१.१.६
सूत्राणि:॥ दीधीवेवीटाम् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - दीधी-वेवी-इटाम् ६।१
समासः - दीधीश्च वेवीश्च इट् च ते - दीधीवेवीट:, तेषाम् - दीधीवेवीटाम् (इतरेतरयोगद्वन्द्वः) ।
अनुवृत्तिः - इको गुणवृद्धी, न इति चानुवर्तते ।
अन्वयः - दीधीवेवीटाम् इको गुणवृद्धी न ।
अर्थ: - दीधी-वेवी-इटाम् इक: स्थाने गुणवृद्धी न भवतः ।
उदाहरणम् - (दीधी) आदीध्यनम् । आदीध्यकः । (वेवी) आवेव्यनम् । आवेव्यकः । (इट्) श्वः कणिता ।
आर्यभाषार्थ - (दीधीवेवीटाम्) दीधी, देवी और इट् के (इक:) इक् के स्थान में (गुणवृद्धी) गुण और वृद्धि (न) नहीं होती है ।
उदाहरणम् - (दीधी) आदीध्यनम् । चमकना । आदीध्यकः । चमकनेवाला । (वेवी) आवेव्यनम् । गति आदि करना । आवेव्यकः । गति आदि करनेवाला । (इट) श्वः कणिता । वह कल आवाज करेगा ।
सिद्धिः - (१) आदीध्यनम् । आङ्+दीधी+ल्युट् । आ+दीधी+अन । आदीध्यन+सु । आदीध्यनम् । यहां आङ् उपसर्गपूर्वक 'दीधीङ् दीप्तिदेवनयो:' (अदा.आ.) धातु से 'ल्युट् च' (३.३.११५) से भाव अर्थ में ल्युट् प्रत्यय करने पर 'सार्वधातुकार्धधातुकयोः' (७.३.८४) को गुण प्राप्त होता है, किन्तु इस सूत्र से गुण का प्रतिषेध हो जाता है ।
(२) आदीध्यकः । आङ्+दीधी+ण्वुल् । आ+दीधी+अक । आदीध्यक+सु । आदीध्यकः । यहां आङ् उपसर्गपूर्वक 'दीधीङ् दीप्तिदेवनयो:' (अदा.आ.) धातु से 'ण्वुल्तृचौ (२.१.१३३) से ण्वुल् प्रत्यय करने पर 'अचो ञ्णिति' (७.२.११५) से वृद्धि प्राप्त होती है, किन्तु इस सूत्र से वृद्धि का प्रतिषेध हो जाता है ।
(३) आवेव्यनम् और आवेव्यकः शब्दों की सिद्धिः आङ्पूर्वक वेवी वेतिना तुल्ये (अदा.आ.) धातु से आदीध्यनम् और आदीध्यक: के समान समझें ।
(४) श्वः कणिता । कण्+लुट् । कण्+तिप् । कण्+डा । कण्+तास्+आ । कण्+इट्+तास्+आ । कण्+इ+त्+आ । कणिता । यहां 'कण शब्दार्थे' (भ्वादि.प.) धातु 'अनद्यतने लुट्' (३.३.१५) लुट् प्रत्यय करने पर और तास के टि भाग का लोप हो जाने पर 'पुगन्तलघूपधस्य च' (७.३.८६) से इट् को गुण प्राप्त होता है, किन्तु इस सूत्र से गुण का प्रतिषेध हो जाता है ।
॥ काशिका ॥
दीधीवेव्योरिटश्च ये गुणवृद्धी प्राप्नुतस्ते न भवतः । आदीध्यानम्, आदीध्यकः । आवेव्यनम्, आवेव्यकः । इटः खल्वपि - कणिता श्वः, रणिता श्वः । वृद्धिरिटो न संभवतीति लघूपधगुणस्यात्र प्रतिषेधः ॥
॥ न्यासः ॥
‘दीधीवेव्योः’ इति । दीधीङ दीप्तिदेवनयो:’ (धा.पा.१०७६); ‘वेवीङ वेतिना तुल्ये (धा.पा.१०७७) इत्येतयोर्ग्रहणम् । ननु च ‘दीङ क्षये’ (धा.पा.११३४) ‘धीङ अनादरे (धा.पा.११३६), ‘वेञ् तन्तुसन्ताने’ (धा.पा. १००६) ‘वी गतिप्रजनकान्त्यसनखादनेषु’ (धा.पा. १०४८) इत्येतेषां ग्रहणं कस्मान्न विज्ञायते ? यद्येषां ग्रहणमभिमतं स्यादसन्देहार्थं ‘वीवेधीदीटाम्’ इत्येवं न्यासं कुर्यात् । अन्यथा तु कृतम् । तस्मात् पूर्वोक्तयोरेव धात्वोरिह ग्रहणम् । इटश्चेति - ‘आर्धधातुकस्य’ (७.२.३५) इत्यादिना विहितस्य । अथ ‘इट्, किट, कटी गतौ’ (धा.पा.३१८,३१९,३२०) इत्यस्य ग्रहणं कस्मान्न भवति, युक्तं चैतत् धातुसाहचर्यात् ? नैतदस्ति; इह अल्पाच्तरम्’ (२.२.३४) इत इट: पूर्वनिपाते कर्त्तव्ये तद्विपर्यासं कुर्वतैतत् सूचितम्- ‘अन्योऽप्यत्र कश्चिद्विपर्यासो विज्ञेयः’ इति । तेन धातुसाहचर्याद्धातुग्रहणे प्राप्ते तद्विपरीतस्यैवागमस्य ग्रहणं विज्ञायते । ‘आदीध्यनम्’ इति । ल्युट् । ‘आदीध्यकः’ इति । वुल् । ‘कणिता श्वः, रणिता श्वः’ इति । ‘अण रण कण’ (धा.पा. ४४४,४४५,४४९) इत्यादौ शब्दार्थे धातुवर्गे कणिरणी पठ्येते, ताभ्यां लुटि स्यताशी लृलुटोः’ (३.१.३३) इति तासि:, ‘लुटः प्रथमस्य (२.४.८५) इत्यादिना तिषो डादेशः, टिलोपः, ‘आर्धधातुकस्य’ (७.२.३५) इत्यादिनेट् । अथेटो वृद्धेरुदाहरणं कस्मान्न प्रदर्शितमित्याह - ‘वृद्धिरिटो न सम्भवति’ इति । अङ्गस्य वृद्धिणिदादौ प्रत्यये विधीयते इट् चायमार्धधुकभवतः । न चार्धधातुकस्याङसञ्ज्ञास्ति णिदादौ प्रत्यये । तस्मादिटो वृद्धिर्न भवति ।
॥ पदपञ्जरी ॥
“दीधीवेव्यो” रिति । “दीधीङ् दीप्तदेवनयोः” “वेवीङ् वेतिना तुल्ये” इत्येतयोः । अथ दीङ् क्षये” “धीङ् अनादरे” “वेञ् तन्तुसन्ताने” वी गत्यादिषु” - एतेषां ग्रहणं कस्मान्न भवति ? दीडस्तावन्न भवति, “मीनातिमिनोतिदीङां ल्यपि च” इति चकारेणैज्विषय आत्वविधानात् । वेञोऽपि न भवति, गुणप्राप्त्यभावात्, नैतदस्ति; चकारस्तावन्मीनातिमिनोत्यर्थः स्यात्, दीडोऽपि ग्रहणं ल्यबर्थं स्यात्, वेञोऽपि प्रवेयमित्यत्र “ईद्यति” इति ईत्वे कृते गुणः प्राप्नोति । एवं तर्हि चतुर्णां ग्रहणेऽभिप्रेते, असन्देहार्थं “वीवेधीदीटाम्” इति ब्रूयात् । किञ्च - “अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी” । “इटश्चे”ति । आर्धधातुकस्येडित्यागमस्य । ननु धातुसाहचर्यात् “इट किट गतौ” इत्यस्य धातोर्ग्रहणं युक्तम्, सत्यम्, प्रसिद्ध्यतिशयादागमस्य ग्रहणम्, आगमोहि प्रसिद्धतरः । शास्त्रेऽल्पाचरत्वेन पूर्वनिपाताभावाच्च धातुरिट्, दीधीवेव्योस्तु धातुत्वात्प्रकृतित्वाद् “अभ्यर्हितं च” इति पूर्वनिपातः । अथ दीधीवेव्योः किमर्थं ग्रहणं, यावता छान्दसावेतौ छन्दसि च दृष्टानुविधिः, दृश्यते च गुणः “होत्राय वृतः कृपयन्नदीधेत्”, “अधीधयुर्दाशराज्ञः” इति, अतस्तयोरनर्थकः प्रतिषेधः ? केचिदाहुः - “आदीध्यनमावेव्यनम् इत्युदाहरतो वृत्तिकारस्य नानयोश्छान्दसत्वमभिप्रेतम्, अन्यथा हि छन्दस्येव किंचिदुदाहार्यम्” इति इदं तु वार्त्तिकविरुद्धम्; यदाह - “दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधानाच्च छन्दस्यदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः” इति । “आदीध्यनमिति । ल्युटि “एरनेकाचः” इति यणादेशः । “कणिते”ति । “कणिरणी शब्दार्थौ” लुटि तिपौ डादेशस्तासि टिलोपः, कणित् + आ इति स्थिते तकारन्तं लघूपधमङ्गमिति प्राप्तस्य गुणस्य प्रतिषेधः । ननु च “नेड्वशि कृति” इत्यत इडित्यनुवर्त्तमाने “आर्धधातुकस्येट्” इति पुनरिग्रहणम् “इडेव यथा स्याद्, विकारो मा भूद्” इत्येवमर्थं भविष्यति । यद्येवम्; अलावीत्, पिपठिषतेः क्विपि पिपठी रित्यत्र “अकः सवर्णे दीर्घः” “र्वोरुपधायाः” इति च दीर्घो न स्याद् । अङ्गप्रकरणे नियमादाङ्ग एव विकारो निवर्त्यते, इह च पिपठिषतेरप्रत्यये नपुंसके जसः शिः, अतो लोपस्य स्थानिवत्त्वान्नुम्न भवतीति “सान्तमहतः” इति दीर्घत्वं न भवतीतिपिपठिषि ब्राह्मणकुलानीति भवति ॥
॥ शब्दकौस्तुभः ॥
दीधीवेव्योरिटश्व गुण्वृद्धी न स्तः । आदीध्यनम्, आदीध्यकः । आवेव्यनम् आवेव्यकः । अकणिषम् । अरणिषम् । कणिता श्वो रणिता श्वः। इहामं प्रति सिजन्तमङ्गम् । तिपो डादेशं प्रति तु ‘कणित्’ ‘रणित्’ इति तान्तमङ्गं, तस्यामं डादेशं च सार्वधातुकं निमित्तीकृत्य लघधूपधगुणः प्राप्तोऽनेन निषिध्यते । वृद्धिस्त्विटो न सम्भवत्येव । लुडन्ततां स्फोटयितुं श्व इत्यस्य प्रयोगः । न हि तृजन्ते तृन्नन्ते वेटो गुएणप्राप्तिः प्रत्ययावयवत्वात्तस्य । अथ दीङ् क्षेये (धा.सू.२८) धीङ् अनादरे (धा.सू. ३०) वेञ् तन्तुसन्ताने (धा.सू.३८) तेषामिह ग्रहणं कुतो नेति चेत् ? न, अवयवप्रसिद्ध्यपेक्षया समुदायप्रसिद्धेर्बलवत्त्वात् । किञ्च चतुर्णां ग्रहणेऽभिप्रेतेऽसन्देहार्थं दीवेधीवीटाम्’ इत्येव ब्रूयात् । इट् चात्रागम एव गृह्यते न इट् गतौ (धा.सू. ३१९) इति धातुः । ननु दातुसाहचर्याद्धातुरेव गृह्यताम् । मैवम्, साहचर्यस्य सर्वत्रानियामकत्वात् । अन्यथा द्विस्त्रिश्चतुरिति कृत्वोर्थे (७।३।४३) इति सूत्रे कृत्वोर्थग्रहणं न कुर्यात्, द्विस्त्रिरिति सुजन्ताभ्यां साहचर्येण चतुरित्यस्यापि सुजन्तस्य ग्रहमसम्भवात् ।अत एवागमापेक्षया प्रकृतेरभ्यर्हितत्वाद्दीधीङः पूर्वानिपातः सूत्रे कृतः । इटोऽपि धातुत्वे तु प्रकृतित्वाविशेषेऽप्यल्पाच्तरत्वात्तस्यैव पूर्वनिपातः स्यात् ।
अत्रेदमवधेयम्, ‘दीध्यकः’ ‘वेव्यकः’ इति यदुदाहृतं तद्दीधीवेवीब्यां शुद्धाभ्यमेव ण्वुलि रूपं न तु ण्यन्ताभ्यामपि । यत्तु यीवर्णयोः (७.४.५३) इति सूत्रे हरदत्तेनोक्तम् वर्णशब्दो वर्ण विस्तारे (धा.सू.४०६) इतिधातोः पचाद्यजन्तः, श्रूयमाण एव वर्णे यता स्थानिवत्त्वोपि श्रूयमाणत्वाबावाल्लोपाभावे यणि कृते ‘दीध्यकः’ ‘वेव्यकः’ इत्येव शुद्धेन समानाकारं रूपं भवतीति, तदेतत्, नाग्लोपिशास्वृदिताम् (७.४.२) इत्येतस्मिन्सूत्रे भाष्यकारैरेव ण्यन्तस्य ‘दीधकः’ इति रूपं शुद्धस्य तु ‘दीध्यकः’ इति व्युत्पादितत्वात्सिद्धान्तविरोधादुपेक्ष्यम् । तत्र हि वर्णग्रहणं लुप्तेऽपि वर्णे यथा स्यादित्येवमर्थमित्याशङ्क्य स्थानिवद्भावेन सिद्धेरन्तरङ्गत्वाण्णिलोपात्प्राग् यीवर्णयोः(७.४.५३) इति लोपसिद्धेस्व वर्णग्रहणं प्रत्याख्यातम् । ननु वर्णग्रहणं कुर्वतः सूत्रकारस्याशयं भाष्यकारोक्तादन्यमेवानुसृत्यब्रूम इति चेत् ? सत्यम्, तथापि यथोत्तरं मुनीनां प्रामाण्याद्रूपाशुद्धिस्तदवस्थैवेति दिक् ।
स्यादेतत्, दीधीवेव्योर्ङित्वात् ङ्किति च(१.१.५) इति सूत्रेणैव निषेधोऽस्तु किमिह दीर्घीवेवीग्रहणेन ? मैवम्, इग्लक्षणयोर्हि स निषेध इत्युक्तमअ। न च अचो ञ्णिति (७.२.११५) इति वृद्धिरिग्लक्षणा । किञ्च कार्यिणो निमित्तत्वे पूर्वेण सिद्धिः सम्भवेदपि । न च कार्यी निमित्ततयाऽऽश्रीयते ‘च्यवते’ ‘प्लवते’ इत्यादावपि गुणनिषेधापत्तेः । अत्र च लिङ्गं कुटादिमध्ये कूङ् शब्दे (धा.सू.१२१) इत्यस्य पाठः स्थाण्डिलाच्छयितरि (४.२.१५) इति निर्द्देशश्च । यत्तु प्रकृतसूत्रे दीधीवेव्योर्ग्रहणमेवैतत्परिभाषाज्ञापकमिति । तन्न, अनिग्लक्षणवृद्धिनिषेधेन चरितार्थत्वात् भाष्यमते एतत्सूत्रस्य प्रत्यक्या स्यमाननयोक्तपरिभाषायां लिङ्गान्तरस्यैवानुसर्त्तव्यत्वाच्च ।
स्यादेतत्, यदि कार्यी निमित्तत्वेन नाश्रीयते कथं तर्हि ‘ऊर्णुनविषति’ इत्यत्र द्विर्वचनेऽचि (१.१.५९) इति नुशब्दस्य द्वित्वम्, इष इत्यस्य अजादित्वेऽपि द्वित्वं प्रति कार्यिमध्ये प्रविष्टतया निमित्तत्वासम्भवात् सन्यहो (६.१.९) इति षष्ठीमाश्रित्य सन्नन्तस्य द्वित्वविधानात् । अन्यथा ‘प्रतीषिषति’ इति सनो द्वित्वं न स्यात् । यत्तु सन्यङोः (६.१.९) इति सप्तम्याश्रयणोऽपिसन्यङोरकारोच्चारणसामर्थ्याद् द्वित्वं भविष्यतीति, तन्न दित्सधित्सादिभ्यो यङुत्पत्तिप्रतिबन्धेन अचो यद् (३.१.९७) इति यत्प्रत्ययोत्पादनेन चाकारोच्चारणस्य चरितार्थत्वात् । अन्यथ ‘अरिरिषति’ इत्याद्यसिद्धेश्च । यदि हि तत्रापि स्थानिवत्स्यादि सो द्विर्वचने कृते ‘अरिषति’ इति स्यात् ।
अत्रोच्यतेकार्यमनुभवन्नेव कार्यी निमित्ततया नाश्रीयत इति परिभाषार्थः । ‘अरिरिषति’ इत्यत्र हि अजादेर्द्वितीयस्य (६.१.२) इती रिस्शब्दे द्वित्त्वप्रवृत्तिः । तदन्तर्गतश्चेसूशब्द इति नासौ द्वित्वं प्रति निमित्तं कार्यभाक्त्वात् । ‘ऊर्णुनविषति’ इत्यत्र तु नव्शब्दस्य द्वित्वं प्राप्तं तदनन्तर्गतश्चेस्शब्द इति भवत्येव निमित्तं तद्भावभावितामात्रेणेह निमित्ततेति सन्यङोः (६.१.९) इति सूत्रे भाष्यकारैरेव स्फुटीकृतत्वात् । तथा च द्विर्वचनेऽचि (१.१.५९) इति स्थानिवद्भावान्नुशब्दस्य द्वित्त्वमुचितमेव । यत्तु द्विर्वचनेऽचि (१.१५९) इति सूत्रे ‘अचि किं’ ? जेघ्रीयते ‘देध्मीयते’ इति प्राचां प्रत्युदाहरणं, तदापाततः, घ्रीय् ध्मीय् इत्यस्य द्वितत्वभाक्तया ई घ्राध्यमोः (७.४.३१) इतीत्वं प्रति निमित्तभूतस्य यङो द्वित्त्वम्प्रत्यनिमित्तत्वात् । तस्मात्तत्राचीत्यस्य ‘अधिजगे’ इत्येतदेव व्यावर्त्त्यं बोध्यम्, गाङ्लिटि (२.४.४९) इति द्विलकारकनिर्द्देशमाश्रित्यलावस्तायामेव गाङादेशविधानात् । अज्ग्रहणन्तु ज्ञापकं रूपस्थानिवद्भावस्येति तत्रत्यवार्त्तिकमपि ‘अधिजगे’ इत्येतस्मिन्नुदाहरणे कार्यातिदेशाश्रयणेऽज्ग्रहणवैयर्थ्यं स्यादित्येव योज्यमिति दिक् ।
यत्त्वसिद्धव्त्सूत्रे वक्ष्यते ’अत्र ग्रहणं समानाश्रयप्रतिपत्त्यर्थम्’ तन्न, आश्रयत्वं स्थानितया निमित्ततया वा कथञ्चिदाश्रयणमात्रेण न तु निमित्ततयैवेत्याग्रहः । तेन शा हौ (६.४.३५) इति शाभावो हेर्धित्वे कर्त्तव्ये ऽसिद्धो भवति । अन्यथा धित्वे हेः कार्यितया निमित्तत्वाभावादसिद्धत्वं न स्यात् । अत एव समानाश्रयमाभीयमाभीयेऽसिद्धमित्येवाहुर्न तु समाननिमित्तमिति ।
इदञ्च सूत्रं भाष्यवार्त्तिकयोः प्रत्याख्यातम् । तथाहि, दीधीवेव्यौछान्दसौ धात् न तु लोके प्रयोगार्हौ। छन्दसि चानयोर्गुणोदृश्यते ’होत्राय वृतः कृपयन्नदीधेत्’ ‘अदीधयुर्द्दीशरज्ञे वृतासः’ इत्यादौ । न चा यम्बाहुलकेन समाधेयः, तथा सति निषेधसूत्रानारम्भस्यैव लाघवेनोचितत्वात् । तथेटो । पिग्रहणं व्यर्थम् आर्द्धदातुकस्येट् (७.२.३५) इत्यत्र हि नेड् वशइ कृति(७.२.८) इति सूत्रादिड्ग्रहणमनुवर्त्तते । तच्चेटो विकारभावार्थम् इट् इडेव न तु विकृत इति व्याक्यानात् । ततो लघूपधगुणाबावात्सिद्धं ‘कणिता श्वः’ ‘रणिता श्वः’ इत्यादि । न चैवं ‘पिपठीः’ इत्यत्र दीर्घो न स्यादिति वाच्यम्, तस्य नि यमं प्रत्यसिद्धत्वात् । ‘अपाठीत्’ इत्यत्र सवर्णदीर्घस्तु न वार्यते सिज्लोप एकादेशे सिद्धो वक्तव्यः (का.वा.) इति ज्ञापकात् । यद्वा, अङ्गाधिकारे क्रियमाणो नियम आङ्गमेव विकारं व्यावर्त्तयति । तेन र्वोः (८.२.७६) इति अकः सवर्णे (६.१.१०१) इति च दीर्घो भवत्येव । ‘ग्रहीता’ इत्यत्रतु ग्रहोऽलिटि (७.२.३७) इत्यारम्भसामर्थ्याद्दीर्घो भवत्येव ।
इदं न्त्ववशिष्यते ’पिपठींषि ब्राह्मणकुलानि’ इत्यत्रं सान्तमहतः संयोगस्य (६.४.१०) इति दीर्घत्वं न स्यात् । सिद्धत्वादाङ्गत्वात् ‘तेजांसि’ इत्यादौ चरितार्थत्वाच्च ‘पिठठीः’ ‘अपाठीत्’ ‘ग्रहीता’ इत्यादिपूर्वोदाहृतेभ्योऽस्य वैलक्षण्यादिति । अत्राहुः ’पिपठींषि’ इति प्रयोगोऽसाधुरेव । न ह्यत्र नुमागमो लभ्यते अल्लोपस्य स्थानिवद्भावेनाझलन्तत्वात् । न चैवमजन्तत्वप्रयुक्तो नुम् स्योदेविते वाच्यम्, तस्य सकारादुत्तरत्र प्रसक्त्या दीर्घस्य तथाप्यप्रवृत्तेः, सान्तसंयोगाभावात् । वस्तुतस्त्वजन्तत्वप्रयुक्तो नुमत्र न भवत्येव स्थानिवद्बावासंभवात् । अनादिष्टादचः पूर्वस्य विधौ हिसः । न चाजन्तमनादिष्टादचः पूर्वं, येन तस्य नुमि कर्त्तव्येऽल्लोपः स्थानिवत्स्यात् । ननु झलन्तत्वप्रयुक्तो नुम् दुर्वारः । न च तस्मिन्कर्त्तव्ये स्थानिवद्भावः शङ्क्यः, क्वौ लुप्तं न स्तानिवित् (का.वा.) इति निषेधात् । अन्तथा सखीयतेः क्विपि सखीः सुतीयतेः सुतीरित्यादि न स्यात्, अल्लोपस्य स्थानिवद्भावेन यणादेशप्रसङ्गात् ।
अत्रोच्यते, क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसंख्यानम् (का.वा.) इति तावद्वार्त्तिकशरिरम् । तत्रक्वीत्यंशो यद्यपि द्वेधा व्याख्यास्यतेक्वौ लुप्तं न स्थानिवदिति, ‘क्वौ विधिम्प्रति न स्थानिवदिति च । देवयतेः क्विपि ‘दयूः’ इत्यादेरन्यतरव्याख्यानाश्रयणेन सिद्धावपि सखीयतेः सखीरित्यस्याद्यव्याख्यानं विना असिद्धेः, लवमाचक्षाणो ‘लौः’ इत्यस्य द्वितीयव्याख्यानं विनाऽसिद्धेश्च, ततापि ‘क्वौ विधिं प्रति’ इति द्वितीयव्याख्यानमेव सार्वत्रिकम् । क्वौलुप्तम् इति तुक्वाचित्कं ख्यत्यात्(६.१.११२) इत्यत्र मपर्यन्तस्य(७.२.९१) इत्यत्र च भाष्यादावाश्रितं न तु सार्वत्रिकम् । अत्र चेड्ग्रहणप्रत्याख्यानपरमत्रत्यभाष्यमेव प्रमाणम् । कथमन्यथा ‘पिपठींषि’ इत्यादौ दीर्घस्येष्टत्वे सूत्ररीत्या च तल्लाभे इड्ग्रहणं प्रत्याचक्षीत । तस्मात् ‘पिपठिषि ब्राह्मणकुलानि’ इत्येव रूपं भवतीति स्थितम् ।
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । आदीध्यनम् । आदीध्यकः । आवेव्यनम् । आवेव्यकः । अकणिषम् । अरणिषम् । कणिता श्वः । रणिता श्वः । अङ्गसंज्ञायां तदादिग्रहणेन मिबादेशममं प्रति सिजन्तमङ्ग तिबादेशं डाशब्दं प्रति च कणित् इत्यङ्गम् । तत्रोक्तादेशद्वयसार्वधातुकं निमित्तीकृत्य प्रसक्तस्य लघूपधगुणस्यायं निषेधः । तृजन्तादौ इटः प्रत्ययावयवत्वेन तदुत्तरप्रत्ययान्तराभावादङ्गानन्तर्गतत्वेन च गुणाप्रसक्त्या लुडन्तत्वद्योतनाय श्व इत्युक्तम् । ‘डादेशं प्रति तास्यन्तस्याङ्गतया तास्यवयवस्य इटो गुणप्रसक्तिसम्भवात् ।
न च दीङ् क्षये, धीङ् अनादरे, वेञ् तन्तुसन्ताने, वी गत्यादिषु एषामेव ग्रहणं स्यादिति वाच्यम् । अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी इति न्यायात् । तन्मात्रतात्पर्यग्राहकानुपूर्व्यन्तरपरित्यागसामर्थ्याच्च । इट् चागम एव । न तु इट् गताविति धातुः । कृत्वोऽर्थग्रहणेन साहचर्यस्य नियामकत्व नियमभङ्गस्य ज्ञापितत्वात् ।
अत्र वदन्ति दीध्यको वेव्यक इति शुद्धयोरेव दीधीवेव्यो रूपम्, न तु ण्यन्तयोः । आदीधकः आवेवकः इत्येव रूपयोस्तत्र स्वीकारात् । यत्तु हरदत्तेनोक्तम् वर्णग्रहणसामर्थ्यात् श्रूयमाण एव इवणें लोपो न लुप्ते, तेन ण्यन्ताभ्यां ण्बुलि णिलोपस्य पूर्वविधौ स्थानिवत्त्वेऽपि श्रूयमाणत्वाभावाल्लोपाभावे यणि कृते दीध्यको वेव्यक इति शुद्धसमानाकारकमेव रूपमिति तच्चिन्त्यम्, नाग्लोपि इति सूत्रगतभाष्यविरोधात् । तत्र वर्णग्रहणं लुप्तेऽपीवर्णे यथा स्यादित्येवमर्थमित्याशङ्ङ्कय स्थानिवद्भावेन सिद्धेरन्तरङ्गत्वाण्णिलोपात्याग् यीवर्णयोः इति लोपसिद्धेश्च वर्णग्रहणस्य प्रत्याख्यातत्वात् । भाष्यकारा "नुरोधेन च साधुत्वस्वीकारादिति ।
भाष्यवार्त्तिकयोस्त्वेतत्सूत्रं प्रत्याख्यातम् । दीधीवेव्योश्छान्दसत्वेन लोके प्रयोगानर्हत्वात् । छन्दसि च गुणदर्शनात् । तथा च प्रजापतिर्वे मनसा यत्किञ्चिन्नादीधेत्, हौत्राय वृतः कृपयन्नदीघेत्, अदीधयुर्दासराज्ञे वृतास इत्यादि । छान्दसत्त्वेनैतत्समाधानापेक्षया च क्वचिच्छ्रयमाणगुणाभावस्यैव तेन साधयितुं युक्तत्वात् ।
इटोऽपि ग्रहणं व्यर्थम् । इड्विधौ नेड्वशि कृति इति सूत्रादिड्ङ्ग्रहणमनुवर्त्य एकस्य इट्पदस्य विकाराभाववत्परत्वेन इट् विकाराभाववानेवेति व्याख्यानेन गुणाभावस्य सिद्धत्वात् । न चैवं पिपठीरित्यादौ वर्वोरुपधाया दीर्घ इकः इति दीर्घोऽपि न स्यादिति वाच्यम् । तस्य नियमं प्रत्यसिद्धत्वात् । यद्वा नियमस्याङ्गाधिकारीयत्वात्तत्रत्यस्यैव विकारस्य नियमेन व्यावृत्तिरित्युक्तदीर्घद्वयं निर्बाधमिति भाष्यकृतः ।
अपाठीदित्यत्रापि सिज्लोप एकादेशे सिद्धो वक्तव्यः इति ज्ञापकात् सवर्णदीर्घः । न च ग्रहोऽलिटि इत्यस्याप्याङ्गत्वान्निषेधापत्तिः । आरम्भसामर्थ्यादिति कैयटादयः । वस्तुतस्तु विकारपदस्य इकारवृत्तिभेदप्रतियोगितावच्छेदकजातिमत्परतया तादृशविकारस्य एकारादिरूपस्यैव निषेधो न तु दीर्घस्य । इत्वावच्छिन्नत्वात्तस्यापीति रहस्यम् । स्यादेतत्पिपठीषि ब्राह्मणकुलानीत्यत्र सान्त महतः संयोगस्य इति दीर्घो न स्यात् । सिद्धत्वात्, आङ्गत्वात्, अन्यत्र चरितार्थत्वाद, वैजात्यानवच्छिन्नत्वाच्चेति ।
अत्राहुः असाधुरेवोक्तप्रयोगः । अतोलोपस्य स्थानिवद्भावेन झलन्तत्वाभावात्तल्लक्षणस्य नुमो दुर्लभत्वात् । न च तर्हाजन्तत्वादेव नुम् स्यादिति वाच्यम् । अजन्तत्वप्रयुक्तस्य नुमः सकारोत्तरमेव प्रसक्तेः । सान्तसंयोगाभावेन तथाऽपि दीर्घाप्रसक्तेः । अनादिष्टादचः ‘पूर्वत्वाभावेन तस्य स्थानिवत्त्वासम्भवात् । पिपठिष इत्यजन्तस्य लोपपूर्वदशायामकारापेक्षया पूर्वत्वाभावात् । न ह्यकारविशिष्टस्याकारात्पूर्वत्वम्, बाधात् ।
न च क्वौ लुप्तं न स्थानिवद् इति अतो लोपस्य स्थानिवत्त्वाभावाज्झलन्तलक्षणो नुम् स्यादेवेति वाच्यम् । क्वौ विधिं प्रति न स्थानिवदित्यस्यैवार्थस्य व्यवस्थितत्वात् । लवमाचक्षाण इत्यर्थे तत्करोतीति ण्यन्तात् लवशब्दात् क्विपि णेरनिटि इति णिलोपे कृते वकारस्य ऊठि कर्तव्ये णिनिमित्तकस्यातोलोपस्य स्थानिवद्भावो मा भूदित्यर्थकत्वात् । सुखीयतिसुतीयतिभ्यां क्विपि अल्लोपयलोपयोः कृतयोः अल्लोपस्य स्थानिवत्त्वेन यणादेशो मा भूदित्येतदर्थ क्वौ लुप्तमित्यस्याश्रयणेऽपि तस्यासार्वत्रिकत्वात् इति न पदान्त सूत्रे वक्ष्यमाणत्वात् । प्रकृते च नुमः क्विन्निमित्तकत्वाभावेन क्वौ विधिमित्यस्याप्रवृत्तेः ॥
॥ सिद्धान्तकौमुदी ॥
दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ॥
॥ बालमनोरमा ॥
दीधीवेवी । 'दीधीह् दीप्तिदेवनयोः' 'वेवीङ् वेतिनी तुल्ये'। दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्ठी । 'इको गुणवृद्धी' इत्यतो गुणवृद्धी इति, 'न धातुलोप' इत्यतो नेति चानुवर्तते ॥
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
अर्थः - दीधी च वेवी च इट् चेति दीधीवेवीटः, तेषां दीधीवेवीटाम्, इतरेतरयोगद्वन्द्वसमासः । दीधीङ् दीप्तिदेवनयोः, वेवीङ् वेतिना तुल्ये छान्दसौ धातू अदादिगणे पठितौ स्तः । “ न धातुलोप आर्धधातुके ” इत्यस्मात् सूत्रात् ‘ न ’ इति पदमनुवर्तते । “ इको गुणवृद्धी ” इति सूत्रतः ‘ गुणवृद्धी ’ इति पदमनुवर्त्तते । तथा च सूत्रार्थो निष्पद्यते दीधीवेव्योः इटश्च इकः स्थाने ये गुणवृद्धी प्राप्नुतस्ते न भवतः । उदाहरणञ्चास्य - आदीध्यनम् आदीध्यकः, आवेव्यनम् आवेव्यकः । पठिता कणिता ।।
अत्र चत्वारो धातवो वा त्रयो वा द्वौ
ननु च ‘ दीङ् क्षये ’, ‘ धीङ् अनादरे ’, ‘ वेञ् तन्तुसन्ताने ’, ‘ वी गतिप्रजनकान्त्यसनखादनेषु ’ इत्येषां ग्रहणं कस्मान्न विज्ञायते ? ‘ अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलयसी ’ इति न्यायात् यथा ‘ वर्षासु रथकारोऽग्नीनादधीत ’ इत्यत्र ‘ रथं करोति ’ इति विग्रहापेक्षया रूढस्य समुदायस्य स्वीकारवदित्यदोषात् । किञ्च यदि चतुर्णां ग्रहणं स्यात्तर्हि “ मीनातिमिनोतिदीङां ल्यपि च ” इति सूत्रे चकारेणैज्निमित्ते आत्वविधानात् दीङ्ग्रहणं व्यर्थं स्यात् । चकारस्तावन्मीनातिमिनोत्यर्थः स्यात्, दीङोऽपि ग्रहणं ल्यबर्थं सार्थकं स्यात् । एवं तर्हि एजन्तस्य वेञ् धातोः गुणप्राप्त्यभावात् तद्गुणनिषेधाय वेञ्ग्रहणं व्यर्थं स्यात्तस्मान्न चर्तुणां ग्रहणं स्यात् । ‘ वेञ् ’ धातोः “ अचो यत् ” इति सूत्रेण यत्प्रत्यये सति “ आदेच उपदेशेऽशिति ” इति सूत्रेण आत्वे कृते “ ईद्यति ” इति सूत्रेण ईत्वे कृते गुणः प्राप्नोति । एवं तर्हि चर्तुणां ग्रहणेऽभिप्रेतेऽसन्देहार्थं ‘ दीवेधीवीटाम् ’ इत्येवं न्यासेन सूत्रं कुर्यात्, परञ्च तथा न कृतम्, तस्मात् स्थालिपुलकन्यायेनैकदेशानुमत्त्याऽवयवविभागो नास्ति किन्तु दीधीवेव्योरेव ग्रहणं स्याल्लक्ष्यनुरोधात्, ‘ दीधीवेव्योः ’ इति वार्त्तिके द्विवचनदर्शनात्, भाष्ये ‘ आदीध्यनम् ’, ‘ आवेव्यनम् ’ इत्याद्युदाहरणदर्शानात्।
इट् चात्रागम एव गृह्यते न तु ‘ इट् गतौ ’ इति धातुः । ननु ‘ सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम् ’ इति परिभाषया धातुसाहचर्याद् ‘ इट् गतौ ’ इति धातुरेव गृह्यताम् । मैव, साहचर्यस्य सर्वत्रानियमकत्वात् । अन्यथा “ द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ” इति सूत्रे कृत्वोऽर्थग्रहणं न कुर्यात्, द्विस्त्रिरिति सुजन्ताभ्यां साहचर्येण चतुरित्यस्यापि सुजन्तस्य ग्रहणसम्भवात् । अत एवागमापेक्षया प्रकृतेरभ्यर्हितत्वाद्दीधीङः पूर्वनिपातः सूत्रे कृतः । इटोऽपि धातुत्वे तु प्रकृतित्वाविशेषेऽप्यल्पाच्तरत्वात्तस्यैव पूर्वनिपातः स्यात् ।
भाष्यवार्त्तिकयोस्त्वेतत्सूत्रं प्रत्याख्यातम्
महाभाष्यकारेण त्वेदं सूत्रं प्रत्याख्यातम् । तथाहि - दीधीवेव्योश्छान्दसत्वेन लोके प्रयोगानर्हत्वात्, छन्दसि दृष्टानुविधानात्, दीयमानस्य एतदुदाहरणस्य ‘ आदीध्यनम्, आवेव्यनम्, आदीध्यकः, आवेव्यकः ’ इत्यादेश्छन्दसि अनुपलम्भात् ‘ अदीधेत्, अदीधयुः ’ इत्यादौ च गुणदर्शनात् तदर्थं नेदमारब्धव्यम् । छान्दसत्वेनैतत्समाधानापेक्षया च क्वचित्श्रूयमाणगुणाभावस्यैव तेन साधयितुं युक्तत्वात् ।
गुणनिषेधाय इटोऽपि ग्रहणं व्यर्थम् । यतो हि “ नेड् वशि कृति ” इति सूत्रतः ‘ क्वचिदेकदेशोऽप्यनुवर्त्तते ’ इति परिभाषाबलात् ‘ इट् ’ इत्यस्य “ आर्धधातुकस्येड् वलादेः ” इति सूत्रे अनुवर्त्तमानेनेष्टसिद्धौ पुनस्तत्र कृतमिड्ग्रहणं ज्ञापयति तच्चेटो विकाराभावार्थम् इट् इडेव न तु आदेशेन विकृतिं प्राप्नुयात् । तथा च इटो गुणाभावसिद्धत्वात् एतत्सूत्रं निष्प्रयोजनम् ।
न चैवं पिपठीरित्यादौ “ र्वोरुपधाया दीर्घ इकः ” इति सूत्रेण दीर्घोऽपि न स्यादिति वाच्यम् । अङ्गस्येत्यनुवर्तनादङ्गाधिकारविहितं यद्रूपान्तरमिटस्तदेव निवार्यते, र्वोरुपधाया इति च दीर्घत्वं नाङ्गम् । अत एव नियमस्याङ्गाधिकारीयत्वात् तत्रत्यस्यैव विकारस्य नियमेन व्यावृत्तिरित्युक्तदीर्धं निर्बाधमिति भाष्यकृतः ।
अपाठीदित्यत्रापि ‘ सिज्लोप एकदेशे सिद्धो वक्तव्यः ’ इति ज्ञापकात् सवर्णदीर्घः । नन्वेवम् अग्रहीत् इत्यत्र “ ग्रहोऽलिटि दीर्घः ” इति सूत्रेण आङ्गदीर्घो न स्यात्, तत्र आरम्भसामर्थ्यान्न क्वचिद्दोषः इति कैयटादयः ।
वस्तुतस्तु विकारपदस्य इकारवृत्तिभावप्रतियोगितावच्छेदकजातिमत्परतया तादृशविकारस्य एकारादिरूपस्यैव निषेधो न तु दीर्घस्य ।
॥ महाभाष्यम् ॥
(५. निषेधसूत्रम् १.१.४ आ. ३)
दीधीवेवीटाम् १.१.६
॥ सूत्रप्रयोजनाधिकरणम् ॥
आक्षेपभाष्यम् - किमर्थमिदमुच्यते ?
समाधानभाष्यम् - गुणवृद्धी मा भूतामिति । आदीध्यनम्, आदीध्यकः । आवेव्यनम्, आवेव्यकः इति ।
दीधीवेवीप्रत्याख्यानभाष्यम् - अयं योगः शक्योऽकर्तुम् । कथम् ?
(१३०. सिद्धान्तवार्त्तिकम् - १) * दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधित्वाच्च छन्दसश्छन्दस्यदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः *
भाष्यम् - दीधीवेव्योश्छन्दोविषयत्वात् । दीधीवेव्यौ छन्दोविषयौ । दृष्टानुविधित्वाच्छन्दसः । दृष्टानुविधिश्च छन्दसि भवति । ' छन्दसि अदीधेददीधयुरिति च गुणस्य दर्शनादप्रतिषेधः ' । अनर्थकः प्रतिषेधः अप्रतिषेधः । ' प्रजापतिर्वै यत्किञ्चिन्मनसाऽदीधेत् ' , ' होत्रायं वृतः कृपयुन्नदर्दीधेत् (ऋ.सं. - १०.९८.७) ' ' अर्दीधयुर्दाशराज्ञे वृतार्सः (ऋ.सं. - ७.३३.५) ' ।
आक्षेपभाष्यम् - भवेदिदं युक्तमुदाहरणम् - अदीधेदिति । इदं त्वयुक्तम् - अदीधयुरिति । अयं जुसि गुणः प्रतिषेधविषय आरभ्यते, स यथैव ' क्ङिति न ' इत्येतं प्रतिषेधं बाधते,एवमिममपि बाधेत ।
समाधानभाष्यम् - नैष दोषः, जुसि गुणः प्रतिषेधविषय आरभ्यमाणस्तुल्यजातीयं प्रतिषेधं बाधते । कञ्श्च तुल्यजातीयः प्रतिषेधः ? यः प्रत्ययाश्रयः । प्रकृत्याश्नयश्चायम् ।
समाधानान्तरभाष्यम् - अथवा येन नाप्राप्ते तस्य बाधनं भवति । न चाप्राप्ते ' क्ङिति न ' इत्येतस्मिन्प्रतिषेधे जुसि गुण आरभ्यते । अस्मिन्पुनः प्राप्ते चाप्राप्ते च ।
आक्षेपभाष्यम् - यदि तर्हायं योगो नारभ्यते । कथं दिध्यदिति ?
(१३१. सिद्धान्तसमाधानवार्त्तिकम् - २) * दीध्यदिति च श्यन्व्यत्यनेन *
भाष्यम् - दीध्यदिति च श्यन् व्यत्ययेन भविष्यति ।
एकदेशिप्रत्याख्यानभाष्यम् - इटश्चापि ग्रहणं शक्यमकर्तुम् ।
आक्षेपभाष्यम् - कथम् - अकणिषम्, अरणिषम्, कणिता श्वः, रणिता श्व इति ।
समाधानभाष्यम् - ' आर्धधातुकस्येड्वलादेः ' इत्यत्र इडिति वर्तमाने पुनरिड्ग्रहणस्य प्रयोजनम् - इडेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति । किञ्चान्यत्प्राप्नोति ? गुणः ।
आक्षेपभाष्यम् - यदि नियमः क्रियते, ' पिपठिषतेरप्रत्ययः पिपठीः ' दीर्घत्वं न प्राप्नोति ।
समाधानभाष्यम् - नैष दोषः । आङ्गं यत्कार्यं तन्त्रियम्यते । न चैतदाङ्गम् ।
समाधानान्तरभाष्यम् - अथवा असिद्धं दीर्घत्वं तस्यासिद्धत्वान्नियमो न भविष्यति । दीधीवेवीटाम् ॥ ६ ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know