ।

पचति । कवर्ग: - (क) क्तक्तवतू निष्ठा भुक्त: । भुक्तवान् । (ख) प्रियवशे वदः खच्-प्रियंवदः । वशंवदः । (ग) ग्लाजिस्थश्च ग्स्नुः - ग्लास्नु: । जिष्णुः । स्थास्नुः । भूष्णुः । (घ्) भञ्जभासमिदो घुरच् -भंगुरम् । (ङ) टाङसिङसामिनात्स्याः- वृक्षात् । वृक्षस्य ।

आर्यभाषार्थ - (अतद्धिते) तद्धित प्रकरण को छोड़कर (प्रत्ययस्य) प्रत्यय के (आदिः) आदि में वर्तमान (ल-शू-कु) लकार, शकार और कवर्ग की (इत्) इत् संज्ञा होती है ।

उदाहरणम् - (ल्) ल्युट् च - चयनम् । चुनना । जयनम् । जीतना । (श्) कर्तरि शय् - भवति । होता है । पचति । पकाता है । कवर्ग (क) क्तक्तवतू निष्ठा-भुक्तः । भुक्तवान् । खाया । (ख) प्रियवशे वदः खच् - प्रियंवदः । प्रिय बोलनेवाला । वशंवदः । वश में रहनेवाला, आज्ञाकारी । (ग) ग्लाजिस्थश्च ग्स्नुः । ग्लाश्नुः । ग्लानि करनेवाला । जिष्णुः । जीतनेवाला । स्थास्नुः । स्थिर । भूष्णुः । सत्तावाला । (घ्) भञ्जभासमिदो घुरच् - भङ्गुरम् । नष्ट होनेवाला । (ङ) टाङसिङसामिनात्स्याः वृक्षात् । वृक्ष से । वृक्षस्य । वृक्ष का ।

सिद्धिः - (१) चयनम् । चि + ल्युट् । चि + यु । चि + अन । चे + अन । चयन + सु । चयनम् । यहां 'चिञ चयनें' (स्वा०3०) धातु से 'ल्युट् च' (३.३.११५) लुट् प्रत्यय करने पर इस सूत्र से प्रत्यय के 'ल्' की इत्संज्ञा होती है । ऐसे ही- 'जि जये' (स्वा.प.) से जि + ल्युट् । जयनम् ।

(२) भवति । भू + लट् । भू + शप् + तिप् । भू + अ + ति । भो + अ + ति । भवति । यहां 'भू सत्तायाम्' (ध्वा.प.) धातु से 'वर्तमाने लट् (३.२.१२३) से प्रत्यय तथा 'तिपतस्झि०' (३.४.७८) से ल् के स्थान में तिप् आदेश करने पर 'कर्तरि शप्' (३.१.६८) से शप् प्रत्यय होता है । इस सूत्र से शप् प्रत्यय के 'श्' की इत् संज्ञा होती है । इसी प्रकार से 'डुपचष् पाके (भ्वा.३.) धातु से पचति ।

(३) भुक्तः । भुज् + क्त । भुज् + त । भुक्त । भुक्त + सु । भुक्तः । यहां 'भुज पालनाभ्यवहारयो:' (रुधा.आ.) से क्त प्रत्यय करने पर इस सूत्र प्रत्यय के 'क' की इत् संज्ञा होती है । भुत् + क्तवतु । भुक्तवान् ।

(४) प्रियंवदः । प्रिय + वद् + खच् । प्रिय + वद् + अ । प्रियमुम् अ + वद् + अ । प्रियंवद + अ । प्रियंवद + सु । प्रियंवदः । यहां प्रिय शब्द उपपदवाली 'वद व्यक्तायां वाचि' (श्वा.प.) धातु से 'प्रियवशे वद: खच् (३.२.३८) से 'खच्' प्रत्यय होता है । इस सूत्र से प्रत्यय के 'ख' की इत् संज्ञा होती है । तत्पश्चात् 'अरुद्विषदन्तजन्तस्य मुम्' (६.३.६७) से उपपद को 'मुम्' का आगम होता है ।

(५) ग्लास्नुः । ग्ला + ग्स्नु । गुला + स्नु । ग्लास्नु + सु । ग्लास्नुः । यहां 'ग्लै हर्षक्षये' (वा.प.) धातु से 'ग्लाजिस्थश्च ग्स्नुः' (३.२.१३९) से ''स्नु' प्रत्यय करने पर इस सूत्र से प्रत्यय के ग' की इत् संज्ञा होती है ।

(६) भङ्गुरम् । भव्ज + पुरच् । भञ्ज् + उर । भग् + उर । भङ्गुर + सु । भङ्गुरम् । यहां 'भजो आमर्दने' (रुधा.प.) धातु से 'भज्ञ्जभासमिदो घुरच्' (३.२.१६१) से 'घुरच्' प्रत्यय करने पर इस सूत्र से प्रत्यय के 'घ' की इत् संज्ञा होती है । तत्पश्चात् प्रत्यय के धित होने से 'चजो: कु घिण्ण्यतो:' (७.२.५२) से धातु के ज्' को कुत्व गार हो जाता है ।

(७) वृक्षात् । वृक्ष + ङसि । वृक्ष + अस् । वृक्ष + आत् । वृक्षात् । यहां वृक्ष शब्द से ङसि प्रत्यय करने पर इस सूत्र से प्रत्यय के 'ङ्' की इत् संज्ञा होती है । तत्पश्चात् 'टाङसिङसामिनात्स्याः' (७.१.१२) से 'इसि' प्रत्यय के स्थान में 'आत्' आदेश होता है । इसी प्रकार से वृक्ष + ङस् । वृक्ष + अस् । वृक्ष + स्य । वृक्षस्य ।

॥ काशिका ॥

चवर्गटवर्गौ प्रत्ययस्यादी इत्संज्ञौ भवतः । “गोत्रे कुञ्जादिभ्यश्च्फञ् “(४.१.९८/१०९९) - कौञ्चायन्यः । छस्य ईयादेशं वक्ष्यति । जस् - ब्राह्मणाः । झस्यान्तादेशं वक्ष्यति । “शण्डिकादिभ्यो ञ्यः “(४.३.९२/१४७२) - शाण्डिक्यः । टवर्गः, “चरेष्टः” (३.२.१६/२९३०) - कुरुचरी, मद्रचरी । ठस्य इकादेशं वक्ष्यति । “सप्तम्यां जनेर्डः “(३.२.९७/३००७) - उपसरज:, मन्दुरजः । ढस्यैयादेशं वक्ष्यति । “अन्नाण्णः” (४.४.८५/१६३७) - आन्नः । पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम् । “तेन वित्तश्चुञ्चुप्चणपौ” (५.२.२६/१८२७) - केशचुञ्चुः, केशचणः । “अवात्कुटारच्च” (५.२.३०/१८३१) “नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः “ (५.२.३१/१८३२) - अवटीटः । आदिरित्येव “कर्मणि घटोsठच्” (५.२.३५/१८३६) - कर्मठः ॥ 

॥ न्यासः ॥

‘प्रियंवदः’ इति । ‘प्रियवशे वदः खच्’ (३.२.३८), ‘अरुर्द्विषदजन्तस्य’ (६.३.६७) इति मुम् । ‘जिष्णुः’ - इति । ‘ग्लाजिस्थश्च क्स्नुः’ (३.२.१३९) इति । ये तु क्स्नुप्रत्ययं गितमिच्छन्ति तन्मतेनेदं गकारस्योदाहरणम् । ये तु कितमिच्छन्ति तन्मतेनेमपि ककारस्योदाहरणं भवति ‘चूडालः’ इति । मत्वर्थे ‘प्राणिस्थादातो लजन्यतरस्याम्’ (५.२.९६) इति लच् प्रत्ययः । ननु च प्रयोजनाभावादत्रेत्संज्ञा न भविष्यति; लित्प्रत्ययात् पूर्वस्योदात्तत्वं प्रयोजनमिति चेत्, न चित्स्वरस्य हि सर्वस्य रस्यापवादत्वात् प्रत्ययस्वरेणह्यन्तोदात्तत्वे सिद्धे चित्करणस्यैतत् प्रयोजनम् - चित्स्वर एव यथा स्यात्, योऽन्यः स्वरः प्राप्नोति स मा भूदिति इदं तु प्रत्युदाहरणम् - लोमान्यस्य सन्तीति ‘लोमादिपामादि’ (५.२.१००) इत्यादिना शः, लोमशः ? एतदपि नास्ति, अत्रापि प्रोयजनाभावादेवेत्संज्ञा न भविष्यति इदं तर्हि प्रत्युदाहरम् - ‘कर्णललाटात् कनलङ्कारे’ (४.३.६५) इति भावार्थे कन्; कर्णिका, यद्यत्रेत्संज्ञा स्यात् ‘किति च’ (७.२.११८) इत्यादिवृद्धिः स्तात्, ततश्च रूपमेव न सिद्ध्येत ? यद्येवम् इवमेवोपन्यसनीयम्, नेतरे ? एवं मन्यते - एतदर्थम् ‘अतद्धिते’इति क्रियमाणमिहापि मन्दधियां प्रतिपत्तिगौरवं परिहर्तु चूडालः, लोमश इत्येवमर्थमपि भवितुमर्हतीति । 

॥ पदपञ्जरी ॥

प्रियंवद इति । ‘अरुर्द्विषदजन्तस्य मुम्’ । जिष्णुरिति । स्नुप्रत्ययस्य गित्त्वपक्षे गकारस्येदमुदाहरणम् । चूडाल इति । मत्वर्थे’प्राणिस्थादातो लजन्यतरस्याम्’इति । अत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम् । कर्णिकेति । ‘कर्णललाटात् कनलङ्कारे’ इति भवार्थे कन् । अत्र’किति च’ इति वृद्धिः स्यात्, रूपञ्च न सिध्येत् । अथ तुदिर्छिदिप्रभृतिषु इरित्यस्य समुदायस्य केनेत्संज्ञा ? मा भूत्समुदायस्य, रेफस्य हलन्त्यम् इति भविष्यति, इकारस्य उपदेशेजनुनासिक इत् इति । इरितो वा इत्यात्रापि - इश्च रश्चेरौ तावितावस्येति विग्रहः, न तु इरित्ययं समुदायः स इद्यस्येति । अवश्यं च इकारस्य पृथगीत्संज्ञेषितव्या, स्वरितेत इत्यात्मनेपदं यथा स्यादिति । यद्येवम्, ‘इदितो नुम् धात्तोः’ इति नुम् प्राप्नोति, कुम्भीधान्यन्यायेन न भवति, यस्य पुनः कुम्भ्यां वान्यत्र वा, नासौ कुम्भीधान्यः । नायं न्यायो नुम्विधौ शक्य आश्रयितुम् । इह हि न स्यात् - टुनदि’ नन्दथुरिति । ज्ञापकात् सिद्धम्, यदयम् ‘न हशः’ इति क्सस्य प्रतिषेधं शास्ति, तज्ज्ञापयति - नेदितां नुम्भवति, अन्यथा हशेरिदित्त्वान्नुमि सति अनिगुपधात्वात् क्सस्य प्राप्तिरेव नास्ति, किं तन्निषेधेन । परिहारान्तरमप्यत्र नुम्विधौ वक्ष्यते ॥ 

॥ शब्दकौस्तुभः ॥

तद्धितभिन्ने प्रत्यये आदिभूता लशकवर्गां इतः स्युः । “ल्युट् च” (३.३.११५) भवनम् । “कर्त्तरि शप्” (३.१.६८) भवति । “क्तक्तवतू निष्ठा” (३.२.३८) प्रियंवदः, वशंवदः । “ग्लाजिस्थश्चग्स्नुः” (३.२.१३९) जिष्णुः। “भञ्जभासमिदोघुरच्” (३.२.१६१) भङ्गुरम् । ङेहरये । अतद्धिते किम् ? चूडालः । “प्राणिस्थादातो लजन्यतरस्याम्” (५.२.९६) लोभशः । अत्र प्रयोजनाभावान्नेत्संज्ञेत्यपि सुवचम् । ‘कर्णिका’ “कर्णललाटात्कनलङ्कारे” (४.३.६५) इति भवार्थे कन् । अत्र “किति च” (७.२.११८) इति वृद्धिः स्यात् रूपञ्च न सिद्ध्येत् । “इर उपसङ्ख्यानम्” (का.वा.) रुणद्धि । अयं वा रेफो “हलन्त्यम्” (१.३.३) इतीत्संज्ञः । इकारस्तु “उपदेशेऽजनुनासिक - ” (१.३.२) इति । स्यादेतत् - एवं सतीदित्त्वान्नुम् स्यात् । न च तक्रकुम्भीदान्यन्याय आश्रयितुं शक्यः, ‘नन्दति’इत्याद्यव्याप्तेः, सत्यम्, स्कन्दिर्‌प्रभृतीनां नकारपाठो ज्ञापकः अन्तेदितामेव नुमिति । यद्वा - “गोः पदान्ते” (७.१.५७) इति सूत्रादन्तग्रहणमनुवर्त्तयिष्यते । तच्चावश्यमनुवर्त्यम् । चक्षिङो नुम् मा भूदिति सति हि नुमि इगुणधत्वाभावादेव क्सस्याप्राप्तेः किं तन्निषेधेन । यद्वा - “इरितो वा” (३.१.५७) इति ज्ञापकात्सकत्वात्स्वरितेत्वप्रयुक्तमात्मनेपदम् । तेन ‘रुन्धे’ इत्यादि सिद्धम् ।

॥ व्याकरणसिद्धान्तसुधानिधिः ॥

तद्धितभिन्ने प्रत्यये आदिभूता लशकवर्गा इतः स्युः । भवनम् । भवति । भूतः । प्रियंवद । जिष्णुः । भङ्गरः । हरये । ल्युट्-शप्-क्त खश्-ग्स्नु-घुरच्-डे इत्येतत्सम्बन्धिनां लादीनां यथाक्रममुक्तसंज्ञा । अतद्धिते किम् ? चण्डालः । प्राणिस्थादातः इति लच् । लोमशः । लोमादि इति शः । कर्णिका । कर्णललाटाद् इति कन् । अत्र किति च इति वृद्धिः स्यात् । इर उपसङ्ख्यानम् । इरितो वा इत्यत्र इर् इत् यस्येति समुदायानुकरणम् । अज्झल्समुदायत्वादप्राप्तावारम्भः । समुदायस्य संज्ञायामवयवाः पारतन्त्र्यादित्संज्ञां न लभन्ते इति इदित्त्वाभावान्न नुम् । न चैवं स्वरितेतत्त्वस्याप्यनापत्तिः । सामर्थ्यादवयवगतस्य स्वरितस्य समुदाये आरोपात् । यद्वा, रेफस्य हलन्त्यम् इति इकारस्य उपदेशेऽजनुनासिकः इतीत्संज्ञा । इरावितौ यस्येत्यवयवयोरेव इत्संज्ञकत्वेन व्याख्यानात् । नन्वेवं नुमापत्तिः । न च कुम्भीधान्यन्यायेन इकारमात्रं यत्रेत्संज्ञं तस्यैव नुमिति वाच्यम् । मैवम्, तेषाम् ऋकारान्तत्वाश्रयणात् । ऋत इद्धातोः इति इत्त्वे रपरत्वे च कृते भिदिर् इत्यादिनिर्देशः । अनङ्गस्यापि निपातनादित्त्वम् । भिद् ऋ इत्यत्र पूर्वम् ऋकारस्येत्संज्ञा तत इत्त्वरपरत्वे । इरितो वा इत्यत्रापि ऋ इत् यस्यायम् इरित् निपातनादित्त्वरपरत्वे । यद्वा स्कन्दिप्रभृतीनां नकारपाठस्य अन्येदितामेव नुमित्यत्र ज्ञापकत्वात् । न च नलोपाभावार्थो नकारोपदेशः । इदित्वादेव तदप्रसङ्गात् । अथवा न दृशः इति क्सप्रत्ययप्रतिषेधो ज्ञापकः । नुमि हि सति इगुपधत्वाभावादेव क्सो न स्यात् । यद्वा गोः पादान्ते इति सूत्रादन्तग्रहणमनुवर्त्य अन्ते इदितामेव नुम् इति व्याख्येयम् । तेन चक्षिङो न नुम् । 

॥ सिद्धान्तकौमुदी ॥

तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥

॥ बालमनोरमा ॥

'राम शस्' - इति स्थिते, 'न विभक्तौ तुस्मा' 'इति सकारस्य नेत्वम् । तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्यस्याऽप्राप्तावाह - लशक्वतद्धिते । 'लशकु' इति समाहारद्वन्द्वः । उपदेशेऽजनुनासिक इत्, 'आदिर्ञिटुडवः, 'षः प्रत्ययस्ये'त्यतः-इदिति , आदिरिति, प्रत्ययस्येति चानुवर्तते । अतद्धित इति षष्ठ्यर्थे सप्तमी । तद्धितभिन्नस्य प्रत्ययस्य आदिभूतं लकारशकारकवर्गम् इत्संज्ञं भवतीत्यर्थः । तदाह - तद्धितवर्जेति । अतद्धित इति किम् ? । 'कर्णललाटात्कनलङ्कारे' । कर्णिका । अत्र ककारस्य तद्धितावयवत्वान्नेत्त्वम् । सति तस्मिन् 'किति चे'त्यादिवृद्धिः स्यात् । एतेन प्रयोजनाऽभावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम् । इति शस इति । शकारस्येत्संज्ञायां 'तस्य लोप' इति लोपः । शकारोच्चारणं तु 'जसः शी' 'तस्माच्छसो नः' इत्यादौ विषयविभागार्थम् । राम असिति स्थिते, अकः सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीर्घे, रामास् इति स्थिते ॥

॥ तत्त्वबोधिनी ॥

लशक्व । 'आदिर्ञिटुडवः' इत्यत 'आदि' - रित्यनुवर्तते 'षः प्रत्ययस्ये' त्यतः प्रत्ययस्येति । 'अतद्धिते' इति पर्युदासाद्वा लभ्यत इत्याह - प्रत्ययाद्या इति । लश्त शश्च कुश्चेति समाहारद्वन्द्वे 'लशक्वि' ति नपुंसकम् । तदितरेतरयोगद्वन्द्वेन विवृणोति - लशकवर्गा इति । अतद्धित इति कम् ? 'प्राणिस्थादातः' इति लच् । चूडालः । 'लोमादिभ्यःशः' । लोमशः । अत्र प्रयोजनाऽभावादेव नेत्संज्ञेति नेदं प्रत्युदाहरणमिति नव्याः । 'कर्णललाटा' दिति भवार्थे कन् । कर्णिका । सत्यां हीत्संज्ञायां 'किति चे' ति वृद्धिः स्यात् । प्रत्ययाद्या इति किम् ? । 'जल्पभिक्षे' ति वृडः षाकन् । वराकः । अत्र 'क्ङिति चे' ति गुणो न स्यात् ॥

॥ लघुशब्देन्दुशेखरः - हिन्दी ॥

लशकु। समाहारद्वन्द्वः। अतद्धिते किम्? 'कर्णललाटात्कनलङ्कारे' कर्णिका। कित्त्वफलन्त्वाद्विवृद्धिः स्यात् । आदिग्रहणाद् वृङ्ः षाकनो न। तस्य कित्वे गुणो न स्यात् ।

'लशकु' इसमें समाहारद्वन्द्व हुआ है । अतः नपुंसकलिङ्ग एकवचन में 'सु' का लोप हो जाने से विभक्ति नहीं सुनाई पड़ती है । सूत्र में अतद्धिते इसलिए कहा गया। कि-'कर्णिका' में जो 'कर्णललाटात् कनलङ्कारे' से 'कन्' प्रत्यय हुआ है उसके आदि ककार की भी इत्संज्ञा न हो। यदि अतद्धित 'कन्' के ककार की भी इत्संज्ञा होती तो कित्वात् 'किति च' से आदिवृद्धि होने लगती तो 'कर्णिका' इस इष्टरूप की सिद्धि नहीं हो पाती। शेखरकार आगे कहते हैं कि 'आदिग्रहणाद्' अर्थात् यह सूत्र तद्धितभिन्न प्रत्यय के आदि में जो ल, श तथा कवर्ग की ही इत्संज्ञा करता है । अतः 'वराक:' में 'वृङ्' धातु से हुए 'षाकन्' प्रत्यय के ककार की इत्संज्ञा नहीं होती है, अन्यथा यदि आदि नहीं कहते तो षाकन के मध्यवर्ती ककार की इत्संज्ञा हो जाती तो प्रत्यय कित् हो जाता तो धातु 'वृ' को गुण नहीं हो पाता 'क्ङिति च' सूत्र निषेध कर देता। अतः 'आदि' का ग्रहण किया गया।



एक टिप्पणी भेजें

0 टिप्पणियाँ