Ad Code

१.३.४ सूत्राणि:॥ न विभक्तौ तुस्माः ॥ ॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

 



१.३.४

सूत्राणि:॥ न विभक्तौ तुस्माः

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - न अव्ययपदम्, विभक्तौ ७।१ तुस्मा: १।३।   

समासः - तुश्च स् च मश्च ते - तुस्मा: (इतरेतरयोगद्वन्द्वः) ।

अनुवृत्तिः - 'उपदेशे इत्' इत्यनुवर्तते ।

अन्वयः - विभक्तौ तुस्मा इद् न ।

अर्थ: - पाणिनीय-उपदेशे विभक्तौ वर्तमानानां तवर्ग-सकार-मकाराणाम् इत् संज्ञा न भवति ।

उदाहरणम् - (तवर्गस्य) वृक्षात् । प्लक्षात् । (सकारस्य) ब्राह्मणाः । पचतः । पचथ: । (मकारस्य) अपचताम् । अपचतम् । 'हलन्त्यम्' (१.३.३) इति इत्संज्ञायां प्राप्तायां प्रतिषेधो विधीयते ।

आर्यभाषार्थ - (विभक्तौ) किसी विभक्ति में विद्यमान (तु-स्-मा:) तु तवर्ग, सकार और मकार की (इत्) इत् संज्ञा (न) नहीं होती है । 'हलन्त्यम्' (१.३.३) से इनकी इत् संज्ञा प्राप्त होती थी, अतः उसका यहां निषेध किया गया है ।

उदाहरणम् - (तवर्ग) वृक्षात् । वृक्ष से । प्लक्षात् । पीपल या पिलखन वृक्ष से । (सकार) ब्राह्मणाः । सब ब्राह्मण । पचतः । वे दोनों पकाते हैं । पचथः । तुम दोनों पकाते हो । मकार - अपचताम् । उन दोनों ने पकाया । अपचतम् । तुम सबने पकाया ।

सिद्धिः - (१) वृक्षात् । वृक्ष + ङसि । वृक्ष + अस् । वृक्ष + आत् । वृक्षात् ।

यहां वृक्ष शब्द से 'ङसि' प्रत्यय और उसके स्थान में 'टाङसिङसामिनात्स्याः' (७.१.१२) से 'आत्' आदेश होता है । इस सूत्र से विभक्ति संज्ञक 'आत्' के तकार की इत् संज्ञा का निषेध है । इसी प्रकार से प्लक्षात् ।

(२) ब्राह्मणाः । ब्राह्मण + जस् । ब्राह्मण + अस् । ब्राह्मणास् । ब्राह्मणारु । ब्राह्मणार् । ब्राह्मणाः ।

यहां ब्राह्मण शब्द से विहित विभक्ति संज्ञक प्रत्यय के सकार की इत् संज्ञा नहीं होती है । इसी प्रकार से पच् + तस्-पचतः । पच् + थस्-पचथः ।

(३) अपचताम् । पच् + लङ् । अट् + पच् + तस् । अ + पच् + ताम् । अ + पच् + शप् + ताम् । अ + पच् + अ + ताम् । अपचताम् ।

यहां 'डुपचष् पार्क' (वा.३.) धातु से 'अनद्यतने लङ्' (३.२.१११) से लङ्' प्रत्यय, 'तिप्तस्झि' (३.४.७८) से ल्' के स्थान में 'तस्' आदेश और उसके स्थान में 'स्स्थमियां तान्तन्ताम:' (३.१.१०१) से ताम्' आदेश होता है । इस सूत्र से विभक्ति संज्ञक 'ताम्' के मकार की इत् संज्ञा नहीं होती है ।

॥ काशिका ॥

पूर्वेण प्राप्तायामित्संज्ञायां विभक्तौ वर्तमानानां तवर्गसकारमकाराणां प्रतिषेध उच्यते । तवर्गः, “टाङसिङसामिनात्स्याः(७.१.१२/२०१) - वृक्षात्, प्लक्षात् । सकारः, जस् - ब्राह्मणाः । तस्, थस् - पचतः पचथः । मकारः - अपचताम्, अपचतम् । विभक्ताविति किम् ? “अचो यत्” (३.१.९७/२८४२), “ऊर्णाया युस्” (५.२.१२३/१९२९), “रुधादिभ्यः श्नम्” (३.१.७८/२५४३) । “किमोऽत्” (५.३.१२/१९५९), “इटोऽत्” (३.४.१०६/२२५७) इत्यत्र प्रतिषेधो न भवति, अनित्यत्वादस्य प्रतिषेधस्य । “इदमस्थमुः” (५.३.२४/१९७२) इत्युकारानुबन्धनिर्देशादनित्यत्वमुपलक्ष्यते ॥

॥ न्यासः ॥

‘वृक्षात्’ इत्यत्र तकारस्येत्संज्ञायां सत्याम् ‘तित्स्वसितम्’ (६.१.१८५) इति स्वरितत्वं स्यात् । ‘अपचतात्, अपचतम्’ इति । पचेर्लङ्, ‘तस्तथस्थमिपां तान्तन्तामः’ (३.४.१०१) इति तान्तमादेशौ भवतः । किमोऽत्’ (५.३.१२) इत्यत्राच्छब्दस्य ‘प्राग् दिशो विभक्तिः’ (५.३.१) इत्यस्य मकारस्येत्संज्ञापरित्राणार्थादुकारानुबन्धाद्विज्ञायते । नित्यत्वे हि सत्येतस्मादेव प्रतिषेधान्मकारस्येत्संज्ञा न भविष्यतीत्युकारानुबन्धग्रहणमनर्थकं स्यात् । 

॥ पदपञ्जरी ॥

वृक्षादिति तकारस्येत्संज्ञायाम्’तित्स्वरितम्’ स्यात् । ननु चादेशोत्तरकालं स्थानिवद्भावेनास्य विभक्तिसंज्ञा, उपदेशानन्तरमेवेत्संज्ञा प्राप्नेति ? सत्यम्; प्रतिषेधसामर्थ्यत्तु भाविन्यपि विभक्तित्वे प्रतिषेधो भविष्यति । वर्गग्रहणं किम् ? वृक्षानित्यत्रापि यथा स्यात् क्व पुनरुपदेशे नकारोऽयमन्त्यः, म तावत्तस्य क्वचिदुपदेशः ? ‘शसो न इत्यत्र त्वकारो नकारस्येत्संज्ञापरित्राणार्थ इति शक्यं वक्तुम् । इह तर्हि’झस्य रन्’पचेरन्निति । ब्राह्मणा इति । रूपोदाहरणमेतत् । कार्योदाहरणं तु भवतः इति । अत्र’सिति च’ इति पदत्वे जश्त्वं स्यात् । पचतः पचथ इत्यत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम् । अपचतामित्यादि । तामादयस्तसादीनामन्त्यादचः परे स्युः । किमोऽत् इत्यस्य प्राग्दिशो विभक्तिः इति विभक्तित्वम् । इटोऽत् इत्यस्यापि स्थानिवद्भावेनेति तयोरपि प्रतिषेधः प्राप्नोति, तत्राह किमोऽदित्यादि । अनित्यत्वं तु’इदमस्थमुः’ इति थमोरुकारोऽनुबन्धाद्विज्ञायते । क्वचित्तु वृत्तावेव ‘इदमस्थमुः’इत्युकारानुबन्धनिर्दशादनित्यत्वमुपलक्ष्यते इति पठ्यते । इदानीं तदानीमिति । दानीमस्तु प्रतिष्धो भवत्येव । अनित्यत्वं हि ज्ञापितम्, न पुनः प्राग्दिशीयेष्वस्याप्रवृत्तिः ॥

॥ शब्दकौस्तुभः ॥

विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । रामान्, पचेरन्, ब्राह्मणाः, पचतः, रामम्, अद्राक्षम्, विभक्तौ किम् ? “अचो यत्” (३.१.९७) “ऊर्णाया युस्” (५.२.१२३) “रुधादिभ्यः श्नम्” (३.१.७८) “प्राग्दिशोविभक्तिः” (५.३.१) इति यत्र विभक्तिसंज्ञा तत्रायं निषेधो न भवति । “इदमस्थमुः” (५.३.२४) इति मकारपरित्राणार्थमुकारानुबन्धासञ्जनाज्ज्ञापकात् । तेन “किमोत्” (५.३.१२) ‘क्व’ इति सिद्धम् । स्यादेतत् - ’तदानीम्’ इत्यादौदानीमोऽपि तर्हि मित्त्वं स्यादिति चेन्न, यान्तत्त्वात्तस्य । यकारो ह्यन्त्यत्वमनुभवन्मकारस्येत्संज्ञां प्रतिबध्नाति । “संयोगान्तस्य लोपः” (८.२.२३) इति यलोपस्येत्संज्ञां प्रत्यसिद्धतया मकारस्यान्त्यत्वाभावात् । यद्वा “इदमस्थमुः” (५.३.२४) इत्यनेनानित्यत्वमात्रं ज्ञाप्यते, न तु प्राग्दिशीयेष्वप्रवृत्तिः । “औत्” (७.३.१२८) “इटोऽत्” (३.४.१०६) इत्यत्र तु मुखसुकार्थस्तकारः न त्वित्संज्ञकः, तित्स्वरापत्तेः । न चेष्टापत्तिः, ‘उरौ वाये’ ‘भक्षीय तवराधारा’ इत्यादौ ‘उरौ भक्षीय’ इत्यनयोरन्तोदात्ततादर्शनात् । “आद्युदात्तश्च” (३.१.३) इति सूत्रे ‘भविषीय’ इत्यत्र भाष्यकारैरेवान्तोदात्तत्वस्य सिद्धान्तितत्वाच्च । यत्त्विहवृत्तिकृतोक्तम्, “किमोत्,(५.३.१२) “इटोऽत्” (३.४.१०६) इत्यत्रेऽयं निषेधो न भवति अनित्यत्वादस्य विधेरिति, तत्स्वोक्तिविरुद्धम् । “इटोत्” (३.४.१०६) इति तेनैवोक्तत्वात् । तस्मादभ्युपेत्यवादमात्रम् । यद्वा - “इटोऽत्” (४.३.१०६) इत्यत्रास्य अकारमात्रस्य विधेः । अनित्यत्वादिति तु “किमोत्” (५.३.१२) इत्येतत्परमिति व्याख्येयम् ।

॥ व्याकरणसिद्धान्तसुधानिधिः ॥

विभक्तिस्थास्तवर्गसकारमकारा इतो न । रामान्, पचेरन् । ब्राह्मणाः, पचतः । रामम् । अद्राक्षम् । विभक्तौ किम् ? अचो यत्, ऊर्णाया युस्, रुधादिभ्यः श्नम् । न च किमोऽत् इत्यादावपि निषेधापत्तिः । प्राग्दिशो विभक्तिः इति संज्ञायाम् एतदप्रवृत्तेः । अत्र च ज्ञापकम् इदमस्थमुः इति मकारस्य इत्संज्ञापरित्राणार्थमुकारकरणम् । न चैवं तदानीमित्यत्र दानीमो मित्त्वापत्तिः । तस्य यान्तत्वात् । संयोगान्तलोपस्य इत्संज्ञां प्रत्यसिद्धतया मान्तत्वाभावात् । यद्वा निषेधानित्यत्वमात्रं ज्ञाप्यम् । औत्, इटोऽत् इत्यादौ तकार उच्चारणार्थः । अन्यथा तित्स्वरापत्तेः । उरौ वा यो, भक्षीय तव राधस इत्यादौ प्रत्ययस्वरेणान्तोदात्तदर्शनाच्च । लविषीयेत्यत्र भाष्ये एवान्तोदात्तत्वोक्तेश्च । 

॥ सिद्धान्तकौमुदी ॥

विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्त्वम् ॥

॥ बालमनोरमा ॥

अथ जसः सकारस्य 'हलन्त्यम्'मितीत्संज्ञायां लोपमाशङ्क्याह - न विभक्तौ । तु स् म एतेषां द्वन्द्वः । 'इत' इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते । तदाह - विभक्तिस्था इत्यादिना ॥

॥ तत्त्वबोधिनी ॥

न विभक्तौ । 'हलन्त्य' मितीत्संज्ञाप्राप्तौ निषेधारम्भः । 'तु' इत्यस्योदाहरणं रामात्, पचेरन् । मकारस्य तु-रामम्, अद्राक्षम् । विभक्तौ किम् ? । 'अचो यत्' ऊर्णायां युस्' , 'रुधादिभ्यः श्नम्' । एतेष्वन्त्यस्येत्संज्ञा यथा स्यात् । 'इदमस्थमु' रित्यत्र मकारपरित्राणार्थमुकारानुबन्धासञ्जनादनित्योऽयमिति ज्ञायते । अन्यथा 'प्राग्दिशो विभक्ति' - रिति थमो विभक्तित्वाद्दानीमो मकारस्येवानेनैव सूत्रेणेत्त्वनिषेधसिद्धेः किं तेनेति । तेन 'किमोऽत्' क्वेति सिद्धम् ॥

॥ लघुशब्देन्दुशेखरः - हिन्दी ॥

न विभक्तौ (पा.सू.१.३.४) हलन्त्यमित्यस्य निषेधोऽयम् । अनित्यमिदं थमोर्मकारपरित्राणार्थादुदित्करणात् । तेन 'किमोऽत्' (पा.सू.५.३.१२) 'क्व' इति सिद्धम् । प्राग्दिशीयत्वादियं विभक्तिः । अत एव दानीमो मस्य नेत्वमिति नव्याः । भाष्ये तु प्राग्देशी- येष्वास्याप्रवृत्तावुदित्वं ज्ञापकमित्युक्त्वा 'दानीञ्च' (पा.सू.५.३.१८) इति सूत्रे 'लोपो व्यो:' इति लोपेन यकारं प्राश्लिष्येत्संज्ञा वारिता । अन्यत्रानित्यत्वस्य फलाभावाच्चैवमेवोक्तम् । लोपस्यासिद्धत्वाच्च नान्त्यत्वमिति बोध्यम् । विभक्तौ किम् ? अचो यत् (पा.सू.३.१.९७) ।

'न विभक्तौ', यह 'हलन्त्यम्' सूत्र से होने वाली इत्संज्ञा का निषेधक है । 'न विभक्तौ' से किया जाने वाला 'इत्संज्ञा का निषेध' अनित्य है । यह बात 'इदमस्थमुः' से विहित 'थमु' में जो मकार को इत्संज्ञा लोप से बचाने के उदित किया गया अर्थात् 'थमु' में अन्त में उकार का उच्चारण करके उसकी इत्संज्ञा, लोप किया जाता है, तो 'म'कार अन्त्य हलू नहीं होता है, तो उसकी इत्संज्ञा लोप नहीं होता ।

इस प्रकार 'थमु' के मकार को इत्संज्ञा तथा लोप से बचाने के लिए अर्थात् 'मकार' में अन्त्यत्व नहीं आवे इसके लिए जो 'मु' में 'उकार' का उच्चारण किया गया, उसी से सिद्ध होता है कि 'न विभक्तौ' से होनेवाला 'इत्संज्ञानिषेध' अनित्य है । अन्यथा 'थमु' के बजाय यदि 'थम्' यह आदेश करते तब भी 'न विभक्तौ' से 'म'कार को इत्संज्ञा का निषेध हो ही जाता, वहाँ उकार का उच्चारण करना व्यर्थ ही है । वही उकारोच्चारण व्यर्थ पड़कर ज्ञापित करता है कि 'न विभक्तौ' से होने वाला निषेध अनित्य है । उपर्युक्त ज्ञापन का फल यह हुआ कि 'किमोत्' से 'क्व' प्रयोग की सिद्धि हुई । क्योंकि वहाँ सप्तम्यन्त 'किम्' शब्द से 'किमोत्' अत् प्रत्यय होता है, उसके तकार की इत्संज्ञा हो जाती है, अनित्य होने के कारण 'न विभक्तौ' नकार की इत्संज्ञा का निषेध नहीं करता, पुनः विभक्तिकार्य करके 'क्वाति' से किम् के स्थान पर 'क्व' आदेश होकर 'क्व' यह शब्द निष्पन्न होता है । अस्तु । यहाँ तो शेखर का तात्पर्य इतने में ही है कि 'अत्' के तकार की हलन्त्यम् से प्राप्त इत्संज्ञा का निषेध 'न विभक्तौ' के अनित्य होने के कारण नहीं होता है ।

अब जिज्ञासा यहाँ यह होती है कि 'इदमस्थमुः' से विहित 'थमु' या 'किमोडत्' से विहित 'अत्' में 'न विभक्तौ' की तो प्राप्ति ही नहीं हो सकती । क्योंकि यह तो विभक्तिस्थ तवर्ग, सकार, मकार की इत्संज्ञा का निषेध करता है । 'थमु, अत्' आदि तो विभक्ति ही नहीं । अत: उनकी इत्संज्ञा के निषेध की जब प्राप्ति ही नहीं है, तो इसको अनित्य मानकर निषेध का वारण करना उचित नहीं?

उपर्युक्त जिज्ञासा का समाधान करने के लिए ही शेखरकार 'प्राग्दिशीयदत्वादियं विभक्तिः' यह कह रहे हैं । तात्पर्य यह है किथमु, अत् आदि प्राग्दिशीयप्रत्यय हैं । अतः इनकी 'प्राग्दिशो विभक्तिः' से विभक्ति संज्ञा होती है । इस प्रकार थमु आदि प्रत्यय भी विभक्ति है । अतः इनके अन्त्यहल को 'हलन्त्यम्' से प्राप्त इत्संज्ञा का निषेध 'न विभक्तौ' कर ही सकता है, जिसका वारण उसे अनित्य मानकर किया गया । 

प्राग्दिशीयप्रत्यय भी विभक्ति संज्ञक है । अत एव 'दानीम्' प्रत्यय के मकार की 'हलन्त्यम्' से इत्संज्ञा नहीं होती 'न विभक्तौ' निषेध कर देता है ।

शेखरकार उपर्युक्त मत में अपनी अरुचि दिखाने के लिए अन्त में 'इति नव्या: ' ऐसा कहते हैं ।

अपना मत प्रातिपादन के लिए 'भाष्ये तु' इत्यादि कहते हैं, जिसका तात्पर्य यह है कि-भाष्य में 'इदमस्थमुः' में किये गये उदित्व को 'मु' में किये 'उकार' उच्चारण को 'प्राग्दिशीयप्रत्ययों' में 'न विभक्तौ' की प्रवृत्ति नहीं होती । इस बात का ज्ञापक कहकर - 'दानीञ्च' सूत्र में (जो 'दानीम् ' प्रत्यय का विधान करता है) 'लोपोव्योर्वलि' से जिसका लोप हो चुका है, ऐसे 'य'कार का प्रश्लेष करके 'दानीम्' के मकार की इत्संज्ञा का वारण किया गया क्योंकि यकारप्रश्लेष के कारण 'मकार' में 'अन्त्यत्व' नहीं रहा ।

अब जिज्ञासा यह होती है कि-जब भाष्यकार 'य'कार का प्रश्लेष करके 'दानीम्' के मकार की इत्संज्ञा का वारण करते हैं, तो नव्यों ने भी वैसा ही क्यों नहीं कहा? उन्होंने इसके लिए 'न विभक्तौ' को अनित्य मानकर मकार की इत्संज्ञा का परिहार क्यों माना? शेखरकार इस जिज्ञासा का समाधान करते हुए 'अन्यत्रानित्यत्वस्य' इत्यादि कहते हैं । अर्थात् 'न विभक्तौ' को अनित्य मानने का फल 'दानीम्' के मकार की इत्संज्ञा का निषेध मात्र है । अन्यत्र उसकी अनित्यता का कोई फल नहीं है । इसी बात को बताने के लिए नव्यों ने ऐसा कहा ।

अब भाष्यमत में भी यह आशंका होती है कि 'दानीम्' में भले ही यकार का प्रश्लेष मान लें, परन्तु जब उसका 'लोपोव्योर्वलि' से लोप हो जाएगा तो 'म'कार में अन्त्यत्व तो आ ही जाएगा । पुनः इत्संज्ञा की प्राप्ति तो बनी ही रही ?

शेखरकार इस आशंका का समाधान करने के लिए 'लोपस्यासिद्धत्वाच्च' इत्यादि कहते हैं । तात्पर्य यह है कि 'हलन्त्यम्' जब मकार की इत्संज्ञा करने के लिए प्रवृत्त होगा तो 'लोपोव्योः' से होने वाला 'परनिमित्तक यलोप' बहिरन होने के कारण असिद्ध हो जाएगा तो 'हलन्त्यम्' की दृष्टि में यकार के विद्यमान होने से 'मकार' में अन्त्यत्व नहीं होगा । अतः उसकी इत्संज्ञा आदि नहीं होगी । अस्तु ।

शेखरकार सूत्रस्थ ‘विभक्तौ' के विषय में प्रश्न कर समाधान करते हैं । तात्पर्य यह है कि यदि सूत्र में 'विभक्ती' नहीं कहेंगे तो सूत्र होगा 'न तुस्मा:' एवञ्च तवर्ग, सकार, मकार की प्राप्त इत्संज्ञा का निषेध होने लगेगा तो 'अचो यत्' से विहित 'यत्' के तकार की भी इत्संज्ञा नहीं हो पाएगी । यह दोष होगा । अतः सूत्र में 'विभक्ती' कहा गया ।

॥ महाभाष्यम् ॥

(१२५. इत्सञ्जानिषेधसूत्रम् १.३.१ आ. ४) 

१५१. न विभक्तौ तुस्माः १.३.४

॥ तवर्गप्रतिषेधस्य तद्धितभिन्नपरत्वाधिकरणम् ॥

(८३४. आक्षेपवार्त्तिकम् - १) * विभक्तौ तवर्गप्रतिषेधोऽतद्धिते * 

भाष्यम् - विभक्तौ तवर्गप्रतिषेधोऽतद्धित इति वक्तव्यम् । इह मा भूत् 'किमोत्' 'क्व प्रेप्सन् दीव्यसे' 'क्वार्द्धमासा' इति । 

तटस्थभाष्यम् - स तर्हि वक्तव्यः । 

समाधानभाष्यम् - न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति न विभक्तौ तद्धिते प्रतिषेधो भवतीति । यदयम् 'इदपस्यमुः' इति मकारस्येत्सञ्ज्ञापरित्राणार्थमुकारमनुबन्धं करोति । 

ज्ञापनबाधकभाष्यम् - यद्येतज् ज्ञाप्यते इदानीमित्यत्र प्राप्नोति । 

ज्ञापनसाधकभाष्यम् - इत्कर्याभावादत्रेत्सञ्ज्ञा न भविष्यति । 

ज्ञापनबाधकभाष्यम् - इदमस्तीत्कार्यं 'मिदचोऽन्त्यात्परः' इत्थचामन्त्यात्परो यथा स्यात् । 

ज्ञापनसाधकभाष्यम् - इश्भावे कृते नास्ति विशेषः 'मिदचोऽन्त्यात्परः' इति वा परत्वे 'प्रत्ययः पर' इति वा । 

ज्ञापनबाधकभाष्यम् - स एव तावदिश्भावो न प्राप्नोति । किं कारणम् ? प्राग्दिशः प्रत्ययेष्वित्युच्यते । 

ज्ञापनबाधकभाष्यम् - कः पुनरर्हतीश्भावं प्राग्दिशः प्रत्ययेषु वक्तुम् । किं तर्हि? प्राग्दिशोर्थेष्विश्भावः किंसर्वनामबहुभ्योऽद्वयादिश्यः प्रत्ययोत्पत्तिः । 

ज्ञापनबाधकभाष्यम् - एवं तर्हि तदोप्ययं वक्तव्यः । तदश्च मिदचोन्त्यात्परत्वेन न सिध्यति । 

ज्ञापनबाधकभाष्यम् - ननु चात्राप्यत्वे कृते नास्ति विशेषः 'मिदचौन्त्यात्परः' इति वा परत्वे 'प्रत्ययः पर' इति वा । 

ज्ञापनबाधकभाष्यम् - तद्धि अत्वं न प्राप्नोति । किं कारणम् ? विभक्तावित्युच्यते । 

समाधानभाष्यम् - एवं तर्हि यकारान्तो दानीं करिष्यते । किं यकारो न श्रूयते? लुप्तनिर्दिष्टो यकारः । न विभक्तौ ॥ ४ ॥ 


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code