१.३.५
सूत्राणि:॥ आदिर्ञिटुडवः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - आदि: १।१ त्रि-टु-डवः १।३।
समासः - ञिश्च टुश्च डुश्च ते - ञिटुडव: (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - उपदेशे, इत् इत्यनुवर्तते ।
अन्वयः - उपदेशे आदिर्ञिटुडव इत् ।
अर्थ: - पानीय-उपदेशे आदौ वर्तमाना त्रि-टु-डव इत्-संज्ञका भवति ।
उदाहरणम् - (ञ) ञिमिदा स्नेहने - मिन्नः । ञिधृषा प्रागल्भ्ये - धृष्टः । ञिइन्धी दीप्तौ - इद्ध: । (टु) टुवेपृ कम्पने - वेपथुः । टुओश्वि गतिवृद्धयो: - श्वयथुः । (डु) डुपचष् पाके - पक्त्रिमम् । डुवप् बीजसन्ताने छेदने च-वत्रिमम् । डुकृञ् करणे - कृत्रिमम् ।
आर्यभाषार्थ - (आदिः) आदि में विद्यमान (जि-टु-डब:) ञि, टु, डु इन शब्दों की (इत्) इत् संज्ञा होती है ।
उदाहरणम् - (ञि) ञिमिदा - मिन्नः । स्नेह किया । ञिधृषा धृष्टः । प्रगल्भता - चतुराई की । ञिक्ष्विदा - क्ष्विण्णः । स्नेह किया, मुक्त किया । ञिइन्धी- इद्धः । प्रदीप्त हुआ । (दु) टुवेपृ-वेपथुः । कम्पन । टुओश्वि- श्वयथुः । गति । वृद्धि । (डु) डुपचष्-पक्त्रिमम् । पकाया हुआ । डुवप्-वप्त्रिमम् । बोया हुआ । डुकृञ्- कृत्रिमम् । बनाया हुआ ।
सिद्धिः - (१) मिन्नः । ञिमिदा + क्त । मिद् + त । मिद् + न । मिन् + न । मिन्न + सु । मिन्नः । यहां ञिमिदा स्नेहनें' (दि.प.) धातु से क्त प्रत्यय करने पर इस सूत्र से धातु के 'जि' की इत्संज्ञा हो जाती है । 'रदाभ्यां निष्ठातो नः पूर्वस्य च दः' (८.२.४२) से निष्ठा के त' को न आदेश तथा पूर्ववर्ती द्दू को भी न आदेश होता है ।
इसी प्रकार से ञिधृषा प्रागल्भ्यें' (स्वा.प.) ञिक्ष्विदा स्नेहनमोचनयो:' (दिवादि) 'ञिइन्धी दीप्तों (रुधादि) इन धातुओं के आदि में विद्यमान 'त्रि' की इस सूत्र से इत् संज्ञा होती है । ञिधृषा + क्त । धृष्टः । ञिक्ष्विदा + क्त । क्विण्णः । ञिइन्धी + क्त । इद्धः ।
(२) वेपथुः । टुवेवृ + अथुच् । वेप् + अथु । वेपथु + सु । वेपथुः । यहां 'दुवे कम्पने' (वा.आ.) धातु से 'ट्वितोऽथुच्' (३.३.८९) से 'अधुच्' प्रत्यय होने पर इस सूत्र से धातु के 'टु' की इत् संज्ञा होती है ।
(३) पवित्रमम् । डुपचष् + क्त्रि । पच् + त्रि । पक् + त्रि । पक्त्रि + मप् । पवित्र + म । पवित्रम + सु । पवित्रमम् । यहां 'डुपचष् पाके' (वा.३.) धातु से ड्रिवत: क्त्रि:' (३.३.८८) से 'क्त्रि' प्रत्यय होने पर इस सूत्र से धातु के 'डु' की इत् संज्ञा होती है । वित्र' प्रत्यय के पश्चात् 'क्त्रे: मम् नित्यम्' (४.४.२०) से नित्य मप् प्रत्यय होता है । पक्त्रिमम् । इसी प्रकार से 'डुव बीजसन्ताने छेदने च' (भ्वा.प.) से ववित्रमम् और 'डुकृञ् करणे' (त.३.) धातु से 'कृत्रिमम्' शब्द सिद्ध करें । वप्त्रिमम् । बोया हुआ अथवा काटा हुआ । कृत्रिमम् । बनाया हुआ ।
॥ काशिका ॥
‘इत्’ इति वर्तते । आदिशब्दः प्रत्येकमभिसंबध्यते । ‘ञि, टु, डु’ इत्येतेषां समुदायानामादितो वर्तमानानामित्संज्ञा भवति । ‘ञिमिदा ‘(धा.पा.७४३) – मिन्नः । ‘ञिधृषा’(धा.पा.१२७०) - धृष्ट: । ‘ञिष्विदा’ (धा.पा.७४०) क्ष्विण्णः । ‘ञिइन्धी’ (धा.पा. १४४९) - इद्धः । ‘टुवेवृ’ (धा.पा.३६७) - वेपथुः । ‘टुओश्वि’(धा.पा.१०१०) - श्वयथुः । ‘डुपचष् (धा.पा.९९६) - पक्त्रिमम् । ‘डुवप् (धा.पा. १००३) - उप्त्रिमम् । ‘डुकृञ् ‘(धा.पा. १४७३) - कृत्रिमम् । आदिरिति किम् ? पटूयति, कण्डूयति । उपदेशे इत्येव - ञिकारीयति ॥
॥ न्यासः ॥
अत्र टुग्रहणेन ‘अणुदित्सवर्णस्य चाप्रत्ययः’ (१.१.६९) इति टवर्गस्य ग्रहणं कस्मान्न भवति ? उकार्सयानुनासिकत्वाप्रतिज्ञानात्, ‘चुटू’ (१.३.७) इत्यत्र टुग्रहणाच्च । यद्यत्र टवर्गस्य ग्रहणं स्यात्, तदानेनैव प्रत्ययादेरपि सिद्धत्वात् टुग्रहणमनर्थकं स्यात् । ‘मिन्नः’ इति । ‘जीतः क्तः’ (३.२.१८७), ‘आदितश्च’ (७.२.१६) इतीट्प्रतिषेधः । ‘वेपथुः’ इति । ‘ट्वितोऽथुच’ (३.३.८९) । ‘पक्त्रिमम्’ इति । ‘वितः त्रि:’ (३.३.८८) । पाकेन निवृत्तम्, ‘क्त्रेर्मम् नित्यम्’ (४.४.२०) इति मप् । ‘उत्रिमम्’ इति । वच्यादिसूत्रेण (६.१.१५) सम्प्रासारणम् । ‘पटूयति’ इति । ‘सुप आत्मनः क्यच्’ (३.१.८), ‘अकृत्सार्वधातुकयोः’ (७.४.२५) इति दीर्घः । कण्डूयति’ इति । ‘कण्ड्वादिभ्यो यक्’ (३.१.२७) । कथं पुनरत्रेत्संज्ञाप्राप्तिः, यावता सूत्रे टुडुशब्दौ ह्रस्वान्तावुपात्तौ दीर्घान्ताविमौ ? नेतत्, यद्यपि दीर्घत्वे कृते दीर्घान्तावेतौ भवतस्तथाप्युदेशे ह्रस्वान्तावेव, ‘उपदेशे’ (१.३.२.) इति चेहानुवर्तते । तत्र पटुशब्दस्य पृथ्वादिपाठात् टुशब्दस्योपदेशे ह्रस्वान्तता सिद्धा । कण्डूशब्दस्य ‘कण्डवादिभ्यो यक्’ (३.१.२७) इत्यत्र पाठात् डुशब्दस्यापि । द्विविधा हि कण्ड्वादयः - धातवः प्रातिपदिकानि च । तत्र धातुः कण्डुशब्दो ह्रस्वान्तः । प्रातिपदिकं तु कण्डुशब्दो दीर्घान्तः । अथवा - यद्यप्युपदेश इति नानुवर्तते, तथापि दीर्घत्वे कृतेप्येकदेशविकृतस्यानन्यत्वादस्त्येव प्राप्तिः । ञिकारीयति’ इति । पूर्ववत् क्यच् । ञिकारशब्दो न क्वचित् पठ्यत इति तेनात्रेत्संज्ञा न भवति यदि स्यात्, लोपे कृते रूपं न सिद्ध्येत् ॥
॥ पदपञ्जरी ॥
आदिशब्दः प्रत्येकमभिसंबद्ध्यते, तेनैकवचनमुपपद्यते इति भावः । अत्र’टु’ इति न टवर्गस्य ग्रहणम्,उकारस्याननुनासिकत्वेनानुदित्त्वात्, ‘चुटू’ इत्युत्तरत्र वर्गग्रहणाद्, ञिडुभ्यां साहचर्याच्च । मिन्नि इति । ‘आदितश्च’ ‘रदाभ्यां निष्ठातो नः । वेपथुरिति । द्वितोऽथुच् । उप्त्रिममिति । वितः त्रिः क्त्रेर्मम् नित्यम् यजादित्वात्संप्रसारणम् । पटुयतीति । पृथ्वादिषु टुशब्दस्योपदेशः, अत्रेत्संज्ञायां सत्यामवयवे कृतं लिङ्ग समुदायस्य विशेषकमिति समुदायादथुच्प्रसङ्गः । केवलस्यानुदाहरणत्वम्,इत्कार्याभावात् । कण्डूयतीति । ननु चायं दीर्घान्तः कण्ड्वादिषूपदिश्यते, एवं तर्हि कण्डूमिच्छतीति क्यजन्तात् क्विपि कण्डु ब्राह्मणकुलं तदिच्छतीति पुनः क्यचि द्रष्टव्यम्, तत्रेत्संज्ञायामन्तरङ्गत्वादकृत एव दीर्घे भवत्ययं दुशब्दः, गणपठितश्च कण्डूशब्द एकदेशविकृत इति स्यात् प्रसङ्गः । ञिकारीयतीति । नायं समुदायः क्वचिदुपदिष्टः ॥
॥ शब्दकौस्तुभः ॥
उपदेशे आदिभूताः ञि टु हु एते इतः स्युः । “ञिइन्धी” (रुधा.आ.१४४९) इद्धः। “टुवेपृ” (भ्वा.आ.३६७) वेपथुः । “डुवप्” (भ्वा.उ.१००३) उप्त्रिमम् । उपदेश इति किम् ? ञिकारीयति । आदिः किम् ? पटूयति । अस्ति हि पृथ्वादिषु पटुशब्दस्योपदेशः । अत्रेत्संज्ञायां सत्यामथुच् स्यात् । अवयवे ह्यचरितार्थं द्वित्वं समुदायस्य विशेषकं स्यात् ।
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
उपदेशे आदिभूता एते इतः स्युः । आदिरिति सौत्रमेकवचनम् । ञि इन्धी इद्धः । जीतः इति वर्त्तमाने क्तः । दुवेपृ वेपथुः । द्वितोऽथुच् । डुवप् उष्त्रिमम् । ड्वित इति क्त्रिः । उपदेशे किम् ? ञिकारीयति । डुङ्घवनौ । ऋदोरप् । ङवं कर्तुमिच्छति निङवयिषति । तत्करोति ण्यन्तात्सन् इत्यपि प्रत्युदाहार्यम् । आदिः किम् ? पटूयति । पृथ्वादिषु पटुशब्दोपदेशसत्त्वात् । अत्रेत्संज्ञायाम् अवयवे अचरितार्थं लिङ्ग समुदायस्य विशेषकमित्यथुच् स्यात् ।
॥ सिद्धान्तकौमुदी ॥
उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वान्नलोपो न । नन्द्यात् । चदि आह्लादे । चचन्द । त्रदि चेष्टायाम् । तत्रन्द । कदि क्रदि क्लदि आह्वाने रोदने च । चकन्द । चक्रन्द । चक्लन्द । क्लिदि परिदेवने । चिक्लिन्द । शुन्ध शुद्धौ । शुशुन्ध । नलोपः । शुध्यात् ॥ अथ कवर्गीयान्ता अनुदात्तेतो द्विचात्वारिंशत् ॥ शीकृ सेचने । तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके । लोकृ दर्शने । लोकते । लुलोके । श्लोकृ संघाते । संघातो ग्रन्थः । स चेह ग्रथ्यमानस्य व्यापारो ग्रथितुर्वा । आद्ये अकर्मको द्वितीये सकर्मकः । श्लोकते । द्रेकृ ध्रेकृ शब्दोत्साहयोः । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके । दिध्रेके । रेकृ शङ्कायाम् । रेकते । सेकृ स्रेकृ स्रकि श्रकि श्लकि गतौ । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः । सिसेके । शकि शङ्कायाम् । शङ्कते । शशङ्के । अकि लक्षणे । अङ्कते । आनङ्के । वकि कौटिल्ये । वङ्कते । मकि मण्डने । मङ्कते । कक लौल्ये लौल्यं गर्वश्चापल्यं च । ककते । चकके । कुक वृक आदाने । कोकते । चुकुके । वर्कते । ववृके । ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन (वा.) ॥ चक तृप्तौ प्रतीघाते च । चकते । चेके । ककि वकि श्वकि त्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ तीकृ रघि लघि गत्यर्थाः । कङ्कते । डुढौके । तुत्रौके । सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः (वा.) ॥ ष्वष्कते । षष्वष्के । अत्र तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि । अघि वघि मघि गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्यारम्भे चेत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । मघि कैतवे च । राघृ लाघृ द्राघृ सामर्थ्ये । राघते । लाघते । ध्राघृ इत्यपि केचित् । द्राघृ आयामे च । आयामो दैर्घ्यम् । द्राघते । श्लाघृ कत्थने । श्लाघते ॥ अथ परस्मैपदिनः पञ्चाशत् ॥ फक्क नीचैर्गतौ । नीचैर्गतिः मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क । तक हसने । तकति । तकि कृच्छ्रजीवने । तङ्कति । बुक्क भषणे । भषणं श्वरवः । बुक्कति । कख हसने । प्रनिकखति । ओखृ राखृ लाखृ द्राखृ ध्राखृ शोषणालमर्थयोः । ओखति । ओखांचकार । शाखृ श्लाखृ व्याप्तौ । शाखति । उख उखि वख वखि मख मखि णख णखि रख रखि लख लखि इख इखि ईखि वल्ग रगि लगि अगि वगि मगि तगि त्वगि श्रगि श्लगि इगि रिगि लिगि गत्यर्थाः । द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥
॥ बालमनोरमा ॥
आदिः । 'भूवादयो धातवः' इत्यस्माद्धात्व इत्यनुवृत्तं षष्ठ्या विपरिणम्यते । 'उपदेशेऽजनुनासिकः' इत्यस्मादुपदेशे इति, इदिति चानुवर्तते । आदिरिति इदिति च बहुत्वे एकवचनम् । तदाह - उपदेश इति । ट्विकरणं 'द्वितीऽथु'जित्येतदर्थम् । नन्दतीति । इदित्त्वान्नुम् । इदित्त्वादिति । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वादनिदितामिति नलोपो नेत्यर्थः । नन्द्यादिति । अन्त्यात्, अन्द्यादित्यस्याप्युपलक्षणं । चदीति । इदित्त्वान्नुमित्याह - चन्दतीति । त्रदीति । अदुपधोऽयम् । इदित्त्वान्नुमित्याह - त्रन्दतीति । क्रदि क्लदीति । अदुपधौ । क्लिदि परिदेवने इति । अनुदात्तेत्सुपठितस्येह पाठः परस्मैपदार्थः । शुन्ध शुद्धाविति । अकर्मकोऽयम् । शुन्धतीति । शुचिर्भवतीत्यर्थः । ननु शुधीत्येवमिदिदेवाऽयं कुतो न पठित इत्यत आह - नलोप इति । आशीर्लिङि 'अनिदिता'मिति नलोपे शुध्यादिति रूपमिष्टम् । इदित्त्वे तु नलोपो न स्यादिति भावः । 'अथ कवर्गीयान्ता' इत्यादि 'लोकृ' इत्यन्तं स्पष्टम् । श्लोकृ इति । सङ्घातशब्दं व्याचष्टे - ग्रन्थ इति । ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथं धात्वर्थत्वमित्याशङ्क्याह - स चेहेति । ग्रन्थनं ग्रन्थः - सङ्घीभावःष सङ्घीकरणं वा । तत्र सङ्घीभवनं सङ्घनिष्ठम् । सङ्घीकरणं तु सङ्घीकर्तृनिष्ठम् । तत्र सङ्घीभवनार्थकत्वेऽकर्मकः । सङ्घीकरणार्थत्वे सकर्मकः इत्यर्थः । श्लोकत इति । सङ्घीभवतीत्यर्थः । सङ्घीकरोततीति वा । द्रेकृ ध्रेकृ इति । शब्दनं शब्दः । [एच इगिति ह्रस्व इति । लिट एशि द्वित्वे 'हलादिः शेषे'देद्रेक् ए इति स्थिते अभ्यासे एकारस्य ह्रस्वो भवन् 'एच इग्घ्रस्वादेशे' इति इकारो भवतीत्यर्थः] । दिध्रेके इति । अभ्यासे धकारस्य जश्त्वेन दकारः । एकारस्य तु ह्रस्व इकारः । रेकृ इति । शङ्का - संशयः, आक्षेपो वा । शीकृ सेचने इत्यारभ्य एतत्पर्यन्ता ऋदितः । सेकृ इति । आद्यौ एकारमध्यौ ऋदितौ । इतरे त्रयोऽदुपधा इदितः । त्रय इति । पञ्चसु आद्यास्त्रय इत्यर्थः । अषोपदेशत्वादिति । सेकृधातोः पर्युदासान्न षत्वमिति भावः । 'एच इग्घ्रस्वादेशे' इत्यभिप्रेत्याह - सादित्वाऽभावान्न षोपदेशत्वं । ततश्च सकारस्यादेशसकारत्वाऽभावान्न षत्वमिति भावः । 'एच इग्घ्रस्वादेशे' इत्यभिप्रेत्याह - सिसेक इत्यादि । 'सस्रङ्के' इत्यादावदित्त्वान्नुम् । शकीति । इदित्त्वान्नुमित्याह - -शङ्कते । शशङ्क इति । अकीति । लक्षणं - चिह्नीकरणम् । अङ्क इति । इदित्त्वान्नुम् । आनङ्क इति । 'तस्मान्नुड् द्विहलः'इति नुट् ।वकि कौटिल्ये इत्यादि स्पष्टम् । कुक वृकेति । द्वितीय ऋदुपधः । शपि लगूपधगुणं मत्वा आह - कोकत इति । चुकुक इति । 'असंयोगा'दिति कित्त्वान्न लघूपधगुणः । अभ्यासे चुत्वं । लघूपधगुणे रपरत्वं मत्वाह - वर्कत इति । लिटि 'असंयोगा'दिति कित्त्वान्न गुण इति मत्वाह - ववृके इति । उरदत्वं, हलादिः शेषः । ननु कित्त्वात्परत्वाद्गुणः तृप्तावकर्मकः । प्रतिघाते सकर्मकः । एत्वाभ्यासलोपौ मत्वाह - चेक इति । ककीति । एते पञ्चदश धातवः । आद्याश्चत्वार इदितः । द्वितीयो वकारादिः । तृतीयस्तालव्यादिः । पञ्चमषष्ठौ दशमाद्याश्चत्वारश्च ऋदितः । दशमद्वादशौ इदुपधौ । रघिलघी इदितौ चतुर्थान्तौ । 'कङ्कते' इत्यादाविदित्वान्नुम् । डुढौके तुत्रौक इति । अभ्यासे ढस्य जश्त्वेन डकारः, ओकारस्य ह्रस्व उकारः । अथ ष्वष्कधातोः षोपदेशपरिगणनाद्धात्वादेरिति सत्वे प्राप्ते आह - सुब्धात्विति । षष्वष्क इति । संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न, संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च । तृतीय इति । तथा च 'स्वष्कते' इति रूपं । केवलदन्त्यपरकसादित्वाऽभावेन षोपदेशत्वाऽभावः । टेकते इति । लघूपधगुणः । टीकत इति । दीर्घोपधत्वान्न गुणः । एवं तेकते तीकत इति । रङ्घते लङ्घते । इदित्त्वान्नुम् । लघि भोजननिवृत्तावपीति । निवृत्तिः - विमुखीभवनम् । लङ्घते । न भुङ्क्त इत्यर्थः । अघीति । त्रयोऽपि चतुर्थान्ता इदितः । आनङ्घ इति । 'तस्मान्नुड् द्विहलः' इति नुट् । वङ्घत इति । इदित्त्वान्नुम्. लिटि तु ववङ्घे इति रूपम् । वादित्वात्संयुक्तहल्मद्यस्थत्वात्संयोगात्परत्वेन लिटः कित्त्वाऽभावाच्च एत्त्वाभ्यासलोपौ न । मघि कैतवे चेति । कैतवं वञ्चना । राघृ इचि त्रयोऽपि ऋदितः । सामर्थ्यं - कार्यक्षमीभवनम् । ध्राघृ इत्यपीति । चतुर्थादिमपि केचित् पठन्तीत्यर्थः । द्राघृ इति ।आयामः - दीर्घीभवनम् । श्लाघृ कत्थन इति । कत्थनम् - स्तुतिः । शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः । फक्क नीचैरित्यादि स्पष्टं । प्रनिकखतीति । 'शेषे विभाषे'त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः । ओखृ इति । अलमर्थः - भूषणक्रिया, पर्याप्तिः, वारणं वा । ओखति । ओखांचकार । शाखृ श्लाखृ इति । श्लाघृ इति चतुर्थान्त आत्मनेपदेषु गतः । उख उखीति । पञ्चदशेति । 'ईखि इत्यन्ता' इति शेषः । त्रयोदशेति । 'वल्गादय' इति शेषः । तत्र इदित्त्वान्नुम् । आशीर्लिङि नलोपाऽभावश्च । पठन्तीति । तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् । ओखतीति । शपि लघूपधगुणः ॥
॥ तत्त्वबोधिनी ॥
'उपदेशेऽजनुनासिक' इत्यतोऽनवर्तनादाह - उपदेशे इति । उपदेशे किम् । ञिकारीयति । ञिष्वप् । 'ञीतः क्तः' ॥ । सुप्तः । 'ट्वितोऽथुच्' । नन्दथुः । 'ड्वितः क्रिः' । कृत्रिमम् । क्लिदि परिवेदने । अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदार्थं स्वरितेत्स्वयं न पठितः । शुन्ध शुद्धौ । अयं शौचकर्मणि युजादौ । माङ्गलिक एधतिरुक्तस्तवर्गीयान्तस्तदनुरोधेन कतिचित्तवर्गीयान्ताः पठिताः । इदानीं लोकप्रसिद्धकादिपाठक्रमेणाह - अथेत्यादि । चुकुके इति । परमपि गुणं बाधित्वा नित्यत्वात् 'असंयोगा' दिति कित्त्वम् । सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः । सुब्धात्वित्यादि । सुब्दातोरुदाहरणानि - षट् दन्ता अस्य षोडन् । तमाचष्टे । णिचि टिलोपः । षोडयति । एवं षण्डं करोत्याचष्टे वा षण्डयति । षण्डीयतीत्यत्र तु षण्डशब्दात्क्यचि ईत्वं बोध्यम् । एतच्च वार्तिकं भाष्ये प्रत्याख्यातम् । तथाहि 'धात्वादे' रिति उपदेश इति वर्तते । न च सुब्धातूनामुपदेशोऽस्ति । ष्ठिवुष्वष्कती तु यकारादी । 'लोपो व्यो' रिति यलोपः । प्रनिकखतीति । 'शेषे विभाषे' त्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know