Ad Code

१.१.७ सूत्राणि:॥ हलोऽनन्तराः संयोगः ॥ ॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥



१.१.७

सूत्राणि:॥ हलोऽनन्तराः संयोगः

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - हलः १।३ अनन्तराः १।३ संयोगः ७।१।


समासः - हल् च हल् च तौ हलौ । हल् च, हल् च, हल् च ते हल:, हलौ च हलश्च ते हल: (इतरेतरयोगद्वन्द्वः) । न विद्यतेऽन्तरं येषु तेऽनन्तराः (बहुव्रीहिः) ।


अन्वयः - अनन्तरा हलः संयोगः ।


अर्थ: - अनन्तरा (व्यवधानरहिता:) हल: संयोगसंज्ञका भवन्ति । 


उदाहरणम् - अग्निः । अश्वः । कर्णः । इन्द्रः । चन्द्रः । उष्ट्रः । राष्ट्रम् । भ्राष्ट्रम् ।


आर्यभाषार्थ - (अनन्तराः) अचों के व्यवधान से रहित (हलः) हलों की (संयोग:) संयोग संज्ञा होती है ।


उदाहरणम् - अग्निः । आग । अश्वः । घोड़ा । कर्णः । कान । इन्द्रः । राजा । चन्द्रः । चांद । उष्ट्रः । ऊंट ।राष्ट्रम् । राज्य । भ्राष्ट्रम् । दाने भूनने का पात्र ।


सिद्धिः - (१) अग्निः । अ+ग्+न्+इ+:- अग्निः । यहां ग्न् की संयोग संज्ञा है । 


(२) अश्वः । अ+श्+व्+अ+:=अश्व । यहां श्- व् की संयोग संज्ञा है । 


(३) इन्द्र: । इ+न्+द्+र्+अ+:=इन्द्र: । यहां न्+द्+र् की संयोग संज्ञा है । इसी प्रकार अन्यत्र भी समझ लेवें । संयोग संज्ञा का फल यह है कि 'संयोगे गुरु' (१.४.११) से संयोग परे होने पर, पूर्व ह्रस्व वर्ण भी गुरु माना जाता है ।


॥ काशिका ॥

भिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिता हलः संयोगसंज्ञा भवन्ति । समुदायः संज्ञी । जातौ चेदं बहुवचनम्, तेन द्वयोर्बहूनां च संयोगसंज्ञा सिद्धा भवति । अग्निरिति ग-नौ । अश्व इति श-वौ । कर्ण इति र-णौ । इन्द्रश्चन्द्रो मन्द्र इति न-द-राः । उष्ट्रो राष्ट्रं भ्राष्ट्रमिति ष-ट-राः । तिलान्स्त्र्यावपतीति न-स-त-र-याः, न-त-स-त-र-या वा । हल इति किम् ‘तितउच्छत्रम्’ (नि.४.९.१०) । “संयोगान्तस्य लोपः” (८.२.२३/५४) स्यात् । अनन्तरा इति किम् पचति पनसम् । “स्कोः संयोगाद्योरन्ते च” (८.२.२९/३८०) इति लोपः स्यात् । संयोगप्रदेशाः - “संयोगान्तस्य लोपः” (८.२.२३/५४) इत्येवमादयः ॥


॥ न्यासः ॥

अन्तरं छिद्रं विवरं वर्णशून्यः काल इत्यर्थः । न विद्यतेऽन्तरं यषां ते तथोक्ताः । ‘भिन्नजातीयैः’ इत्यादि । भिन्नजातीयैरिति वचनं भिन्नजातीयानामेव लोके व्यवधायकत्वदर्शनात् । तथा हि कश्चित् केनचित् किमनन्तरे परे ब्राह्मणकुले इति पृष्टः सन्नाह - नानन्तरे, वृषलकुलमनयोर्मध्ये प्रतिवसी - ‘श्लिष्टोच्चारितस्य हलः सञ्ज्ञा स्यादिह निर्वायाय्, निर्यायादिति ‘वान्यस्य संयोगादेः’ (६.४.६८) इत्येत्वं स्यात्, इह च ‘संस्कषीष्ट’ इति ‘ऋतश्च संयोगादे:’ (७.२.४३) इतीट्, इह च ‘संस्क्रियते’ इति ‘गुणोऽर्तिसंयोगायोः’ (७.४.२९) इति गुणः - इत्येवमादयोऽन्येऽपि बहवो दोषाः प्रत्येकं हलां सञ्ज्ञित्वे भाष्य उद्भाविताः । यद्यपि तत्रैव कथ ञ्चित् प्रयासेन परिहृताः, तथापि यस्तु तत्परिहारेण प्रतिपत्तौ साध्यायां प्रति - पत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव । समुदाये तु सज्ञिनि दोषाशङ्काऽपि नास्ति । तस्मात् स एव सञ्ज्ञी युक्त इत्यालोच्याह - ‘समुदायः सञ्ज्ञी’ इति । ननु च यत्र सहभूतानां कार्यमिच्छति तत्र यत्न आरभ्यते, यथा - ‘उभे अभ्यस्तम्’ (६.१.५) इति उभेग्रहणं करोति, न चेह कश्चिद्यत्नः कृतः, तत्कथं समुदायस्य सञ्ज्ञा लभ्यते ? इहापि कृत एव यत्न इत्यदोषः । पुनरसौ ? महत्याः सञ्ज्ञायाः करणम् । ‘लघ्वर्थं हि सञ्ज्ञाकरणम्’ (व्या.प.१३५) इति महत्याः सञ्ज्ञायाः करणं प्रयोजनमन्तरेण न सम्भाव्यते । तस्मान्महानत्र सञ्ज्ञीत्येतत् सूचयितुं महती सञ्ज्ञा कृतेति गम्ये - तथा चोक्तम्- ‘इङ्गितेनोन्मिषितेमन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो लक्ष्यते’ इति । एवं च महान् सञ्ज्ञी भवति, यदि समुदायः सञ्ज्ञी भवति, नैकैको हळ् । तस्मादुपपन्नमेतत् समुदायः सञ्ज्ञीति ‘हल:’ इति बहुवचननर्देशाद्द्द्वयोः सञ्ज्ञा न सिद्ध्यतीति यश्चोदयेत् तं प्रत्याह - ‘जातौ च’ इत्यादि । चशब्दो यस्मादर्थे । यस्माज्जातौ बहुवचनं तेन द्वयोर्बहूनां च संयोगसञ्ज्ञा सिद्धा भव - अग्निरित्यादिकं रूपोदाहरणं द्रष्टव्यम् ‘तिलान्स्त्रावपति’ इत्यादि । ‘हे मपरे वा’ (८.३.२६) इत्यतो वेति वर्त्तमाने, ‘ङ सि धुट्’ (८.३.२९) इत्यतो धुडिति च, ‘नश्च’ (८.३.३०) इति पक्षे छुट् ‘खरि च’ (८.४.५५) इति च तकारः । तत्र यदा धुण्नास्ति तदा नसतयाः’ इति । यदा त्वस्ति तदा ‘नतसतस्याः’ । ‘तितउच्छत्रम्’ इति । ‘तनोतेर्डङ सन्वच्च (द.उ.१.१६०) इति डउ - प्रत्यये टिलोपे द्विर्वचने च कृते रूपम् । ‘संयोगान्तस्य लोपः स्यात् इति । यद्यत्राकारस्योकारेण सञ्ज्ञा स्यादित्यभिप्रायः । न च लोपे सत्युकारोपदेशस्य वैयर्थ्यमाशङ्कनीयम् । यत्र पदसञ्ज्ञा नास्ति तितउनीत्यादौ, तत्र श्रूयमाणत्वात् । ‘पचति’ इति रूपप्रत्युदाहरणम्, ‘पनसम्’ इति कार्यप्रत्युदाहरणम् ‘स्को: संयोगाद्येोरिति लोपः स्यात्’ इति । यदि सकारनकारयोः सान्तरयोरपि संयोगसञ्ज्ञा स्यादिति भावः । 


॥ पदपञ्जरी ॥

अन्तरमवकाशाविधिपरिधानान्तर्द्धिभेदतादये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ 


इत्यन्तरशब्दोऽनेकार्थः । इह छिद्रवाचिनो ग्रहणम्, इतरेषामसम्भवात् । न विद्यतेऽन्तरं येषां तेऽनन्तराः = निश्छिद्राः । एतमेवार्थं व्यक्तेन शब्दान्तरेण दर्शयति - “भिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिता” इति । एवम्भूता हि हलो निश्छिद्रा भवन्ति भिन्नजातीयैरिति वचनं तत्रैव व्यवधानप्रसिद्धेः । श्लिष्टोच्चारिता इति वचनादवग्रहेऽपि संज्ञा न भवति अप्स्वित्यप्सु, विद्यते ह्यत्रान्तरमर्द्धमात्राकालः । “संयोग” इति । यद्येकैकस्य हलः शिलष्टोच्चारितस्यैषा संज्ञा स्याद् ? इह च निर्यायादित्यत्र प्रत्येकं संज्ञित्वे सति रेफे यकारः संयोग इति “वान्यस्य संयोगादेः” इत्येत्वं स्यात् । समुदायस्य संज्ञित्वे “अचो रहाभ्याम्” इति यकारस्य सत्यपि द्विर्वचने तस्यासिद्धत्वादेत्वाभावः इह च संस्कृषीष्ट “ऋतश्च संयोगादेः” इतीट्, संस्क्रियत इति “गुणोऽर्तिसंयोगायोः” इति गुणः, दृषत्करोतीति ककारसंनिधौ दकारस्य संयोगायोः” ? इति लोपः स्यात्, निर्यात इति “संयोगादेरातः” निष्ठानत्वं स्यात्; समुदाये तु संज्ञिनि नैते दोषा इत्यालोच्याह - “समुदायः संज्ञीति । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् - “संयुज्यन्तेऽस्मिन्मिथो हलः” इति । नैरन्तर्यं च श्रुतं संज्ञिरूपेऽनुप्रविशतीति युक्तम् । प्रत्येकपक्षे तु तदुपलक्षणं स्याद् । अतः समुदाय एव संज्ञी युक्त इति भावः । “हलः” इति बहुवचननिर्देशाद् द्वयोः संज्ञा न स्यादित्याशङ्क्याह - “जातौ चे”ति । च शब्दो यस्मादर्थे, यस्माज्जातौ बहुवचनम्, तेन द्वयोर्बहूनां चेति । अथ यत्र बहवो हलः संश्लिष्टास्तत्र किं द्वयोर्बहूनां चाविशेषेण संज्ञा ? आहोस्विद्वहूनामेव ? यदि बहूनामेव, इह “मस्जिनशोर्झलि” इत्यन्त्यादचः परे नुमि मन्स्ज् इति स्थिते नसजानामेका संज्ञा, न तु सजयोरिति “स्कोः संयोगायोः” इति सलोपो न स्यात्, नैष दोषः, मस्जेरन्त्यात् पूर्व नुमेषितव्यः, मग्न इत्युपधालोपो यथा स्यात्; अन्यथा द्वयोस्संज्ञाश्रयेण सत्यपि संयोगादिलोपे तस्यासिद्धत्वान्नलोपो न स्याद् । इह तर्हि निग्लेयात्, संस्वरिषीष्ट, संस्वर्यते, निलान इति एत्वेड्गुणनिष्ठानत्वानि न स्युः ? अस्तु तर्ह्यविशेषेण, कुतः ? निश्छिद्रत्वस्याविशेषात् । न च द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम्; यथा द्विर्वचनं समुदायावयवैकाचोर्युगपत् कर्त्तुमशक्यम्, नैवमत्राशक्तिः, यथा च समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति - वृक्षः प्रचलन् सहावयवैः प्रचलतीति न्यायेन, न च तथेह समुदाये प्रवृत्तया संज्ञयाऽवयवानां तत्कार्यसिद्धिः । अतो नायं द्विर्वचनन्यायस्य विषयः । अतोऽविशेषेण द्वयोर्बहूनां चेति स्थितम् । यद्येवम्, इन्द्रमिच्छति इन्द्रीयति, ततः सन् इन्दिद्रीयिषतीत्यत्र द्वौ संयोगी - नदी, दरौ च तत्र “न न्द्राः” इति प्रतिषेधो नकारवद्दकारस्यापि स्यात् । न वाज्विधेः, अजादेरिति वर्त्तते, तत्र कर्मधारयात् पञ्चमी, आदेरचः परे नदरा न द्विरुच्यन्त इत्यर्थः । ऊग्नि ? रित्यादीनि रूपोदाहरणानि । “तिलान्त्स्त्र्यावपती”ति । “हे मपरे वा “ इति वर्त्तमाने “ङ सि घुट्” इति च “नश्च” इति धुट् चर्त्वम् । तत्र यदा न धुट्, तदा नसतरयाः; यदा छुट् तदा नतसतरयाः । “तितउच्छत्रमिति । “तनोतेर्डउ: सन्वच्च” इति डउप्रत्ययः, व्यस्तोच्चारणसामर्थ्याद् गुणाभावः, सन्वद्भावाद् द्विर्वचनमित्वं च, टिलोपः । “संयोगान्तलोपः स्यादिति । यद्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यादिति भावः । ननु च “छे च” इति तुकि कृते तकारः पदान्तो न संयोगः, नैतदस्ति, “छे च” इत्ययं तुग् ह्रस्वमात्रभक्तो न तदन्तग्रहणेन गृह्यत इति पदं संयोगान्तमेव । पचतीति रूपप्रत्युदाहरणम् । पनसमिति कार्यप्रत्युदाहरणम् । “स्कोस्संयोगाद्येोरिति लोपः स्यादिति । यदि सकारमकारयोः सान्तरयोरपि संयोगसंज्ञा स्यादिति भावः ॥ 


॥ शब्दकौस्तुभः ॥

अज्भिरव्यवहिता हलः संयोगसंज्ञा स्युः । संज्ञाप्रदेशाः संयोगान्तस्य (८.२.२३) इत्येवमादयः । इहान्तरशब्देन छिद्रवाचिना बहुव्रीहौ निश्छिद्रा इत्यर्थलाभादवग्रहे संज्ञया न भाव्यम् । आधेयप्रधानेनान्तरेत्यव्ययेन सह बहुव्रीहौ त्त्वादेयनिषेधप्रतीतेरवग्रहेऽपि भाव्यमेव संज्ञाया । न हि तत्रान्तरा मध्ये किञ्चिदस्ति किन्तु मध्यमात्रं वर्त्तते मात्रा हस्वस्तावदवग्रहन्तरम् (ऋ.प्रा. १.६) इति प्रातिशाख्यबलेन तत्र मात्राकालावसानाभ्युपगमात् । यत्तु प्रातिशाख्यान्तरम् अद्धर्मत्रौऽवग्रह इति, तत्तु सर्वत्र संहितायामर्द्धमात्राकालस्य सत्त्वात्ततोऽतिरिकोऽर्द्धबात्राकालोऽवग्रहेऽस्तीत्येवंपरम् । अतः प्रातिशाक्ययोरविरोधः । तदिह कतरः पक्षो ग्राह्य इति चेत् ? उभयथाऽप्यदोष इति भाष्यकाराः । ननु ‘अप्सु’ इत्यादौ सत्यां संयोगसंज्ञायां संयोगे गुरु (१.४.१०) इति गुरुत्वाद् गुरोरनृतः (८.२.८६) इति प्लुतेन भाव्यं न त्वन्यथेति महान्फले विशेषः । तत्कयं पक्षद्वयाभ्युपगम इति चेत् ? न, ‘अप्सु’ इत्यस्याधिकरणवृर्त्तेर्दूराद्धूतसम्बन्धाभावात् । विचार्यमाणानाम् (८.२.९७) इत्यादौ तु वाक्यस्य टे (८.२.८२) इत्यनुवर्त्तते न तु गुरोरनृतः (८.२.८६) इति । ननु ‘अप्सु भवोऽप्सव्यः’, दिगादिषु पाठाद्यत् पाठाद्यत् अपो योनियन्मतुषु च (का.वा.) इत सप्तम्या अलुक् । ततः सम्बुद्धौ सम्बुद्धौ ‘हे अप्सव्य’ इत्यत्र स्यादेव फलभेद इति चेत् ?


अत्राहुः नैवं विधे विषयेऽवग्रहं पदकाराः कुर्वन्तीति । अत्र च सम्प्रदाय एव शरणमिति बोध्यम् । उक्तञ्चैतत् ’गोभ्यो गातुं’ ‘गोभिर्मदाय’ ‘चित्रइद्राजा राजका इदन्यके’ इत्यादौ गोभ्यो गोभिः राजका इत्यादीनां सत्यपि पदन्वेऽवग्रहाकर्णात् । ईयिवांसमतिस्रिधः इत्यादावीयिवांसमिति विनापि पदसंज्ञां क्वसोः पूर्वमिडागमान्तेऽवग्र हकराणाच्च । एतेन ‘सिसासन्’ ‘उक्थशसः’ ‘रिरिषः’ इत्यादौ पदकाले सत्त्वह्रस्वत्वादयोपि व्याख्याताः । यत्तु मानो महान्तम् (ऋ.सं.) इति मन्त्रे वेदभाष्यकारैरुक्तम् छान्दसः पदकालीनो ह्रस्वः इति, तदपि संप्रदायमात्रपरतया कथं चिन्नेयम् । ‘न लक्षणेन पदकाराः’ इति भाष्ये, पदविभागः पौरुषेयः इति कैयटादिभिरुक्तत्वादिति दिक् ।


कथं तर्हि तत्रतत्रावग्रहे विशेष इत्युच्यते इति चेत् ? अवान्तरपदत्वे सत्यवग्रहः क्रियते इत्युत्सर्गमभिप्रेत्येति गृहाण । अप्सुयोनिर्वा अश्वः इत्यादावपि सुशब्दात्पूर्वं नास्त्यवग्रहः, अवान्तरपदसंज्ञानेकत्वे उत्तरकालप्रवृत्तिकयाऽवग्रह इति वैदिकसम्प्रदायात् । अत एव ‘मयूररोमभिः’ इत्यत्र भिसः पूर्वमवग्रहः । ‘नमउक्तिभिः’ इत्यत्राप्येवम् । इन्द्रप्राणः पुरएतेव इत्यत्र चेवशब्दात्प्रागिति दिक् ।


महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । संयुज्यन्ते ऽस्मिन्समुदाये वर्ण इति । तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृद्ध्यादिसंज्ञावत्प्रत्येकम् । तता हिसति ‘निर्यायात्’ इत्यादौ यकारः संयोग इति वाऽन्यस्य संयोगादोः (६.४.६८) इत्येत्वं । सिद्धान्ते तु अचो रहाभ्याम् (८.४.४६) इति द्वित्वे सत्यपि तस्यासिद्धतया ‘निर्यायात्’ इत्यादावेत्वं न भवति । किञ्च, प्रत्येकं संज्ञेति पक्षे ‘संदृषीष्ट’ इत्यत्र ऋतश्च संयोगादेः (७.२.४३) इतीट्स्यात् । ‘संह्रियते’ इत्यत्र गुणोर्त्तिसंयोगाद्योः (७.४.२९) इति गुणः ‘संह्रियते’ । ‘दृषत्करोति’ इत्यत्र ककारसन्निधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात् । ‘शक्ता’ ‘वस्ता’ इत्यत्र झाले तकारे परतः स्कोः (८.२.२९) इति लोपः स्यात् । ‘निर्यातः’ इत्यादै । संयोगादेरातो दातोर्यण्वतः (८.२.४३) इति निष्ठानत्वं स्यात् ।


जातौ चेदं बहुवचनं हल इति जात्याख्यायामेकस्मिन्(१.२.५८) इति वचनात् । तेन द्वयोरपि संयोगसंज्ञा भवति । अतः ‘शिक्षा’ इत्यादौ गुरोश्च हलः (३.३.१०३) इत्यप्रत्ययः सिध्यति । यत्र तु बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां वा विशेषेणसंज्ञा । न चैकाज्द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम्, वैषम्यात् । तथाहि, द्विर्वचनं समुदायावयवैकाचोर्युगपत्कर्त्तुमशक्यम् । संज्ञा तु शक्या। तथा समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति वृक्षः प्रचलन्सहावयवैः प्रचलति इति न्यायात् । इह तु समुदाये प्रवृत्तया सयोगसंज्ञया नावयवानां तत्कार्यसिद्धिः । अतोऽविशेषेण द्वयोर्बहूनां च संज्ञेति स्थितम् । यदि तु बहूनामेव स्यात्तर्हि ‘संस्वर्यते’ इत्यत्र गुणोर्ति (७.४.२९) इति गुणो न स्यात् । ‘गोमान्करोति’ इत्यत्र संयोगान्तलोपो न स्यात् । ‘निर्ग्लानः’ इत्यादौ निष्ठानत्वं न स्यादिति दिक् ।


ननु यदि द्वयोरपि संज्ञा तर्हीनद्रीयतेः सनि ‘इन्दिद्रियिषति’ इति न स्यात् । इह हि संयोगौ द्वौ नदौ दरौ च । तत्र नकारस्येव दकारस्यापि नन्द्राः (६.१.२) इति द्वित्वनिषेधः प्राप्नोति । नैष दोषः । तत्र ह्यजादेरित्यनुवर्त्तते । सा च कर्म्मदारयात्पञ्चमी । तेनादेरचः परे नदाराः संयोगादयो न द्विरुच्यन्ते इति सूत्रार्थः । एवञ्च पूर्वसूत्रे द्वितीयस्येति न कर्त्तव्यमेवेति वक्ष्यते । हलः किम् ? तितउभ्याम् । अत्र तनोतेर्डउसन्वच्च (उ.सू.) इति इउप्रत्ययः, सन्वद्भावाद् द्वित्वं, सन्यतः (७.४.८९) इतीत्वंच । व्यस्तोच्चारणसामर्थ्याद् गुणाभावः यदि ह्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यात्तर्हीह संयोगान्तस्य (७.३.२३) इत्युकारलोपः स्यात् । अनन्तरा इति किम् ? पनसम् । यदीह सकारमकारयोः संयोगसंज्ञा स्यात्तर्हि स्कोः(७.२.२९) इति सूत्रेण सकारलोपः स्यादिति दिक् ।


॥ व्याकरणसिद्धान्तसुधानिधिः ॥

अज्भिरव्यवहिता हलः संयोगसंज्ञा स्युः । प्रदेशाः संयोगान्तस्य लोपः इत्यादयः । हलः किम् ?  तितउपदे संयोगान्तलोपो मा भूत । न च तनोतेर्डउः सन्वच्च इत्यत्र उकारोच्चारणसामध्यदिव तदभावसिद्धिरिति वाच्यम् । भसंज्ञास्थले संयोगान्तलोपप्रसक्त्यभावेन तत्र तत्सार्थक्यात् । 


ननु अन्तरशब्देन सहायं बहुव्रीहिरन्तराशब्देन वा ? आद्ये अन्तरशब्दस्याधेयवाचितया हलपेक्षया विजातीयवर्णशून्यस्य संज्ञायामवग्रहेऽपि संयोगसंज्ञासिद्धिः । तत्र हि मतद्वयम् । मात्राकालव्यवधानेन वर्णान्तरमुच्चायते इत्येकम्, अर्द्धमात्राकालव्यवधानेनेत्यपरम्, उभयथाऽपि कालव्यवधानेऽपि वर्णान्तरव्यवधानाभावात् । द्वितीये तु आधारस्य कालस्यापि व्यवधाननिषेधात् अवग्रहे संयोगसंज्ञा न स्यात्, हलुच्चारणसमयध्वंसाधिकरणसमयध्वंसानधिकरणसमयवृत्त्युच्चारणप्रतियोगित्वस्य अव्यवधाने इव कालव्यवधानेऽपि विरहात् इति विशेषसत्त्वादिति चेदत्र भाष्यकाराः नैव दोषो नैव प्रयोजनमिति । पक्षद्वयमप्यदोषमिति तस्यार्थः । न चाप्सु इत्यादौ संयोगसत्त्वे गुरुत्वाद् गुरोरनृतः इति प्लुतो न त्वन्यथेति कथमुभयाभाव इति वाच्यम् । अधिकरणवृत्तेः तस्य दूराद्धृतसम्बन्धाभावात् । विचार्यमाणानामित्यादौ तु वाक्यस्य टेरेव प्लुतविधानेन गुरुसंज्ञाया अनपेक्षितत्वात् । न चाप्सु भवोऽप्सव्यः दिगादित्वाद्यत् अपो योनियन्मतुषु इति सप्तम्या अलुक्, तत्सम्बुद्धौ दूराद्धृतसम्बन्धात्फलभेदापत्तिरिति वाच्यम् । एवंविधे विषये अवग्रहस्य पदकारैरकरणात्तथैव सम्प्रदायात् । न चाप्सु योनिर्वाऽश्व इत्यत्र विशेषः स्यादिति वाच्यम् । समासपदानामन्तोऽवगृह्यत इति पदकारसम्प्रदायात्तत्रापि सुशब्दात्पूर्वमवग्रहाभावादिति कैयटादयः । 


इयं च संज्ञा समुदायस्य, नावयवमात्रस्य, संयुज्यन्तेऽस्मिन्समुदाये वर्णा इत्यन्वर्थसंज्ञाविज्ञानात् । अन्यथा निर्यायादित्यादौ रेफयकारयोः प्रत्येक संयोगसंज्ञायां यकारस्यापि संयोगादित्वाद् वाऽन्यस्य संयोगादेः इत्येत्वं स्यात्, ग्लेयादित्यादिवत् । न च सिद्धान्तेऽपि अचो रहाभ्याम् इति द्वित्वेन यकारद्वयसम्पत्त्या स्यादेवोक्तदोष इति वाच्यम् । तस्यासिद्धत्वेन संयोगसंज्ञाया अनिष्पत्तेः । किञ्च प्रत्येकसंज्ञापक्षे संहृषीष्टेत्यत्र ऋतश्च संयोगादेः इति इट्, संह्रियत इत्यत्र गुणोऽर्त्तिसंयोगाद्योः इति गुणश्च स्यात् । चरमवर्णस्य संयोगतया ऋकारेकारयोः संयोगादित्वसम्पत्तेः । दृषत्करोतीत्यत्र ककारस्य ‘संयोगान्तस्य लोपः स्यात् । दकारस्य संयोगत्वे तदन्तत्वस्य सत्त्वात् । शक्ता वस्ता इत्यत्र स्कोः इति संयोगाद्योः सकारककारयोर्लोपः स्यात् । तकारस्य झलः परतः सत्त्वात् । निर्यातः इत्यादौ संयोगादेरातो धातोर्यण्वतः इति निष्ठानत्वं च स्यात् । 


यदि तु वाऽन्यस्य संयोगादेः, इत्यत्र संयोगादित्येतावतैव संयोगात्परो य आकारस्तदन्तस्याङ्गस्य एत्वमित्यर्थलाभादादिग्रहणसामर्थ्यादभेदैकत्वसङ्ख्यैव वृत्तौ भासत इति नियमं तिरस्कृत्य संयोगावादी यस्येत्युपसर्जनार्थस्यापि द्वित्वावगतिरिति संयोगद्वयादेरेव एत्वमिति सूत्रार्थीन्निर्यायादित्यत्र नातिव्याप्तिः । एवम् ऋतश्च संयोगादेः गुणोऽर्तिसंयोगाद्योः इत्यत्रापि व्याख्येयम् । संयोगान्तस्य इत्यत्रापि पूर्वन्यायेन संयोगद्वयान्तस्य लोपविधानान्न दृषत्करोतीत्यत्र दोषापत्तिः । स्कोः संयोगाद्योः इत्यत्रापि सकारककारगतद्वित्वापेक्षया संयोगयोरित्येव सिद्धे आदिग्रहणबलाद् झलि परतो यः संयोगः पदान्ते च यः संयोगः तस्यादिः समीपो यः ककारः सकारश्च तयोर्लोपविधानम् । तेन शक्ता, वस्ता इत्यत्र नातिप्रसङ्गः । संयोगादेरातः इत्यत्रापि संयोगादात् इत्येव संयोगात्परो य आकारस्तदन्ताद्धातोः परस्य निष्ठातकारस्य ‘नत्वमित्यर्थेन सिद्धे आदिग्रहणवशात्संयोगद्वयादिलाभान्त्रिर्यात् इत्यत्र नोक्तदोष इति कल्प्यते । तथाऽपि प्रतिपत्तिगौरवम्, प्रत्येकं संयोगसंज्ञायाः क्वचिदप्यनुपयोगे तत्स्वीकारवैयर्थ्य चेत्यवधेयम् । हल इति बहुत्वं चाविवक्षितम् अन्यथा शिक्षेत्यादी गुरोश्च हलः इत्यप्रत्ययानुपपत्तेः । न चैवमजव्यवहितस्यैकस्यापि संयोगसंज्ञापत्तिः । अवयवार्थानुरोधेन द्वयोरवश्यमपेक्षितत्वात् । यत्र तु बहूनां हलामव्यवधानं तत्राविशेषेण द्वयोर्बहूनां च संज्ञा । 


न चैकाज्द्विर्वचनन्यायः । समुदायकार्येणावयवानां कार्यसम्पत्तेरेव तद्बीजत्वात् । निज् इत्यस्य द्विरुक्तौ तदन्तर्गतानां सर्वेषामेकाचां द्विर्वचननिर्वाहात् । इह च बहूनां संज्ञया द्वयोस्तत्कार्यासिद्धिरिति वैषम्यात् । तथाहि संस्वर्यत इत्यत्र गुणोऽर्ति इति न स्यात् । गोमान् करोतीत्यत्र गोमान् त स् करोति इति स्थिते तकारस्य संयोगान्तलोपो न स्यात् । मङ्ङ्क्तेत्यत्र मस्जिनशोर्झलि इति नुमागमे मन् स् ज् इति स्थिते सकारस्य संयोगादित्वाभावात् स्कोः इति लोपो न स्यात् । निग्र्लेयादित्यादौ रेफघटितसंयोगस्याङ्गादित्वाभावात् अङ्गादेश्च गकारलकारसमुदायस्य संयोगसंज्ञत्वाभावादेत्वं न स्यात् । एवं निर्लान इत्यत्र नत्वं न स्यात् । 


अथैवं इन्दिद्रीयिषतीति न सिद्ध्यति । तथाहि तत्र नकारदकारघटित एकः दकाररेफघटितश्चान्य इति द्वौ संयोगौ उक्तरीत्या च नकारस्येव दकारस्यापि संयोगादित्वाद् नन्द्राः संयोगादयः इति द्वित्वनिषेधे रीशब्दस्यैव द्वित्वे इन्द्रिरीयिषतीति रूपं स्यादिति चेत् सत्यम्, तत्र हि कर्मधारयोत्तरपञ्चम्यन्तमजादेरिति पदम् अजादेर्द्वितीयस्य इति सूत्रादनुवर्तते । आदिभूतादचः परे संयोगादयो नदरा द्विर्वोच्यन्त इति सूत्रार्थः । ततश्च दकारस्य संयोगादित्वेऽप्यादिभू तादचः परत्वाभावान्निषेधाप्रवृत्तौ द्रीशब्दस्य द्वित्वे हलादिःशेषेऽभ्यासस्य हस्वे च सिद्धमिष्टम् । एवञ्च आदेरचः परस्यैकाचो द्वितीयत्वव्याप्यत्वात्तत्सूत्रे द्वितीयपदं नोपादेयमेवेति निष्कर्षः ॥


॥ सिद्धान्तकौमुदी ॥

अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥

॥ बालमनोरमा ॥

हलोऽनन्तराः संयोगः । `अन्तर'शब्दोऽत्र व्यवधाने वर्तते । `अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमरः । व्यवधानं च विजातीयेनैव । अविद्यमानमन्तरं व्यवधानं येषामिति विग्रहः । `नञोऽल्त्यर्थाना'मिति विद्यमानपदस्य लोपः । तदाह - अज्भिरित्यादिना । तत्र हलौ च हलश्च हल इत्येकशेषः । तेन द्वयोरपि संयोगसंज्ञा लभ्यते । ततश्च शिक्षेत्यत्र `गुरोश्च' हलः इत्यप्रत्ययः सिध्यति । अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञाकरणात्, व्याख्यानाच । नतु प्रत्येकम् । तथा सति `सुदृषत्प्रासाद' इत्यत्र पकारसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तेः । यत्र तु बहवो हलः श्लिष्टास्तत्रापि द्वयोर्द्वयोः संयोगसंज्ञा न तु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम् ॥


॥ तत्त्वबोधिनी ॥

हलोऽनन्तराः संयोगः । तध्वर्थमेकाक्षरायां संज्ञायां कर्तव्यायां 'संयोग' इति महासंज्ञाकरणमन्वर्थसंज्ञाज्ञापनार्थं - संयुज्यन्तेऽस्मिन्समुदाये वर्णा इति । तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृध्द्या दिसंज्ञावत्प्रत्येकम् । तथाहि सति 'दृषद्विभर्ती' त्यत्र बकारसंनिधौ दकारस्य संयोगत्वात्संयोगान्तलोपः स्यात् । 'निर्याया' दित्यत्र यकारः संयोग इति 'वान्यस्य संयोगादे' रित्येत्त्वं स्यात् । सिद्धान्ते तु 'अचो रहाभ्या' मिति द्वित्वे सत्यपि तस्याऽसिद्धत्वादेत्त्वमत्र न भवति । 'हल' इति जातौ बहुवचनम्, 'जात्याख्यायामेकस्मिन्बहुवचन' मिति वचनात् । तेन द्वयोरपि संयोगसंज्ञा भवतीति 'शिक्षे' त्यादौ 'गुरोश्च हलः' इत्यप्रत्ययः सिध्यति । यत्र बहवो हलः संश्लिष्टास्तत्र द्वयोर्बहूनां चाऽविशेषेण संज्ञेति स्थितमाकरे । यदि तु बहूनामेव स्यात्तर्हि 'गोमान्तकरोती' त्यत्र मतुपस्तकारस्य संयोगान्तलोपो न स्यादिति दिक् । हलः किम् ? तितौभ्याम् । अत्र 'तनोतेर्डौः सन्वच्चे' ति 'डौ' प्रत्ययः । सन्वद्भावाद्द्रित्वं, 'सन्यतः' इति इत्वं च । व्यस्तोच्चारणसामर्थाद्गुणाऽबावः । यदि ह्रचोरप्यनन्तरयोः संयोहसंज्ञा स्यात्तर्हि इह 'संयोगान्तस्ये' त्युकारलोपः स्यात् । अनन्तरा इति किम् ? पनसम् । यदीह सकारमकारयोः संयोगसंज्ञा स्यात्तर्हि 'स्को' रिति सलोपः स्यात् । इति तत्त्वबोधिन्यां संज्ञाप्रकरणम् । अथ सन्नन्तप्रक्रिया ॥


॥ बृहच्छब्देन्दुशेखरः ॥

कौमुदीमूलम् - अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥


हलोऽनन्तरा: संयोगः । गर्गाः शतं दण्ड्यन्ताम् इत्यत्र समुदाये शतदण्डनवदत्र समुदायस्यैव संज्ञा, न प्रत्येकम् । अनन्तरा इत्युक्तेश्च । तस्य विशेषणताया एवौचित्यात् ।


यत्तु संयुज्यन्ते वर्णा यत्र इत्यन्वर्थसञ्ज्ञाबलात् न प्रत्येकं संज्ञा इति तन्न । घटपटौ संयुज्यते यत्र इत्यादौ संयुज्यमानपदार्थातिरिक्त स्यैवान्यपदार्थतया प्रतीतेर्व्युत्पन्नत्वेन तदतिरिक्ततद्घटितपदवाक्यरूपसमुदायस्य संज्ञापत्तावनिष्टापत्तेः। महासंज्ञा तु प्राचामनुरोधादेव । तेन 'सुदृषद्धाति' इत्यत्र संयोगान्तलोपो नेत्यन्यत्र विस्तरः ।


'हल' इति बहुवचनं सौत्रम् । यद्वा - हलौ च हलश्चेत्येकशेषः । स्वरितात् संहितायाम् १.२.३९ इति सूत्रे अनुदात्तानामिति पदे तथैकशेषस्य भाष्ये करणात् । तेन द्वयोरपीति 'शिक्षा' इत्यादौ गुरोश्च हल: ३.३.१०३ इत्यप्रत्ययः सिद्ध्यति । यत्रापि बहवः श्लिष्टास्तत्रापि द्वयोर्द्वयोरेव न बहूनाम्, झलि परे संयोगादिलोप विधानात् । बहूनामपीति चिन्त्यमेव फलाभावात् । तत्र तत्राङ्गपदधात्ववयवसंयोग स्यैवाश्रयणेन तादृशस्य च त्रयाणां संयोगस्याभावादिति भाष्ये स्पष्टम् । आनन्तर्यं व्यवधानाभावो व्यवधानञ्च विजातीयेनैवेत्याशयेनाह- अभिरिति । अत्र कुत्वं न्याय्यम् । अत एव हयवरट्सूत्रे 'अचोऽक्षु' इति भाष्यप्रयोगे कुत्वं दृश्यते । स्वरैरव्यवहिता इति तूचिता वृत्तिः । हलः किम् ? 'तितउदेव' । अत्र गुरो: ८.२.८६ इति प्लुतः स्यात् । अनन्तराः किम्? द्रप्सम् । अत्र सकारमकारयोः संयोगत्वे स्को: ८.२.२९ इति लोप: स्यात् ।


॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥

अर्थः - अनन्तराः - व्यवधानरहिताः हलः संयोगसञ्ज्ञका भवन्ति । ‘अनन्तराः’ इति पदं ‘हलः’ इति पदस्य विशेषणम् न तु स्वातन्त्र्येण सञ्ज्ञाया उद्देश्यम् ।


तत्रोद्देश्यम् हलोऽनन्तराः, विधेयम् संयोगः । अनन्तरशब्दे बहुव्रीहिसमासः - अविद्यमानम् अन्तरम् = व्यवधानं येषां ते अनन्तराः । अत्र व्यवधानापरपर्यायच्छिद्रवाची एवान्तरशब्दो गृह्यते, अन्यार्थस्यासम्भवात् । ततश्च अनन्तराः इत्यस्य अव्यवहिता इत्यर्थः । व्यवधानञ्च प्रायेण भिन्नजातीयेनैव दृश्यते लोके, न तु सजातीयेन । अत्र हलां भिन्नजातीया अच एव भवन्ति । ततश्च ‘अनन्तराः’ इति पदस्य फलितोऽर्थः अज्भिरव्यवहिता इति । अत एवास्य सूत्रस्य वृत्तिमाह कौमुदीकारः - ‘अज्भिरव्यवहिता हलः संयोगसञ्ज्ञाः स्युः’ इति । अत एव वृत्तिकारः सूत्रार्थमाह - अनन्तराः - व्यवधानरहिताः हलः संयोगसञ्ज्ञका भवन्ति । उदाहरणञ्च - अग्निः, अत्र ग् न् । अश्वः - श् व् । इन्द्रः - न् द् र् ।


हल्समुदायस्यैव सञ्ज्ञा, न प्रत्येकम् - अत्र यद्यपि गुणवृद्धिसञ्ज्ञे इव एकैकस्य हलः संयोगसञ्ज्ञा प्राप्नोति । ‘सर्वे ब्राह्मणा भोज्यन्ताम्’ इति न्यायेन यथा भोजनक्रिया प्रत्येकस्मिन् भोजनकर्तरि ब्राह्मणे विश्राम्यति, न तु ब्राह्मणसमुदाये तथैवात्र संयोगसञ्ज्ञा अवयवस्य प्राप्नोति न तु हल्समुदायस्य । 


ननु चायमस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिरिति । तद्यथा ‘गर्गाः शतं दण्ड्यन्ताम्’ अर्थिनश्च राजानो हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति इति भाष्योक्त्या च हल्समुदायस्यैव संयोगसञ्ज्ञा न त्वेकैककस्य । उभावपि न्यायौ शास्त्रे आश्रितौ ।


यत्तु शेखरे ‘संयुज्यन्ते वर्णा यत्रेत्यन्वर्थसञ्ज्ञाबलान्न प्रत्येकं सञ्ज्ञा इति, तन्न,’ यथा घटपटौ संयुज्येते, स्थले संयुज्यमानघटपटार्थातिरिक्तस्य अन्यपदार्थस्य प्रतीयमानतया भिन्नः प्रासादादिर्बोध्यते, तथैवात्रापि संयोगसञ्ज्ञायां तद्वर्णघटितस्य तदतिरिक्तस्य वाक्यात्मकसमुदायस्य ग्रहणेन हल्समुदायस्य सञ्ज्ञा न स्यात् ।


यत्तु ‘व्रीहयः संयुज्यन्ते यत्र राशौ ईदृशप्रयोगदर्शनात् संयुज्यमानातिरिक्तोऽन्यपदार्थ इति नियमो व्यभिचरितः’ इत्याहुः तन्न, ‘धान्यानां राशिः’ एवंविधप्रयोगस्य दर्शनेन अभिन्नेऽपि भेद आरोपितः । पुरुषा एव सेना, वृक्षा एव वनम्, परं तत्र भेदेन व्यवहार आरोपेणैव उपपाद्यते यथा, तथात्रापि आरोपितभेदेन तद्व्यवहारोपपत्तौ अन्यपदार्थोऽन्य एव भवतीति नियमो न क्वचिदपि व्यभिचरति । भेदो वास्तविक एव इति न विवक्षितः । 


अस्य समाधानमित्थं प्रभवेत् - न विद्यते अन्तरा व्यवधानं येषामित्यर्थकस्य अनन्तरशब्दस्य व्यवधानशून्यार्थकत्वं प्रतीयते व्यवधानञ्च द्वयोर्मध्ये केनाप्यन्येन भवति । नहि एकस्य केनापि व्यवधानं दृष्टुम् । एवञ्च ‘संयोगो विप्रयोगश्च साहचर्य विरोधिता’ इत्याद्यभियुक्तोक्तदिशा विप्रयोगस्यापि संयोगवद् अर्थविशेषनिश्चायकत्वेन व्यवधानराहित्ये विवक्षिते व्यवधानयोग्यतायाः सत्त्वमप्यपेक्षितम् । तथा च द्वयोरेव व्यवधानयोग्यतायाः सम्भवेन द्वयोरेव संयोगसञ्ज्ञा न तु प्रत्येकमिति । 


यद्यपि प्रत्येकं संयोगसञ्ज्ञः स्यात्, तर्हि बहवो दोषाः सम्भवन्ति । तद्यथा निर्यायात् इत्यादौ यकारमात्रस्य संयोगत्वे ‘या’ धातोः संयोगत्वे सति “वाऽन्यस्य संयोगादेः” इति सूत्रेणेत्त्वापत्तिः, ‘संहृषीष्ट’ इत्यत्र “ऋतश्च संयोगादेः” इति सूत्रेणेडापत्तिः, ‘संह्रियते’ इत्यादौ “ गुणोऽर्तिसंयोगाद्योः” इति गुणापत्तिः, ‘निर्यात्’ इत्यत्र “संयोगादेरातो धातोर्यण्वतः” इति सूत्रेण निष्ठानत्वापत्तिः, ‘सुदृषत्प्रासादः’ इत्यत्र तकारस्य संयोगसञ्ज्ञायाम् “संयोगान्तस्य लोपः” इति सूत्रेण तलोपापत्तिश्च स्यात् । अत एव पूर्वोक्तानुसारेण समुदायसञ्ज्ञापक्ष एव स्वीकर्तव्यः । तस्मात् प्रयोगदेशे यावन्तः अज्भिरव्यवहिता हलः सन्ति, तेषामेकैव संयोगसञ्ज्ञा भवतीति ‘निर्यायात्’ इत्यादौ न कुत्रापि एत्वाद्यापत्तिदोषः  ।


ननु समुदायसञ्ज्ञापक्षे हलः इति बहुवचननिर्देशात् अज्भिरव्यवहितानां बहूनां हलां संयोगसञ्ज्ञा स्यात्, न तु द्वयोरपि । ततश्च ‘शिक्ष्’ धातौ क्ष् वर्णयोः संयोगसञ्ज्ञाभावे “ संयोगे गुरु” इति सूत्रेण इकारस्य गुरुसञ्ज्ञाभावे “गुरोश्च हलः” इति सूत्रेण अप्रत्ययाभावे ‘शिक्षा’ इति न सिध्येदिति चेन्न, ‘हलः’ इत्यत्र बहुवचनन्तु हलौ च हलश्चेत्यस्येकशेषाभिप्रायेणेति न द्वयोः संयोगे बाधः ।


न च एकशेषो द्वन्द्वापवादः, द्वन्द्वस्तु समानविभक्तिषु भवति, अत उत्सर्गदेशस्यैवापवाददेशत्वात् द्विवचनबहुवचनयोः एकशेषः कथं स्यात् ? एवमिदृशैकशेषेण बहुवचनस्य क्वापि प्रयोगो न दृष्ट इति वाच्यम्, “ स्वरितात्संहितायाम्…..” इति सूत्रभाष्ये एकशेषनिर्देशोऽयम् - अनुदात्तस्य चानुदात्तयोश्चानुदात्तानाञ्चानुदात्तानामिति इत्युक्तत्वात् । 


ननु तदा ‘हलौ’ इति विशेष्यपदस्य अनन्तराः इति विशेषणपदार्थेऽन्वयः कथं स्यात् ? ।

अनन्तरा इत्यत्रापि न विद्यतेऽन्तरं ययोस्तौ अनन्तरौ, न विद्यतेऽन्तरं येषां तेऽनन्तराः । अनन्तरौ च अनन्तराश्चेत्येकशेषः ज्ञेयः । अत एव द्वयोर्वा बहूनां वा यथासम्भवं अज्भिरव्यवहितानां हलां संयोगसञ्ज्ञा सिध्यति । 


‘हलः’ इत्यत्र जातौ “ जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्” इति सूत्रेण बहुवचनसत्त्वात् बहुत्वसङ्ख्याया अविवक्षितत्वादिति केचित् । अस्मिन् पक्षेऽपि द्वयोर्वा बहूनां वा यथासम्भवं संयोगसञ्ज्ञा सिद्धा भवति, ‘अथवा अविशेषेण संयोगसञ्ज्ञा विज्ञायते द्वयोरपि बहूनामपि’ इति भाष्यात् । तस्मात् ‘शिक्षा’ इत्यत्र द्वयोरपि हलोः संयोगत्वे ततः पूर्वस्याचो गुरुत्वे ‘अ’ प्रत्ययः सिध्यति


ननु बहुत्वविक्षायां तु भाष्योक्ता द्वयोः सञ्ज्ञाऽसङ्गता स्यात्, बहूनामानन्तर्य्ये द्वयोः सञ्ज्ञायां प्राप्तौ मध्यमेन हला आद्यन्तयोर्व्यवधानसत्त्वादिति चेन्न, व्यवधानस्य विजातीयैरेव प्रसिद्धत्वात् ।


यत्र प्रयोगदेशे अज्भिरव्यवहिता बहवो हलः, तत्र किं सर्वेषां हलामेकैव संयोगसञ्ज्ञा भवति, आहोस्वित् द्वयोर्द्वयोः पृथक् - पृथक् संयोगसञ्ज्ञा भवतीति जिज्ञासा निसर्गतो जायते । यत्रापि बहूनां हलामव्यवधानेन सन्निधानं तत्रापि द्वयोर्द्वयोः वर्णयोरेव संयोगसञ्ज्ञा, न बहूनां हलाम् । “ स्कोः संयोगाद्योरन्ते च” इति सूत्रेण झलि परे यः संयोगः तदाद्योः सकारककारयोर्लोपो विहितः । स च न सम्भवति । झल्सहितस्य अन्यहल्वर्णद्वयस्य संयोगसञ्ज्ञायां संयोगो न झल्परः स्यात्, सर्वत्रैव हि झल्सहितस्य सञ्ज्ञायाः प्राप्तत्वात् । अतः सूत्रवैयर्थ्यभिया बहूनां सञ्ज्ञा नेति युक्तम् । द्वयोर्द्वयोः संयोगसञ्ज्ञायान्तु तृतीयस्य हलो झल्रूपत्वे सूत्रस्य चारितार्थ्यात् । यथा ‘मग्नः’ इत्यत्र ‘मस्ज्’ धातोः क्तप्रत्यये “ मस्जिनशोर्झलि” इति सूत्रेण सकारजकारयोर्मध्ये नुमि सकारनकारयोः संयोगसञ्ज्ञायां जकारस्य झल्त्वम्, तस्मिन् सति यः सकारनकारयोः संयोगः तस्यादिभूतस्य सकारस्य लोपः सिद्धः । अतः फलाभावाद् बहूनां संयोगसञ्ज्ञा न भवतीति मन्तव्यम् ।


बहूनां संयोगसञ्ज्ञायाः फलं द्वयोः संयोगसञ्ज्ञायाः व्यावृत्तिरिति न युक्तम् । धात्ववयवस्य पदावयवयस्य श्रृङ्गावयवस्य इत्येवंरूपार्थस्य भाष्ये तत्र तत्राश्रयणेन एकस्मिन् प्रयोगे बहूनां द्वयोश्च संयोगसञ्ज्ञायां प्राप्तायां बहूनां न सञ्ज्ञा, फलाभावात् । धात्ववयवेति व्याख्यानेन वर्णद्वयसंयोगोऽपेक्ष्यते । अङ्गसञ्ज्ञायां वर्णत्रयस्य अन्तेऽभावाद् बहूनां सञ्ज्ञा निष्फला । वर्णत्रयसंयोगस्य धात्ववयवस्याभावेन असङ्गतिः स्यात् । अत एव द्वयोः वर्णयोरेव संयोगसञ्ज्ञा न तु बहूनामिति सिद्धान्तः ।


भट्टोजिदीक्षितानामभिप्रायः 


पाणिनेः संयोगसञ्ज्ञाविधायकस्य  “ हलोऽनन्तरा संयोगः” इति सूत्रस्य भट्टोजिदीक्षितैः सिद्धान्तकौमुद्याम् - अज्भिरव्यवहिता हलः संयोगसञ्ज्ञा स्युरिति सूत्रार्थः क्रियते ।


गुणवृद्ध्यादिसञ्ज्ञावत् प्रत्येकं संयोगसञ्ज्ञायाः प्रसक्तिः तैः महासञ्ज्ञाकरणस्य अन्वर्थसञ्ज्ञाविज्ञानार्थत्वं स्वीकृत्य निरस्यते । तथा च तद्रीत्या संयुज्यन्तेऽस्मिन् समुदाये वर्णाः इति संयोगशब्दस्य व्युत्पत्या समुदाये एव वाक्यपरिसमाप्तिः ।


यद्यपि सूत्रे ‘हलः’ इति बहुवचनम्, तथापि जातौ बहुवचनस्वीकारात् द्वयोरपि संयोगसञ्ज्ञा तैः स्वीक्रियते । तेन ‘शिक्षा’ इत्यादौ “ गुरोश्च हलः” इति ‘अ’ प्रत्ययः सिध्यति । 


‘यत्र तु बहवो हलः संश्लिष्टाः तत्र द्वयोर्बहूनां वा अविशेषेण सञ्ज्ञा’ इति भट्टोजिदीक्षितानां सिद्धान्तः । वृक्षप्रचलनन्यायस्य तु अत्र न विषयः इति कौस्तुभे तैः स्पष्टीक्रियते ।


नागेशभट्टानामभिप्रायः 


नागेशभट्टैरपि समुदायस्यैव संयोगसञ्ज्ञा स्वीक्रियते, न तु प्रत्येकस्य । परं भट्टोजिदीक्षितैः स्वीकृतोऽन्वर्थसञ्ज्ञात्वरूपः हेतुः तैः न स्वीक्रियते । तद्रीत्या ‘गर्गाः शतं दण्डयन्तामर्थिनश्च राजानः, हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति’ इति न्यायादेव अत्र समुदाये वाक्यपरिसमाप्तिः स्वीक्रियते । अनन्तरा इत्युक्तिश्च तद्रीत्या समुदायसञ्ज्ञात्वे प्रमाणमानन्तर्यं च तद्रीत्या विशेषणं न तु उपलक्षणम् । 


किञ्च संयुज्यन्ते वर्णाः यत्र इति अन्वर्थसञ्ज्ञाबलात् न प्रत्येकं सञ्ज्ञा इति भट्टोजिदीक्षितमतस्य तैः युक्त्या खण्डनं विधीयते । तथा च नागेशभट्टरीत्या घटपटौ संयुज्येते यत्र इत्यादौ संयुज्यमानपदार्थातिरिक्तस्यैव अन्यपदार्थतया प्रतीतेः व्युत्पन्नत्वेन तदतिरिक्ततद्घटितपदवाक्यरूपसमुदायस्यैव संयोगसञ्ज्ञापत्तौ अनिष्टापत्तिः । अतोऽन्वर्थसञ्ज्ञाबलात् समुदायस्य सञ्ज्ञा इति भट्टोजिदीक्षितानां व्याख्यानं नोचितमिति नागेशभट्टानां सिद्धान्तः । तद्रीत्या संयोग इति महासञ्ज्ञाकरणं तु प्राचामनुरोधेन । किञ्च ‘हलः’ इति जातौ बहुवचनमिति भट्टोजिदीक्षितानां व्याख्यानमपि नागेशभट्टैः नाङ्गीक्रियते । तद्रीत्या बहुवचनं सौत्रम् । 


एवमेव यत्र बहवो हलः श्लिष्टाः तत्र द्वयोर्बहूनां वा विशेषेण संयोगसञ्ज्ञा इति भट्टोजिदीक्षितानां मतं नागेशभट्टैः नाङ्गीक्रियते । तद्रीत्या यत्रापि बहवः श्लिष्टाः तत्रापि द्वयोर्द्वयोरेव संयोगसञ्ज्ञा न बहूनाम् ।


एवञ्च तद्रीत्या बहूनामपि संयोगसञ्ज्ञा इति भट्टोजिदीक्षितानां व्याख्यानमपि चिन्त्यमेव, तादृशव्याख्याने फलाभावात् । 


तस्मात् संयोगसञ्ज्ञाविधायकसूत्रव्याख्यानविषये अन्वर्थत्वविषये बहुवचनविषये अविशेषणसञ्ज्ञाविषये च भट्टोजिदीक्षितनागेशभट्टयोः मतभेदः स्पष्टः इति बोध्यम् ।


संयोगसञ्ज्ञाप्रदेशाः -


1. असंयोगाल्लिट् कित् - (१.२.५)


असंयोगात्परोऽपित् लिट् कित् स्यात् । उदाहरणम् - एधाञ्चक्रे ।


2. संयोगे गुरु - (१.४.११)


संयोगे परे ह्रस्वं गुरुसञ्ज्ञं स्यात् । उदाहरणम् - कुण्डा, शिक्षा । 


3. स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् - (४.१.५४)


असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात् प्रातिपदिकाद् वा ङीष् स्यात् । उदाहरणम् - अतिकेशी, अतिकेशा ।


4. न न्द्राः संयोगादयः - (६.१.३)


अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । उदाहरणम् - उन्दिदिषति, अड्डिडिषति ।


5. सान्तमहतः संयोगस्य - (६.४.१०)


सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसम्बुद्धौ सर्वनामस्थाने परे । उदाहरणम् - अजरांसि, श्रेयान्, महान् । 


6. वाऽन्यस्य संयोगादेः - (६.४.६८)


घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि । उदाहरणम् - ग्लेयात्, ग्लायात् । म्लेयात् म्लायात् । 


7. एरनेकाचोऽसंयोगपूर्वस्य - (६.४.८२)


धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ प्रत्यये परे । उदाहरणम् - निन्यतुः, उन्न्यौ ।


8. ओः सुपि - (६.४.८३)


धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ सुपि । उदाहरणम् - खलप्वौ, सुल्वौ । 


9. हुश्नुवोः सार्वधातुके - (६.४.८७)


जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके । उदाहरणम् - जुह्वति, सुन्वन्ति । 


10. उतश्च प्रत्ययादसंयोगपूर्वात् - (६.४.१०६)


असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात् परस्य हेर्लुक् । उदाहरणम् - धिनु, तनु । 


11. लोपश्चास्यान्यतरस्यां म्वोः - (६.४.१०७)


असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा म्वोः परयोः । उदाहरणम् - धिन्वः, धिनुवः । धिन्मः, धिनुमः । 


12. न संयोगाद् वमन्तात् - (६.४.१३७)


वकारमकारान्तसंयोगात्परस्यानोऽकारस्य लोपो न । उदाहरणम् - यज्वनः, यज्वना, ब्रह्मणः, ब्रह्मणा । 


13. संयोगादिश्च - (6-4-166)


संयोगादिः इन् प्रकृत्या स्यादणि परे । उदाहरणम् - चाक्रिणः ।


14. ऋतश्च संयोगादेः - (७.२.४३)


ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड् वा स्यात्तङि । उदाहरणम् - स्तरिषीष्ट, स्तृषीष्ट, अस्तरिष्ट, अस्तृत ।


15. ऋतश्च संयोगादेर्गुणः - (७.४.१०)


ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । उदाहरणम् - जह्वरतुः, जह्वरुः, सस्मरतुः, सस्मरुः ।


16. गुणोऽर्तिसंयोगाद्योः - (७.४.२९)


अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । उदाहरणम् -  अर्यते, अर्यात्, स्मर्यते, स्मर्यात् ।  


17. संयोगान्तस्य लोपः - (८.२.२३)


संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । उदाहरणम् - गोमान्, श्रेयान् । 


18. रात्सस्य - (८.२.२४)


रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । उदाहरणम् - ऊर्क् ।


19. स्कोः संयोगाद्योरन्ते च - (८.२.२९)


पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । उदाहरणम् - भृट्, लग्नः । 


20. संयोगादेरातो धातोर्यण्वत् - (८.२.४३)


संयोगादेराकारान्ताद्यण्वतो धातोः निष्ठातस्य नः । उदाहरणम् - द्राणः, ग्लानः । 


॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥

हलोऽनन्तराः (१.१.७) 'गर्गाः शतं वण्ठ्यन्ताम्' इत्यत्र समुदाये शतवण्डनववत्र समुदायस्यैव सञ्ज्ञा, न प्रत्येकम्; अनन्तरा इत्युक्तेश्व तस्य विशेषणताया एवौचित्यात् ।


हलोऽनन्तराः संयोगः (१.१.७) ॥ " गर्गाः शतं दण्डयन्ताम् अर्थिनश्च राजानो हिरण्येन भवन्ति' इति भाष्योकन्यायः । यथा एकैकस्य गर्गस्य शतेन रूप्यकैर्दण्डो न विधीयते, किन्तु गर्गाणां समुदायो दण्डघते; तथैवात्र हल्समुदायः संयोगसंज्ञको भवति, न तु प्रत्येकम् । अपरोऽसुपि न्याय: - 'सर्वे ब्राह्मणा भोज्यन्ताम्, माठर कौण्डिन्यौ परिवेविषा ताम्' इति । ब्राह्मणाः भोजनकतु त्वेन माठरकौण्डिन्यौ च परिवेषणकतु त्वेन अनेन न्यायेनाभिमताः । भोजनक्रिया प्रत्येकस्मिन् भोजनकर्तरि ब्राह्मणे विश्राम्यति, न तु ब्राह्मणसमुदाये यथा, तथा चेत् अत्र संयोगसंज्ञा अवयवस्य प्राप्नोति न हत्समुदायस्य । उभावपि न्यायौ शास्त्रे आश्रितो । तथाच कतरेण व्यवस्थेति विनिगमकान्तरमाहअनन्तरा इति । नास्ति अन्तरा व्यवधानं येषामित्यर्थकस्य अनन्तरशब्दस्य व्यवधानशून्यार्थकत्वं प्रतीयते । व्यवधानश्च द्वयोर्मध्ये केनाप्यन्येन भवति । नहि एकस्य केनापि व्यवधानं दृष्टम् । एवञ्च 'संयोगो विप्रयोगश्च साहचर्य विरोधिता' इत्याद्यभियुक्तोक्तदिशा विप्रयोगस्यापि संयोगवद् अर्थविशेषनिश्चायकत्वेन व्यवधानराहित्ये विवक्षिते व्यवधानयोग्यतायाः सत्त्वमप्यपेक्षितम् । तथा च द्वयोरेव व्यवधानयोग्यतायाः सम्भवेन द्वयोरेव संयोगसंज्ञा, न प्रत्येकमित्याशयः ।


ननु हलः प्रत्येकं संयोगसंज्ञा अनन्तराश्च संयोगसंज्ञकाः स्युरित्यर्थे प्रत्येकं संयोगसंज्ञाया आपत्तिस्तदवस्था ? अत आह - तस्येति । अनन्तरा इति हलो विशेषणम्, नतु स्वातन्त्र्येण संज्ञाया उद्देश्यम् । अथवा अयमर्थः - अविद्यमानं सद् इतरव्यावर्तकम् उपलक्षणमुच्यते । 'काकवन्तो देवदत्तस्य गृहाः' इत्यत्र काक उपलक्षणम् । अविद्यमानोऽपि काकः तद्गृहं गृहान्तराद् व्यावर्तयति । तथा प्रकृतेऽपि आनन्तर्यमुपलक्षणम् । तथाच क्वचित् वर्णद्वयस्थले आनन्तर्यस्य सम्भवेन इह एकस्मिन् तद्वर्णे आनन्तर्ययोग्यतारूपानन्तर्यस्याभावेऽपि संयोगसंज्ञायाम् उपलक्षितस्य आनन्तर्यस्य निमित्तत्वेन सम्प्रति तदभावेऽपि सा संज्ञा प्राप्नोति । तद्वारणाय आह-तस्य विशेषणताया इति । आनन्तर्य विशेषणमेव, न तूपलक्षणमिति न दोषः । शतवण्डनवत् इति । गर्गसमुदायस्य शतरूप्यात्मको दण्डो यथा, तथा संयोगसंज्ञा- सूत्रेण हसमुदायस्यैव संज्ञा, न प्रत्येकमिति । तस्य - आनन्तर्यस्य । एष इति । एव- कारेण उपलक्षणताया व्यवच्छेदः ।


यत्तु 'संयुज्यन्ते वर्णा यत्रेत्यन्वर्थसंज्ञाबलान प्रत्येक संज्ञा' इति, तन, घटपटी संयुज्येते यत्रेत्यादौ संयुज्यमानपदार्थातिरिक्तस्यैवान्यपदार्थतया प्रतीतेर्व्युत्पन्नत्वेन तदतिरिक्ततद्घटितपववाक्यरूपसमुदायस्य संज्ञापत्तावनिष्टापतेः । महासंज्ञा तु प्राचामनुरीधादेव । तेन 'सुवृषद्भाति' इत्यत्र संयोगान्तलोपो नेत्यन्यत्र विस्तरः ।


हल:' इति बहुवचनं सौम् या हो चय: । 'स्वरितात् संहितायामनुदात्तानाम्' (१.२.३९) इति सूत्रेऽनुदात्तानामिति पदे तयेोषस्या करणात् । तेन द्वयोरपीति 'शिक्षा' इत्यादी 'गुरोक्ष हरु:' (३.३.१०३) इति अन्यप्रत्ययः सिध्यति । यत्रापि चयः दिष्टास्तत्रापि द्वयोर्द्वयोरेव न बहना, हलि संयोगादिविधानात् । बहूनामपीति चिन्त्यमेव; फलाभावात् । तत्र तत्रादयस्वामीन तादृशस्य च त्रयाणां संयोगस्याभावादिति भाष्ये स्पष्टम् । श्रानन्तर्य व्यवधानाभावः, व्यवधाना विजातीयेनैवेत्याशयेनाह - अज्भिरिति । अन कुत्वं न्याय्यम् । अस एवं 'वर' (मा० सू० ५) सूत्रे 'अचोऽक्षु' इति भाव्यप्रयोगे कुत्वं दृश्यते । स्वरैरव्यवहिता इति तुचिता वृत्तिः ।


हल: किम् ? तितज देव । अन्न 'गुरो:' (८.२.८६) इति प्लुतः स्यात् । अनन्तराः किम् ? सम् । अत्र सकारमकारयोः संयोगत्वे 'स्को:' इति लोपः स्यात् ॥


कस्यचिन्मतं दूषयितुमुपक्रमते यत्तु इति । संयोगेति महत्याः संज्ञायाः करणाद् अन्वर्था - व्युत्पत्तिलभ्यार्थविशिष्टा संज्ञा विज्ञायते । एवञ्च संयुज्यन्ते वर्णा यत्रेति व्युत्पत्तिबलादेव द्वयोः संज्ञेति लभ्यते । एतन्निरस्यति - तन इति । यथा घटपटी संयुज्येते, स्थले संयुज्यमानघटपटार्थातिरिक्तस्य अन्यपदार्थस्य प्रतीयमानतया भिन्नः प्रासादादिबध्यते, तथैवात्रापि संयोगसंज्ञायां तद्वर्णघटितस्य तदतिरिक्तस्य वाक्यात्मकसमुदायस्य ग्रहणेन हत्समुदायस्य संज्ञा न स्यात् । यत्तु आचारिणो मूलविरुद्धार्थप्रतिपादनैकव्रतिनः 'व्रीहयः संयुज्यन्ते यत्र राशौ ईदृशप्रयोगदर्शनात् संयुज्यमानातिरिक्तोऽन्यपदार्थ इति नियमो व्यभिचरितः' इत्याहुः । तन्न । 'धान्यानां राशि:' एवंविधप्रयोगस्य दर्शनेन अभिनेऽपि भेद आरोपितः । पुरुषा एव सेना, वृक्षा एव वनम् परं तत्र भेदेन व्यवहारः आरोपेणैव उपपाद्यते यथा, तथात्रापि आरोपितभेदेन तद्व्यवहारोपपत्ती अन्यपदार्थः अन्य एव भवतीति नियमो न कचिदपि व्यभिचरति । भेदो वास्तविक एव इति न विवक्षितः ।


अथवा समूहिनोऽतिरिक्तः समूहः, तदापि दोषो न । राशिरपि धान्यात्मक एव । तेन= समुदायस्य सञ्ज्ञाकरणेन । अतः सुदृषद् भातीत्यत्र दकारस्य संयोगान्तलोपो न; दकारमात्रे संयोगाभावात् भकारेण सह संयोगसंज्ञायां संयोगान्तत्वाभावात् । वर्णा यत्रेति । समुदाये इत्यर्थः । प्रत्येकं संज्ञा संयोगसंज्ञा । 


ननु हल्त्वजातेरेक्यात् जातिपक्षे एकवचनेन निर्देश उचित व्यक्तिले 'ह इति निर्देशस्योपपत्तावपि द्वयो हलोः संयोगसंज्ञा न स्यात् बहूनामेव स्थान बाह हल इति । बहुवचनमविवक्षितम् इति भावः । नत्र 'जात्याख्यायाम्' इति सूत्रेण जाती बहुवचनं कल्प्यतामिति वाच्यम् आनन्तर्यविशेषणस्य जातो असम्भवात्। जाती संज्ञायाः फलाभावाद अवतरन्ती संज्ञा प्रतिव्यक्ति विश्राम्येद् एवं लाघवात् जाती एकवचननिर्देशस्य औचित्याच्चेत्यादिदोषबाहुल्यात् सौत्रत्वादेकवचनमित्येव युक्तम् । तथाच अनेकार्थक बहुवचनम्, नतु बहुत्वार्थकमित्यर्थः ।


अथवा हल चलश्च इत्येवमेकशेषकरणे हल इत्यत्र बहुवचनस्योम्पत्तिः । तथाच हलद्वयस्य अनेकेषां हलाञ्च संयोगसंज्ञायाः प्राप्तिः । प्राचीनमतेन इदं सम्भवति स्वमते तु 'बहूनां संयोगसंज्ञा नेष्यते' इत्यग्रे वक्ष्यमाणत्वात् । योः संयोगा द्विविधेऽपि सूत्रव्याख्याने सिध्यति । एतत्फलन्तु शिक्षा इत्यत्र हलद्वयस्य संयोगसंज्ञायां 'गुरोश्च हल:' (३.३.१०३) इत्यनेन गुरुमतो हलन्ताद् धातोः अकारस्य विधानम् । परस्मिन् संयोगे सति पूर्वस्य इकारस्य 'संयोगे गुरु इत्यनेन गुरुसंज्ञायां शिक्षघातो गुरुम सिध्यति । बहूनामेव संयोगसंज्ञापक्षे संयोगसंज्ञा न स्यात् ।


यत्रापि बहूनां हलामव्यवधानेन सन्निधानं तत्रापि द्वयोर्द्वयोः वर्णयोरेव संयोगसंज्ञा, न बहूनां हलाम् । 'स्कोः सयोगाद्योरन्ते च' इति सूत्रेण झलि परे यः संयोगः तदाद्योः सकारककारयोर्लोपो विहितः । स च न सम्भवति । झद्सहितस्य अन्यहत्वर्णद्वयस्य संयोगसंज्ञायां संयोगो न झल्परः स्यात् सर्वत्रैव हि झल्सहितस्य संज्ञायाः प्राप्तत्वात् । अतः सूत्रवैयर्थ्याभिया बहूनां संज्ञा नेति युक्तम् । द्वयोर्द्वयोः संयोगसंज्ञायान्तु तृतीयस्य हलो झरूपत्वे सूत्रस्य चारितार्थ्यात् । यथा मग्नः इत्यत्र मस्जधातोः कप्रत्यये 'मस्जिनशोर्झलि' इत्यनेन सकारजकारयोमध्ये तुमि सकारनकारयोः संयोगसंज्ञायां जकारस्य स्वम् तस्मिद् सति यः सकारनकारयोः संयोगः तस्यादिभुतस्य सकारस्य लोपः सिद्धः । अतः फलाभावाद बहूनां संयोगसंज्ञा न भवतीति मन्तव्यम् ।


 बहूनां संयोगसंज्ञायाः फलं द्वयोः संयोगसंज्ञायाः व्यावृत्तिरिति न युक्तम् । धात्व- वयवस्य पदावयवस्य शृङ्गावयवस्य इत्येवंरूपार्थस्य भाष्ये तत्र तत्राश्रयणेन एकस्मिन् प्रयोगे बहूनां द्वयोश्च संयोगसंज्ञायां प्राप्तायों बहूनां न संज्ञा; फलाभावात् । धारयवयवेति व्याख्यानेन वर्णद्वयसंयोगोऽपेक्ष्यते । अङ्गसंज्ञायां यत्रयस्य अन्तेऽभावाद बहूनां संज्ञा निष्फला । वर्णत्रयसंयोगस्य धात्ववयवस्याभावेन असङ्गतिः स्यात् । द्वयोश्च वर्णयोः संयोगसंज्ञंव न तत्र - इति अनौचित्यात् द्वयोरेव संज्ञा; बहूनां तु फलाभावादेव संज्ञायाः निरासात् ।


तितउ देव इति । तितउना दीव्यति इत्यर्थः । अत्र सूत्रे हल्ग्रहणाभावे 'अनंन्तराः' इत्यस्य सत्त्वेऽपि अव्यवहितयोः अज्झलोरपि 'त' इत्यस्य संयोगसंज्ञायां संयोगात् पूर्वस्य तिघटकेकारस्य गुरुसंज्ञायाम् 'गुरोरनृतः' इति प्लुतः स्यात् । अतो हल्ग्रहणम् । यदि तु 'अनन्तराः' इत्यनेन विजातीयेन व्यवधानराहित्य विवक्षितम्, तथाच तकार- सहितस्य संयोगसंज्ञा न प्राप्नोति तदा प्रत्येक संयोगसंज्ञापक्षे तकाराकारस्य प्लुतः स्यात् । पक्षान्तरे तितऊभ्याम् अत्र अकारस्य उकारस्य च संयोगसंज्ञायां भ्यामि परे पदत्वात् संयोगान्तलोपः स्यात् ॥


॥ लघुशब्देन्दुशेखरः - हिन्दी ॥

हलोऽनन्तराः । 'गर्गाः शतं दण्ड्यन्तामित्यत्र समुदाये शतदण्डनवदत्र समुदायस्यैव सञ्ज्ञा, न प्रत्येकम् । 'अनन्तरा' इत्युक्तेश्च । तस्य विशेषणताया एवौचित्यात् । यत्तु 'संयुज्यन्ते वर्णा यत्रेत्यन्वर्थसञ्ज्ञाबलान्न प्रत्येकं संज्ञा' इति, तन्न। 'घटपटौ संयुज्येते यत्रे'त्यादौ संयुज्यमानपदार्थातिरिक्तस्यैवान्यपदार्थतया प्रतीतेर्व्युत्पन्नत्वेन तदतिरिक्ततद्घटितपदवाक्यरूपसमुदायस्य सञ्ज्ञापत्तावनिष्टापत्तेः । महासज्ञा तु प्राचामनुरोधादेव । तेन सुदृषद्भाती'त्यत्र संयोगान्तलोपो नेत्यन्यत्र विस्तरः ।


“हलोऽनन्तराः संयोगः “इस सूत्र की व्याख्या करते हुए यह विचार कर रहे हैं कि जिन हल वर्णों के मध्य में अच् वर्ण नहीं है, अच्कृत व्यवधान से रहित उन हल वर्णों की विधेय जो संयोग संज्ञा है, वह गुण और वृद्धि संज्ञा की भाँति प्रत्येक हल वर्ण की होती है अथवा हल् - समुदाय की संयोग संज्ञा होती है ? इस सन्देह का उत्तर देते हुए प्रन्थकार का कहना है कि “गर्गाः शतं दण्ड्यन्ताम्” इस दृष्टान्त के आधार पर वाक्यपरिसमाप्ति समुदाय में ही देखी जाती है । तात्पर्य यह है कि यहाँ दण्ड के रूप में सौ रुपया गर्गसमुदाय से लिया जाता है, न कि प्रत्येक गर्ग से सौ - सौ रुपया लिया जाता है । उसी प्रकार यहाँ भी संयोग संज्ञा प्रत्येक हल वर्ण को न होकर समुदाय को ही होती है । यदि कहा जाय कि ब्राह्मणभोजन न्याय से प्रत्येक में भी वाक्यपरिसमाप्ति देखी जाती है । इस स्थिति में यहाँ प्रत्येक की संयोग संज्ञा क्यों न हो जाय ? इस बात के उत्तर में कह रहे हैं कि “अनन्तरा इत्युक्तेश्च” अर्थात् “व्यवधानरहिताः” इस अर्थवाला “अनन्तराः” यह बहुवचनान्त पद “हल” इस बहुवचनान्त पदार्थ का विशेषण ही है । इसलिए बहुत हल् अर्थात् हल समुदाय की ही संयोग संज्ञा होती है । यहाँ “अनन्तराः”“इस पद की व्याख्या दो प्रकार से होती है । पहला प्रकार यह है कि “अविद्यमानमन्तरं = वर्णशून्यकालो मध्ये येषां ते” अर्थात् जिन हल् वर्णों के मध्य में वर्णशून्य काल नहीं है । एक वर्ण के उच्चारण के बाद दूसरे वर्ण के उच्चारण में अर्धमात्रा काल का व्यवधान अनिवार्य है । इसलिए “अनन्तराः” का अर्थ है  - अर्धमात्राधिक काल के व्यवधान से शून्य। हल वर्णों के मध्य में यदि अच् वर्ण आ जाता है तब वहाँ यह स्थिति न रहने के कारण संयोग संज्ञा नहीं होती है । अथवा “अविद्यमाना अन्तरा मध्ये येषां ते अनन्तराः” जिन हल वर्णों के मध्य में व्यवधान न हो वे अनन्तर कहे जाते हैं । व्यवधान विजातीय के द्वारा ही होता है, इसलिए हल् के विजातीय अच् वर्णों का ही व्यवधान यहाँ सम्भव होने से अच् के व्यवधान से रहित हल् वर्णों की संयोग संज्ञा होती है । उपर्युक्त पहले विग्रह के अनुसार जहाँ एक हल् के उच्चारण के बाद दूसरे हल् वर्ण के उच्चारण में एकमात्रा काल का व्यवधान हो, उस अवग्रह स्थल में संयोग संज्ञा कैसे होगी ? यह शंका हो सकती है, किन्तु इस शंका का कोई महत्त्व नहीं है । क्योंकि ऐसे स्थल के लिए भाष्यकार ने कहा है कि “नैव दोषो न प्रयोजनम्” अर्थात् अवग्रह में संयोग संज्ञा करने का कोई प्रयोजन नहीं है, इसलिए कोई दोष नहीं है । 


प्रत्येक हल की संयोग संज्ञा के वारण के लिए कैयट आदि आचार्य संयोग शब्द को व्युत्पत्ति इस प्रकार करते हैं - “संयुज्यन्ते वर्णा यत्रासौ संयोगः” अर्थात् जहाँ वर्ण आपस में मिलते हैं वह समुदाय ही संयोग है । इस अन्वर्थ संज्ञा के बल से प्रत्येक की संयोग संज्ञा नहीं होगी । नागेश भट्ट इस कथन का खण्डन करते हुए कह रहे हैं कि यह कहना इसलिए ठीक नहीं है कि “घटौपटौसंयुज्येते यत्र” इस वाक्य से संयुज्यमान घट - पट पदार्थ से अतिरिक्त किसी अन्य पदार्थ की प्रतीति होती है । उसी प्रकार कैयट की व्याख्या के अनुसार संयुज्यमान वर्णों से अतिरिक्त और उनसे घटित युक्त पद और वाक्य रूप समुदाय की संयोग संज्ञा होने लगेगी, जिससे अनिष्टापत्ति होगी । किन्तु विषमी टीकाकार के अनुसार नागेश का कथन ठीक नहीं है, क्योंकि सब जगह संयुज्यमान पदार्थ से अन्य का ही ग्रहण हो यह कोई आवश्यक नहीं है । उदाहरण के लिए “व्रीहयः संयुज्यन्ते यत्र राशौ” इस स्थल पर उस राशि से व्रीहि का ही ग्रहण होता है । इसी प्रकार यहाँ हल् के विशेष्य होने के कारण अन्य पदार्थ के रूप में अज्रहित हल समूह का ही ग्रहण होगा, न कि पद और वाक्य का। इसलिए कैयट की व्याख्या में कोई दोष नहीं है । यद्यपि संज्ञा लघु (अल्पाक्षर वाली) करनी चाहिए तथापि यहाँ संयोग नामक जो महती संज्ञा की गई हैं वह प्राचीनों के अनुरोध पर की गई है । प्राचीन आचार्यों ने संयोग यह महासंज्ञा ही की है, उसी आधार पर यहाँ भी संयोग संज्ञा की गई है ।


तेन = अच् रहित प्रत्येक हल की संयोग संज्ञा न करके अच् रहित हल समुदाय की संयोग संज्ञा करने से “सुदृषद भाति” इस वाक्यपटक हल्ररहित दकार को संयोग संज्ञा नहीं होती है । इसलिए उसका संयोगान्त लोप नहीं होता है । यह बात अन्यत्र = भाष्यादि में विस्तार से कही गई है । हलश्चेत्येकशेष: - 'हल' इति बहुवचनं सौत्रम् । यद्वा - हलौ च 'स्वरितात्संहितायामि'ति सूत्रे ऽनुदात्तानामिति पदे तथैकशेषस्य भाष्ये करणात् । तेन द्वयोरपीति - 'शिक्षे' त्यादौ' 'गुरोश्च हल:' इति अप्रत्ययः सिद्ध्यति । यत्रापि बहवः श्लिष्टास्तत्रापि द्वयोर्द्वयोरेव न बहूनाम् झलि परे संयोगादिलोपविधानात् । 'बहूनामपी'ति चिन्त्यमेव फलाभावात् । तत्र तत्राङ्गपदधात्ववयवसंयोगस्य वाश्रयणेन तादृशस्य च त्रयाणां संयोगस्याभावादिति भाष्ये स्पष्टम् । आनन्तर्य - व्यवधानाभावो व्यवधानञ्च विजातीयेनैवेत्याशयेनाह  - अज्भिरिति । अत्र कुत्वं न्याय्यम् । अत एव हयवरट्सूत्रे  - 'अचोऽक्षु' इति भाष्यप्रयोगे कुत्वं दृश्यते । 'स्वरैरव्यवहिता' इति तूचिता वृत्तिः । हलः किम् ? तितड देव। अत्र 'गुरोरि'ति प्लुतः स्यात् । अनन्तराः किम् ? द्रप्सम् ? अत्र सकारमकारयोः संयोगत्वे 'स्कोरि'ति लोपः स्यात् ।


उपर्युक्त विवेचन से स्पष्ट हो गया है कि अच् रहित एक हल् की संयोग संज्ञा नहीं होती है, किन्तु “हल:” इस बहुवचन के आधार पर तो यही कहा जा सकता है कि बहुत हलों की ही संयोग संज्ञा होती है । ऐसी स्थिति में दो हल वर्ण की संयोग संज्ञा नहीं हो सकेगी । इस बात का उत्तर देते हुए कह रहे हैं कि “हल:” इस पद में बहुवचन सौत्र है । यदि प्रकारान्तर से “हल” पद में बहुवचन की उपपत्ति हो सकती है तो गौरवग्रस्त उसकी सौत्रत्व कल्पना उचित नहीं है, इस बात को दृष्टिगत कर कह रहे हैं कि यद्वा = अथवा यहाँ “हलौ च हलश्च इति हल:” इस रूप में एकशेष हुआ है । यहाँ यह सन्देह होता है कि एकशेष द्वन्द्व का अपवाद है । द्वन्द्व समास समान विभक्तिकों का ही होता है । ऐसी स्थिति में यहाँ द्विवचन और बहुवचन का एकशेष किस प्रकार हुआ है ? अपवाद का भी देश वही होता है जो उत्सर्ग का होता है । इसलिए यहाँ एकशेष की संगति नहीं हो रही है ? इस शंका के उत्तर में कह रहे हैं कि “स्वरितात् संहितायामनुदात्तानाम्” (१ १२ १३९) इस सूत्र में आये हुए “अनुदात्तानाम्” इस पद के सन्दर्भ में भाष्यकार ने कहा है कि “एकशेषनिर्देशोऽयम्” यहाँ “अनुदात्तानाम्” यह पद एकशेषनिर्दिष्ट है । इसका विग्रह इस प्रकार है - अनुदात्तस्य च अनुदात्तयोश्च अनुदात्तानाञ्चेति अनुदात्तानाम्”। इस भाष्य से स्पष्ट होता है कि भिन्न वचनकत्व के उपादान में भी एकशेष होता है । इस प्रकार प्रस्तुत सूत्र में “हलः” यह पद एकशेषसम्पन्न सिद्ध होता है । इस प्रकार एकशेष करने का परिणाम यह होता है कि जहाँ बहुत हलों का आनन्तर्य होगा वहाँ बहुत की संयोग संज्ञा होगी और जहाँ दो हल वर्णों का आनन्तर्य होगा वहाँ दो की संयोग संज्ञा होगी । 


यहाँ एक बात यह भी समझ लेनी चाहिए कि जिस प्रकार “हल:” पद में एकशेष है उसी प्रकार “अनन्तराः” पद में भी एकशेष है । अन्यथा द्विवचनान्त “हलौ” इस पद का अनन्तर पदार्थ में अन्वय कैसे हो सकेगा ? इसलिए “अनन्तरौ च अनन्तराश्च इति अनन्तराः” इस रूप में इस पद में भी एकशेष समझना चाहिए । इस प्रकार “हलो” इस द्विवचनान्त पद का “अनन्तरी” इस द्विवचनान्त पद के साथ सम्बन्ध होने में कोई कठिनाई नहीं होती है । 


“तेन = “हल:” इस पद में द्विवचनान्त और बहुवचनान्त का एकशेष होने के कारण दो हलों की भी संयोग संज्ञा हो जाती है । इसीलिए “शिक्षा” इस पद की निष्पत्ति में शिक्ष धातु से “गुरोश्च हलः” सूत्र से शकारोत्तरवर्ती इकार को संयोगादि में रहने के कारण गुरु मान कर अ प्रत्यय की सिद्धि होती है । 


वस्तुतस्तु “तेन द्वयोरपि “इस शेखर के “द्वयोरपि” इस पद के पहले शुद्ध शब्द को जोड़ कर शुद्ध दो हल् वर्णों की संयोग संज्ञा होती है और अपि शब्द से जहाँ बहुत हल हो वहाँ भी दो हलों की संयोग संज्ञा होती है । निष्कर्ष यह है कि नागेश भट्ट का अभिप्राय यह प्रतीत होता है कि अच् रहित दो हल् हों या बहुत हल हों, संयोग संज्ञा दो - दो हलों की ही होती है । इसीलिए कह रहे हैं कि जहाँ भी बहुत हल् श्लिष्ट हैं अर्थात् अच् रहित हैं वहाँ भी संयोग संज्ञा दो - दो हलों की ही होती है, न कि बहुत हलों की होती है । ऐसा स्वीकार करने का कारण बताते हुए शेखरकार का कहना है कि “स्को” सूत्र से झल पर में रहने पर संयोगादि सकार और ककार का लोपविधान करना ही इस बात में प्रमाण है कि बहुत हलों के संश्लेष में भी संयोग संज्ञा दो - दो की ही होती है । जैसे ववष्ठ प्रयोग में “ववश् च् थ” इस स्थिति में श्चुत्व के असिद्ध हो जाने से सकार और चकार के संयोग के आदि में सकार का लोप थकार को झल पर में मान कर होता है । यदि बहुत हलों की संयोग संज्ञा होती है, ऐसा स्वीकार किया जाय तो यहाँ सकार चकार और थकार इन तीनों की संयोग संज्ञा होने पर यहाँ झल पर में नहीं मिलेगा । ऐसी स्थिति में “ववष्ठ”, “वृष्टा” आदि प्रयोगों में सकार का लोप नहीं हो सकेगा । इसलिए “बहूनामपि संयोगसंज्ञा” यह पक्ष चिन्त्य है, क्योंकि इसका कोई फल नहीं है । जहाँ - जहाँ संयोगादि या संयोगान्त शब्द आये हैं, जैसे “ऋतश्च संयोगादेर्गुणः” “संयोगान्तस्य लोपः”, “संयोगादेरातो धातोर्यण्वतः”, “वान्यस्य संयोगादे: “ - वहाँ सभी जगह अङ्ग पद और धात्ववयव संयोग का ही आश्रयण किया गया है । इससे स्पष्ट है कि तीन हल् वर्ण जो अच् रहित हैं, उनका संयोग नहीं होता है, किन्तु वहाँ भी दो - दो की ही संयोग संज्ञा होती है । यह बात भाष्य में स्पष्ट है । 


आनन्तर्य का अर्थ व्यवधान का अभाव । व्यवधान विजातीय से ही होता है । इसीलिए दीक्षितजी इस सूत्र की वृत्ति में कहे हैं - “अभिरव्यवहिता हल:” अर्थात् अच् से अव्यवहित हल् संयोगसंज्ञक होते हैं । यहाँ “अभि” इस पद में “चोः कुः” सूत्र से कुत्व करना न्याय्य = उचित है है । इसीलिए “हयवरट्” सूत्र के भाष्य में “अचोऽक्षु” इस प्रयोग में कुत्व देखा जाता । वस्तुतस्तु “उपदेशेऽज्”, “अजादेः सनुमः”, “अजन्तः”, “आदैच”, “ऐच्” इत्यादि स्थलों में कुत्व नहीं देखा जाता और “अचोऽक्षु” इस प्रयोग में कुत्व देखा जाता है । अतः उभयविध प्रयोगों के निर्वाह के लिए यह नियम स्वीकार करना चाहिए कि सुप् के सकार के पर में न रहने पर प्रत्याहारघटक चकार को कुत्व नहीं होता है । अक्षु प्रयोग में सुप् का सकार पर में है, इसलिए यहाँ कुत्व हो गया । उपर्युक्त सभी उदाहरणों में सुप् - सकार पर में नहीं है, अत: वहाँ कुत्व नहीं हुआ है । इसी प्रकार “अज्भि” इस प्रयोग में भी सुप् विभक्ति के सकार के पर में न रहने के कारण कुत्व नहीं हुआ । किन्तु शेखरकार के अनुसार तो यहाँ कुत्व होना ही चाहिए । ऐसी स्थिति में “अग्भिरव्यवहिता हल:” ऐसी वृत्ति बनानी पड़ती, जिससे यहाँ अक् प्रत्याहार का संशय होता, इसलिए “अज्भिरव्यवहिता हल” की जगह “स्वरैरव्यवहिता हल:” इस प्रकार की वृत्ति बनाना उचित था । 


इस सूत्र में यदि हल ग्रहण न किया जाय तो “तितउना दिव्यतीति तितउदेवः, तत्सम्बुद्धौ हे तितउदेव !” इस प्रयोग में अकारयुक्त “त” इस समुदाय की संयोग संज्ञा हो जाती । इसका परिणाम यह होता कि “संयोगे गुरुः” सूत्र से “ति” घटक इकार गुरु हो जाता और “गुरोरनृतः “सूत्र से उसे प्लुत की आपत्ति हो जाती । इसलिए सूत्र में “हल्” ग्रहण करना आवश्यक है । 


इसी प्रकार “अनन्तरा:” इस पद के अभाव में “द्राप्सम्” इस प्रयोग में अकार के व्यवधान में भी सकार और मकार की संयोग संज्ञा हो जाती और फलस्वरूप “स्को: “सूत्र से संयोगादि सकार का लोप होने लगता । इसलिए सूत्र में “अनन्तराः” पद भी सार्थक है । 


॥ महाभाष्यम् ॥

(६. संयोगसञ्ज्ञासूत्रम् १.२.४ आ. ४) 


हलोऽनन्तराः संयोगः १.१.७


॥ अनन्तरपदार्थनिरूपणाधिकरणम् ॥


आक्षेपभाष्यम् - अनन्तरा इति । कथमिदं विज्ञायते - अविद्यमानमन्तरमेषामिति, आहोस्विदविद्यमाना अन्तरा एषामिति ? 


प्रत्याक्षेपभाष्यम् - किं चातः ? 


प्रत्याक्षेपसमाधानभाष्यम् - यदि विज्ञायते - अविद्यमानमन्तरमेषामिति, अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति ' अप्स्विति - अप्ऽसु ' (ऋ. सं. पद. - १.२३.१९) इति । विद्यते ह्यत्रान्तरम् । अथ विज्ञायते - अविद्यमाना अन्तरा एषामिति, न दोषो भवति । 


द्वितीयपक्षाम्युपगमभाष्यम् - यथा न दोषस्तथाऽस्तु । 


प्रथमपक्षाभ्युपगमभाष्यम् -  अथवा पुनरस्तु - अविद्यमानमन्तरमेषामिति । 


आक्षेपस्मारणभाष्यम् - ननु चोक्तम् - अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति - ' अप्स्विति अण्ऽसु ' इति । विद्यते ह्यत्रान्तरम् । 


आक्षेपबाधकभाष्यम् - नैव दोषो न प्रयोजनम् । 


॥ प्रत्येकं संयोगसञ्ज्ञानिराकरणाधिकरणम् ॥


(१३२. आक्षेपवार्त्तिकम् - १) * संयोगसञ्ज्ञायां सहवचनं यथान्यत्र * 


भाष्यम् - संयोगसञ्ज्ञायां सहग्रहणं कर्तव्यम् । ' हलोनन्तराः संयोगः सह ' इति वक्तव्यम् । किं प्रयोजनम् ? सहभूतानां संयोगसञ्ज्ञा यथा स्यादेकैकस्य मा भूदिति । ' यत्रान्यत्र ' । तद्यथा अन्यत्रापि यत्रेच्छति सहभूतानां कार्य, करोति तत्र सहग्रहणम् । तद्यथा - ' सह सुपा ' ' उभे अभ्यस्तं सह ' इति । 


दूषणप्रश्नभाष्यम् - किं च स्यात् यद्यद्येकैकस्य सञ्ज्ञा स्यात् ? 


दोषप्रदर्शनभाष्यम् - इह - निर्यायात्, निर्वायात्, ' वान्यस्य संयोगादेः ' इत्येत्वं प्रसज्येत । इह - संहृषीष्टेति, ' ऋतश्च संयोगादेः ' इतीट्प्रसज्येत । इह च - संह्रियत इति ' गुणोर्तिसंयोगाद्योः ' इति गुणः प्रसज्येत । इह च - दृषत्करोति, समित्करोतीति, ' संयोगान्तस्य लोपः ' इति लोपः प्रसज्येत । इह च - शक्ता, वस्तेति ' स्कोः संयोगाद्योरन्ते च ' इति लोपः प्रसज्येत । इह च - निर्यातो निर्वातः ' संयोगादेरातो धातोर्यण्वतः ' इति निष्ठानत्वं प्रसज्येत । 


दोषपरिहारभाष्यम् - नैष दोषः । यत्तावदुच्यते - इह तावन्निर्यायात् निर्वायात् ' वान्यस्य संयोगादेः ' इत्येत्वं प्रसज्येतेति । नैवं विज्ञायते - संयोग आदिर्यस्य सोऽयं संयोगादिः, संयोगादेरिति । कथं तर्हि ? संयोगावादी यस्य सोऽयं संयोगादिः, संयोगादेरिति । एवं तावत्सर्वमाङ्ग परिहृतम् । 


द्वितीयदूषणोद्धारभाष्यम् - यदप्युच्यते - इह च दृषत्करोति - समित्करोति इति ' संयोगान्तस्य ' इति लोपः प्रसज्येतेति । नैवं विज्ञायते - संयोगोऽन्तो यस्य तदिदं संयोगान्तं, संयोगान्तस्येति । कथं तर्हि ? संयोगावन्तौ यस्य तदिदं संयोगान्तं, संयोगान्तस्येति । 


तृतीयदूषणोद्धारभाष्यम् - यदप्युच्यते - इह च शक्ता - वस्तेति ' स्कोः संयोगाद्योरन्ते च ' इति लोपः प्रसज्येतेति । नैवं विज्ञायते - संयोगावादी संयोगादी, संयोगाद्योरिति । कथं तर्हि ? संयोगयोरादी संयोगादी, संयोगाद्योरिति । 


चतुर्थदूषणोद्धारभाष्यम् - यदप्युच्यते - इह च निर्यातो निर्वात इति ' संयोगादेरातो धातोर्यण्वतः ' इति निष्ठानत्वं प्रस येतेति । नैवं विज्ञायते संयोग आदिर्यस्यासौ संयोगादिः, संयोगादेरिति । कथं तर्हि ? संयोगावादी यस्य सोऽयं संयोगादिः, संयोगादेरिति । 


आक्षेपभाष्यम् - ' प्रत्येकं कथं कृत्वा एकैकस्य संयोगसञ्ज्ञा प्राप्नोति ? 


समाधानभाष्यम् - ' प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टा ' इति । तद्यथा वृद्धिगुणसञ्ज्ञे प्रत्येकं भवतः । 


समाधानबाधकप्रतिबन्दीसिद्धान्तभाष्यम् - ननु चायमप्यस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तद्यथा - गर्गाः शतं दण्ड्यन्ताम् इति । अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति । 


सहग्रहणप्रत्याख्यानभाष्यम् - सत्येतस्मिन्दृष्टान्ते यदि तत्र प्रत्येकमित्युच्यते, इहापि सहग्रहणं कर्तव्यम् । अथ तत्रान्तरेण प्रत्येकमितिवचनं प्रत्येकं गुणवृद्धिसंज्ञे भवतः, इहापि नार्थः सहग्रहणेन । 


आक्षेपभाष्यम् - अथ यत्र बहूनामानन्तर्य, किं तत्र द्वयोर्द्वयोः संयोगसञ्ज्ञा भवति, आहोस्विदविशेषेण । 


भाष्यम् - कश्चात्र विशेषः ?


(१३३. आक्षेपवार्त्तिकम् - २) * समुदाये संयोगादिलोपो मस्जेः * 


भाष्यम् - समुदाये संयोगादिलोपो मस्जेर्न सिद्ध्यति । मङ्गा, मङ्गुम् । इह च निग्लॅयात् - निग्र्तायात्, निम्लेंयात् - निम्र्तायात्, ' वाऽन्यस्य संयोगादेः ' इत्येत्वं न प्राप्नोति । इह च संस्वरिषीष्टेति, ' ऋतश्च संयोगादेः ' इतीट् न प्राप्नोति । इह च संस्वर्यते इति ' गुणोऽर्तिसंयोगाद्योः ' इति गुणो न प्राप्नोति । इह च गोमान्करोति यवमान्करोतीति, ' संयोगान्तस्य लोपः ' इति लोपो न प्राप्नोति । इह च निग्र्लानो निर्लान इति, ' संयोगादेरातो धातोर्यण्वतः ' इति निष्ठानत्वं न प्राप्नोति । 


प्रथमपक्षाभ्युपगमभाष्यम् -  अस्तु तर्हि द्वयोर्द्वयोः संयोगः । 

(१३४. आक्षेपवार्त्तिकम् - ३) * हलोः संयोग इति चेद् द्विर्वचनम् * 


भाष्यम् - द्वयोर्हलोः संयोग इति चेद्विर्वचनं न सिद्धयति । इन्द्रमिच्छति इन्द्रीयति । इन्द्रीयतेः सन् इन्दिद्रीयिषति । ' न न्द्राः संयोगादयः ' इति द्विर्वचनं न प्राप्नोति । 


(१३५. समाधानवार्त्तिकम् - ४) * न वाऽज्विधेः * 


भाष्यम् - न वा एष दोषः । किं कारणम् ? अज्विधेः । नदराः संयोगादयो न द्विरुच्यन्ते । अजादेरिति वर्तते । 


आक्षेपभाष्यम् - अथ यद्येवं बहूनां संयोगसञ्ज्ञा, अथापि द्वयोर्द्वयोः । किं गतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम् ? 


समाधानभाष्यम् - गतमित्याह । कथम् ? यदा तावद्वहूनां संयोगसञ्ज्ञा, तदैवं विग्रहः करिष्यते - ' अविद्यमानमन्तरमेषाम् ' इति । 


समाधानशेषभाष्यम् - यदा द्वयोर्द्वयोः संयोगसञ्ज्ञा, तदैवं विग्रहः करिष्यते - ' अविद्यमाना अन्तरा एषाम् ' इति । द्वयोश्चैवान्तरा कश्चिद्विद्यते वा न वा । 


आक्षेपभाष्यम् - एवमपि बहूनामेव प्राप्नोति । यान् हि भवानत्र षष्ठ्या प्रतिनिर्दिशति, एतेषामन्येन व्यवाये न भवितव्यम् । इति । 


समुदायसञ्ज्ञाभ्युपगमभाष्यम् - अस्तु तर्हि समुदाये सञ्ज्ञा । 


समुदायसञ्जादूषणस्मारणभाष्यम् - ननु चोक्तं - ' समुदाये संयोगादिलोपो मस्जेः ' 


समुदायसञ्ज्ञादूषणनिराकरणसिद्धान्तिभाष्यम् - नैष दोषः । वक्ष्यत्येतत् - ' अन्त्यापूर्वो मस्जेर्मिदनुषङ्गसंयोगादिलोपार्थम् ' इति । 


समुदायसञ्जादूषणनिराकरणैकदेशिभाष्यम् - अथवाऽविशेषेण संयोगसञ्जा विज्ञास्यते - द्वयोरपि, बहूनामपि । तत्र द्वयोर्या संयोगसञ्ज्ञा, तदाश्रयो लोपो भविष्यति । 


समुदायसञ्ज्ञाफक्षोक्तदूषणान्तरनिराकरणसिद्धान्तिभाष्यम् - यदप्युच्यते - ' इह च निर्ग्लेयात् - निर्ग्लायात्, निर्म्लेयात् - निर्लायादिति ' वान्यस्य संयोगादेः ' इत्येत्वं न प्राप्नोति ' इति । अङ्गेन संयोगादिं विशेषयिष्यामः - अङ्गस्य संयोगादेरिति । एवं तावत्सर्वमाङ्गं परिहृतम् । यदप्युच्यते - इह च गोमान्करोति - यवमान्करोतीति ' संयोगान्तस्य लोपः ' इति लोपो न प्राप्नोति इति । पदेन संयोगान्तं विशेषयिष्यामः - पदस्य संयोगान्तस्येति । यदप्युच्यते - ' इह च निर्ग्लानो निर्म्लान इति ' संयोगादेरातो धातोर्यण्वतः ' इति निष्ठानत्वं न प्राप्नोति इति । धातुना संयोगादिं विशेषयिष्यामः - धातोः संयोगादेरिति । 


॥ अनन्तरशब्दार्थनिरूपणम् ॥


(१३६. आक्षेपवार्त्तिकम् - १) * स्वरानन्तर्हितवचनम् * 


भाष्यम् - स्वरैरनन्तर्हिता हलः संयोगसञ्ज्ञा भवन्तीति वक्तव्यम् । किं प्रयोजनम् ? व्यवहितानां मा भूत् । पचति, पनसम् । 


आक्षेपबाधकभाष्यम् - ननु च ' अनन्तराः ' इत्युच्यते । तेन व्यवहितानां न भविष्यति । 


(आक्षेपसाधकं भाष्यवार्तिकम्) * दृष्टमानन्तर्यं व्यवहितेऽपि * 


भाष्यम् - व्यवहितेऽप्यनन्तरशब्दो दृश्यते । तद्यथा - ' अनन्तराविमौ ग्रामौ ' इत्युच्यते, तयोश्चैवान्तरा नद्यश्च पर्वताश्च भवन्ति । 


आक्षेपबाधकभाष्यम् - यदि तर्हि व्यवहितेऽप्यनन्तरशब्दो भवति । आनन्तर्यवचनमिदानीं किमर्थं स्यात् ? 


(आक्षेपसाधकं भाष्यवार्त्तिकम्) * आनन्तर्यवचनं किमर्थमिति चेदेकप्रतिषेधार्थम् * 


भाष्यम् - एकस्य हलः संयोगसञ्ज्ञा मा भूदिति । किञ्च स्याद्यद्येकस्य हलः संयोगसञ्ज्ञा स्यात् ? इयेष - उवोष ' इजादेश्च गुरुमतोऽनृच्छः ' इत्याम् प्रसज्येत । 


(१३७. समाधानवार्त्तिकम् - ६) * न वाऽतज्जातीयव्यवायात् * 


भाष्यम् - न वा एष दोषः । किं कारणम् ? अतज्जातीयस्य व्यवायात् । अतज्जातीयकं हि लोके व्यवधायकं भवति । 


अनुयोगभाष्यम् - कथं पुनर्शायते - अतज्जातीयकं लोके व्यवधायकं भवतीति ? 


उत्तरभाष्यम् - एवं हि कञ्चित् कश्चित्पृच्छति - ' अनन्तरे एते ब्राह्मणकुले ' इति । स आह - ' नानन्तरे, वृषलकुलमनयोरन्तरा ' इति । 


आक्षेपभाष्यम् - किं पुनः कारणं क्वचिदतज्जातीयं व्यवधायकं भवति, क्वचिन्न ? 


समाधानभाष्यम् - सर्वत्रैव ह्यतज्जातीयकं व्यवधायकं भवति । 


आक्षेपभाष्यम् - कथम् - अनन्तराविमौ ग्रामाविति ? 


समाधानभाष्यम् - ग्रामशब्दोऽयं बह्रर्थः । अस्त्येव शालासमुदाये वर्तते, तद्यथा - ग्रामो दग्ध इति । अस्ति वाटपरिक्षेपे वर्तते, तद्यथा - ग्रामं प्रविष्ट इति । अस्ति मनुष्येषु वर्तते, तद्यथा - ग्रामो गतो ग्राम आगत इति । अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते, तद्यथा - ग्रामो लब्ध इति । तद्यः सारण्यके ससीमके सस्थण्डिलके वर्तते तमभिसमीक्ष्यैतत्प्रयुज्यते - अनन्तराविमौ ग्रामाविति । सर्वत्रैव ह्यतज्जातीयकं व्यवधायकं भवति । हलोनन्तराः ॥ ७ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code